देशबन्धः चित्तस्य धारणा ॥१॥
तत्र प्रत्ययैकतानता ध्यानम् ॥२॥
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिवसमाधिः ॥३॥
त्रयमेकत्र संयमः ॥४॥
तज्जयात् प्रज्ञालोकः ॥५॥
तस्य भूमिषु विनियोगः ॥६॥
त्रयमन्तरन्गं पूर्वेभ्यः ॥७॥
तदपि बहिरङ्गं निर्बीजस्य ॥८॥
व्युत्थाननिरोधसंस्कारयोः अभिभवप्रादुर्भावौ निरोधक्षण चित्तान्वयो निरोधपरिणामः ॥९॥
तस्य प्रशान्तवाहिता संस्कारत् ॥१०॥
सर्वार्थता एकाग्रातयोः क्षयोदयौ चित्तस्य समाधिपरिणामः ॥११॥
ततः पुनः शातोदितौ तुल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः ॥१२॥
एतेन भूतेन्द्रियेषु धर्मलक्षणावस्था परिणामा व्याख्याताः ॥१३॥
शानोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥१४॥
क्रमान्यत्वं परिणामान्यतेवे हेतुः ॥१५॥
परिणामत्रयसंयमाततीतानागत ज्ञानम् ॥१६॥
शब्दार्थप्रत्ययामामितरेतराध्यासात्संकरः तत्प्रविभागसंयमात् सर्वभूतरुतज्ञानम् ॥१७॥संस्कारसाक्षात्करणात् पूर्वजातिज्ञानम् ॥१८॥
प्रत्ययस्य परचित्तज्ञानम् ॥१९॥
न च तत् सालम्बनं तस्याविषयी भूतत्वात् ॥२०॥
कायरूपसंयमात् तत्ग्राह्यशक्तिस्तम्भे चक्षुः प्रकाशासंप्रयोगेऽन्तर्धानम् ॥२१॥
सोपक्रमं निरुपक्रमं च कर्म तत्संयमातपरान्तज्ञानम् अरिष्टेभ्यो वा ॥२२॥
मैत्र्यदिषु बलानि ॥२३॥
बलेषु हस्तिबलादीनी ॥२४॥
प्रवृत्त्यालोकन्यासात् सूक्ष्माव्यावहितविप्रकृष्टज्ञानम् ॥२५॥
भुवज्ञानं सूर्येसंयमात् ॥२६॥
चन्द्रे तारव्यूहज्ञानम् ॥२७॥
ध्रुवे तद्गतिज्ञानम् ॥२८॥
नाभिचक्रे कायव्यूहज्ञानम् ॥२९॥
कन्ठकूपे क्षुत्पिपासा निवृत्तिः ॥३०॥
कूर्मनाड्यां स्थैर्यम् ॥३१॥
मूर्धज्योतिषि सिद्धदर्शनम् ॥३२॥
प्रातिभाद्वा सर्वम् ॥३३॥
ह्र्डये चित्तसंवित् ॥३४॥
सत्त्वपुरुषायोः अत्यन्तासंकीर्णयोः प्रत्ययाविशेषोभोगः परार्थत्वात्स्वार्थसंयमात् पुरुषज्ञानम् ॥३५॥
ततः प्रातिभस्रावाणवेदनाअदर्शाअस्वादवार्ता जायन्ते ॥३६॥
ते समाधवुपसर्गा: व्युत्थाने सिद्धयः ॥३७॥
बद्न्हकारणशैथिल्यात् प्रचारसंवेदनाच्च चित्तस्य परशरीरावेशः ॥३८॥
उदानजयाअत् जलपण्खकण्टकादिष्वसङ्गोऽत्क्रान्तिश्च ॥३९॥
समानजयाज्ज्वलनम् ॥४०॥
श्रोत्राअकाशयोः संबन्धसंयमात् दिव्यं श्रोत्रम् ॥४१॥
कायाकाशयोः संबन्धसंयमात् लघुतूलसमापत्तेश्चाअकाश गमनम् ॥४२॥
बहिरकल्पिता वृत्तिः महाविदेहा ततः प्रकाशाअवरणक्षयः ॥४३॥
स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमात् भूतजयः ॥४४॥
ततोऽणिमादिप्रादुर्भावः कायसंपत् तद्धरानभिघात्श्च ॥४५॥
रूपलावण्यबलवज्रसंहननत्वानि कायसंपत् ॥४६॥
ग्रहणस्वरूपास्मिताअवयार्थवत्त्वसंयमातिन्द्रिय जयः ॥४७॥
ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥४८॥
सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाअधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥४९॥
तद्वैराग्यादपि दोषबीजक्षये कैवल्यम् ॥५०॥
स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥५१॥
क्षणतत्क्रमयोः संयमात् विवेकजंज्ञानम् ॥५२॥
जातिलक्षणदेशैः अन्यताअनवच्छेदात् तुल्ययोः ततः प्रतिपत्तिः ॥५३॥
तारकं सर्वविषयं सर्वथाविषयमक्रमंचेति विवेकजं ज्ञानम् ॥५४॥
सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यम् ॥५५॥

error: Content is protected !!