नमः श्रीकृष्णाय ।
यमलार्जुनभञ्जनमाश्रितरञ्जनमहिगञ्जनघनलास्यभरं
    पशुपालपुरन्दरमभिसृतकन्दरमतिसुन्दरमरविन्दकरम् ।
वरगोपवधूजनविरचितपूजनमूरुकूजननववेणुधरं
     स्मरनर्मविचक्षणमखिलविलक्षणतनुलक्षणमतिदक्षतरम् ॥ १॥
प्रणताशनिपञ्जरं नम्बरपिञ्जरमरिकुञ्जरहरिमिन्दुमुखं
     गोमण्डलरक्षिणमनुकृतपक्षिणमतिदक्षिणमैम्तात्मसुखम् ।
गुरुगैरिकमण्डितमनुनयपण्डितमवखण्डितपुरुहूतमखं
     व्रजकमलविरोचनमलिकसुरोचनगोरोचनमतिताम्रनखम् ॥ २॥
उन्मदरतिनायकशाणितशायकविनिधायकचलचिल्लिलतं
     उद्धतसङ्कोचनमम्बुजलोचनमघमोचनममरालिनतम् ।
निखिलाधिकगौरवमुज्ज्वलसौरभमतिगौरभपशुपीषु रतं
     कोमलपदपल्लवमभ्रमु वल्लभरुचिदुर्लभसविलासगतम् ॥ ३॥
भुजमूर्ध्नि विशङ्कटमधिगतशङ्कटनतकङ्कटमटवीषु चलं
     नवनीत्पकरम्बितवनरोलम्बितमवलम्बितकलकण्ठकलम् ।
दुर्जनतृणपावकमनुचरशावकनिकरावकमरुणोष्ठदलं
     निजविक्रमचर्चितभुजगुरुगर्वितगन्धर्वितदनुजार्दिबलम् ॥ ४॥
श्रुतिरत्नविभूषणरुचिजितपूषणमलिदूषणनयनान्तगतिं
     यमुनातटतल्पितपुष्पमनल्पितमदजल्पितदयिताप्तरतिम् ।
वन्देमहि वन्दितमन्दममन्दितकुलमन्धितखलकंसमतिं
     त्वामिह दामोदर हलधरसोदर हर नो दरमनुबद्धरतिम् ॥ ५॥
विरचय मयि दण्डं दीनबन्धो दयां वा
     गतिरिह न भवत्तः काचिदन्या ममास्ति ।
निपततु शतकोटिर्निर्भरं वा नवाम्भ-
     स्तदपि किल पयोदः स्तूयते चातकेन ॥ १॥
प्राचीनानां भजनमतुलं दुष्करं श‍ृण्वतो मे
     नैराश्येन ज्वलति हृदयं भक्तिलेशालसस्य ।
विश्वद्रीचीमघहर तवाकर्ण्य कारुण्यवीचीं
     आशाबिन्दूक्षितमिदमुपैत्यन्तरे हन्त शैत्यम् ॥ २॥

इति श्रीरूपगोस्वामिविरचितस्तवमालायां त्रिभङ्गीपञ्चकं सम्पूर्णम् ।

error: Content is protected !!