अथ षष्ठोऽध्यायः
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
आद॑दे॒ नार्य॑सी॒दम॒ह रक्ष॑सो ग्री॒वा अपि॑कृन्तामि ।
यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीः ।
दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॑ ।
शुन्ध॑न्ताँल्लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑नमसि ॥१॥
अ॒ग्रे॒णीर॑सि स्वावे॒श उ॑न्नेतॄ॒णामे॒तस्य॑ वित्ता॒दधि॑ त्वा स्थास्यति ।
दे॒वस्त्वा॑ सवि॒ता मध्वा॑नक्तु सुपिप्प॒लाभ्य॒स्त्वौष॑धीभ्यः ।
दिव॒मग्रे॑णास्पृक्ष॒ आन्तरि॑क्षं॒ मध्ये॑नाप्राः पृथि॒वीमुप॑रेणादृहीः ॥२॥ २
या ते॒ धामा॑न्यु॒श्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृङ्गा अ॒यासः॑ ।
अत्राहै॒तदु॑रुगा॒यस्य॒ विष्णोः॑ पर॒मं प॒दमव॑भारि॒ भूरि॑ ॥३॥ ३ (२९३)
ब्र॒ह्म॒वनि॑ त्वा क्षत्र॒वनि॑ रायस्पोष॒वनि॒ पर्यू॑हामि ।
ब्रह्म॑ दृह क्ष॒त्रं दृ॒हायु॑र्दृह प्र॒जां दृ॑ह ॥४॥ ४
विष्णोः॒ कर्मा॑णि पश्यत॒ यतो॑ व्र॒तानि॑ पस्प॒शे । इन्द्र॑स्य॒ युज्यः॒ सखा॑ ॥५॥ ५
तद्विष्णोः॑ पर॒मं प॒द सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वी॑व॒ चक्षु॒रात॑तम् ॥६॥६॥
प॒रि॒ वीर॑सि॒ परि॑ त्वा॒ दैवी॒र्विशो॑ व्ययन्ताम् । परी॒मं यज॑मान॒ रायो॑ मनु॒ष्या॑णाम् ।
दि॒वः सू॒नुर॑स्ये॒ष ते॑ पृथि॒व्याँल्लो॒क आ॑र॒ण्यस्ते॑ प॒शुः ॥७॥ (१) ७
उ॒पा॒वीर॒स्युप॑ दे॒वान् दैवी॒र्विशः॒ प्रागु॑रु॒शिजो॒ वह्नि॑तमान् ।
देव॑ त्वष्ट॒र्वसु॑ रम ह॒व्या ते॑ स्वदन्ताम् ॥१॥ ८
रेव॑ती॒ रम॑ध्वं॒ बृह॑स्पते धा॒रया॒ वसू॑नि ।
ऋ॒तस्य॑ त्वा देवहविः॒ पाशे॑न॒ प्रति॑मुञ्चामि॒ धर्षा॒न् मानु॑षः ॥२॥ ९
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
अ॒ग्नीषोमा॑भ्यां॒ जुष्टं॒ नियु॑नज्मि ।
अ॒द्भ्यस्त्वौष॑धीभ्यः॒ प्रोक्षा॒म्यनु॑ त्वां मा॒ता म॑न्यता॒मनु॑ पि॒तानु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू॑थ्यः ।
अ॒ग्नीषोमा॑भ्यां त्वा॒ जुष्टं॒ प्रोक्षा॑मि ॥३॥ १०
अ॒पां पे॒रुर॑स्यापो॑ दे॒वीः स॑दन्तु । स्वा॒त्तं चि॒त्सद्दे॑वह॒विः ॥४॥ ११
सं ते॑ प्रा॒णो वाते॑न गच्छता॒ समङ्गा॑नि॒ यज॑त्रैः। सं यज॑मान आ॒शिषा॑ ॥५॥ १२
घृ॒तेना॒क्तौ प॒शूँस्त्रा॑येथा॒ रेव॑ति॒ यज॑माने । प्रि॒यं धा आवि॑श ॥६॥ १३
उ॒रोर॒न्तरि॑क्षात्स॒जूर्दे॒वेन॒ वाते॑न । अ॒स्य ह॒विष॒स्त्मना॑ यज॒ सम॑स्य त॒न्वा॑ भव ॥७॥ १४
वर्षो॒ वर्षी॑यसि य॒ज्ञे य॒ज्ञप॑तिं धाः । स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्यः॒ स्वाहा॑ । माहि॑र्भू॒र्मा पृदा॑कुः ॥८॥(२) १५
नम॑स्त आतानान॒र्वा प्रेहि॑ । घृ॒तस्य॑ कु॒ल्या उप॑ ऋ॒तस्य॒ पथ्या॒ उप॑॥१॥ १६
देवी॑रापः शु॒द्धा वो॑ढ्व॒ सुप॑रिविष्टा दे॒वेषु॑ । सुप॑रिविष्टा व॒यं प॑रिवे॒ष्टारो॑ भूयास्म ॥२॥ १७
वाचं॑ ते शुन्धामि प्रा॒णं ते॑ शुन्धामि॒ चक्षु॑स्ते शुन्धामि॒ श्रोत्रं॑ ते शुन्धामि ।
नाभिं॑ ते शुन्धामि॒ मेढ्रं॑ ते शुन्धामि पा॒युं ते॑ शुन्धामि च॒रित्रा॑स्ते शुन्धामि ॥३१॥८॥
मन॑स्त॒ आप्या॑यतां॒ वाक्त॒ आप्या॑यतां प्रा॒णस्त॒ आप्या॑यतां॒ चक्षु॑स्त॒ आप्या॑यता॒ श्रोत्रं॑ त॒ आप्या॑यताम् ।
यत्ते॑ क्रू॒रं यदास्थि॑तं॒ तत्त॒ आप्या॑यतां॒ तत्ते॒ निष्ठ्या॑यतां॒ तत्ते॑ शुध्यतु॒ शमहो॑भ्यः ॥४॥ १९(३०९)
ओष॑धे॒ त्राय॑स्व॒ स्वधि॑ते॒ मैन॑ हिसीः । रक्ष॑सां भा॒गो॑ऽसि॒ निर॑स्त॒रक्षः॑ ॥५॥ २०
इ॒दम॒ह रक्षो॒ऽभिति॑ष्ठामी॒दम॒ह रक्षोऽव॑बाधे। इ॒दम॒ह रक्षो॑ऽध॒मं तमो॑ नयामि ॥६॥ २१
घृ॒तेन॑ द्यावापृथिवी॒ प्रोर्ण्वा॑थां॒ वायो॒ वे स्तो॒काना॑म् ।
जु॒षा॒णो अ॒ग्निराज्य॑स्य वेतु॒ स्वाहा॑ । स्वाहा॑कृते ऊ॒र्ध्वन॑भसं मारु॒तं ग॑च्छतम् ॥७॥(३) २२
सं ते॒ मनो॒ मन॑सा॒ सं प्रा॒णः प्रा॒णेन॑ गच्छताम् । रेळ॑स्य॒ग्निष्ट्वा॑ श्रीणा॒त्वाप॑स्त्वा॒ सम॑रिणन्॥१॥ २३
वात॑स्य त्वा॒ ध्राज्यै॑ पू॒ष्णो रह्या॑ ऊ॒ष्मणो॑ व्यथिषत् । प्रयु॑तं॒ द्वेषः॑ ॥२॥ २४
घृ॒तं घृ॑तपावानः पिबत॒ वसां॑ वसापावानः पिबत । अन्तरि॑क्षस्य ह॒विर॑सि॒ स्वाहा॑ ॥३॥ २५
दिशः॑ प्र॒दिश॑ आ॒दिशो॑ वि॒दिश॑ उ॒द्दिशो॑ दि॒ग्भ्यः स्वाहा॑ ।
ऐ॒न्द्रः प्रा॒णो अङ्गे॑अङ्गे॒ निधी॑त ऐ॒न्द्र उ॑दा॒नो अङ्गे॑अङ्गे॒ निदी॑धे ॥४॥ २६
देव॑ त्वष्ट॒र्भूरि॑ ते॒ सस॑मेतु॒ स ल॑क्ष्मा॒ यद्विषु॑रूपं॒ भवा॑ति ।
दे॒व॒त्रा यन्त॒मव॑से॒ सखा॒योऽनु॑ त्वा मा॒ता पि॒तरो॑ मदन्तु ॥५॥ (४) २७
स॒मु॒द्रं ग॑च्छ॒ स्वाहा॑ दे॒व स॑वि॒तारं॑ गच्छ॒ स्वाहा॑ ।
अ॒न्तरि॑क्षं गच्छ॒ स्वाहा॑ मि॒त्रावरु॑णौ गच्छ॒ स्वाहा॑ ।
अ॒हो॒रा॒त्रे ग॑च्छ॒ स्वाहा॒ छन्दा॑सि गच्छ॒ स्वाहा॑ ।
द्यावा॑पृथि॒वी ग॑च्छ॒ स्वाहा॒ सोमं॑ गच्छ॒ स्वाहा॑ ।
य॒ज्ञं ग॑च्छ॒ स्वाहा॒ नभो॑ दि॒व्यं ग॑च्छ॒ स्वाहा॑ ।
अ॒ग्निं वै॑श्वान॒रं ग॑च्छ॒ स्वाहा॒ मनो॑ मे॒ हार्द्य॑च्छ ॥१॥ २८
दिवं॑ ते धू॒मो ग॑च्छ॒त्व॒न्तरि॑क्षं॒ ज्योतिः॑ । पृथि॒वीं भस्म॒नापृ॑ण॒ स्वाहा॑ ॥२॥ २९
मापो मौष॑धीर्हिसी॒र्धाम्नो॑धाम्नो राज॒स्ततो॑ वरुण नो मुञ्च ।
यदा॒हुर॒घ्न्या इति॒ वरु॒णेति॒ शपा॑महे॒ ततो॑ वरुण नो मुञ्च ॥३॥ ३०
सु॒मि॒त्रि॒या न॒ आप॒ ओष॑धयः सन्तु दुर्मित्रि॒यास्तस्मै॑ सन्तु।
यो॒ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः ॥४॥३१॥
इ॒दमा॑पः॒ प्रव॑हत॒ यत्किं च॑ दुरि॒तं मयि॑।
यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा॑ शे॒प उ॒तानृ॑तम्॥५॥(५) ३२
ह॒विष्म॑तीरि॒मा आपो॑ ह॒विष्माँ॒३ आवि॑वासति ।
ह॒विष्मा॑न् दे॒वो अ॑ध्व॒रो ह॒विष्मां॑३ अस्तु॒ सूर्यः॑ ॥१॥ ३३ (३२३)
अ॒ग्नेर्वोऽप॑न्नगृहस्य॒ सद॑सि सादयामि । इ॒न्द्रा॒ग्न्योर्भा॑ग॒धेयी॑ स्थ मि॒त्रावरु॑णयोर्भाग॒धेयी॑ स्थ॒।
विश्वे॑षां दे॒वानां॑ भाग॒धेयी॑ स्थ ॥२॥ ३४
अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्यः॑ स॒ह । ता नो॑ हिन्वन्त्वध्व॒रम् ॥३॥ (६) ३५
हृ॒दे त्वा॒ मन॑से त्वा दि॒वे त्वा॒ सूर्या॑य त्वा । ऊ॒र्ध्वो अ॑ध्व॒रं दि॒वि दे॒वेषु॒ होत्रा॑ यच्छ ॥१॥ ३६
सोम॑ राज॒न्विश्वा॒स्त्वं प्र॒जा उ॒पाव॑रोह । विश्वा॒स्त्वां प्र॒जा उ॒पाव॑रोहन्तु ॥२॥ ३७
शृ॒णोत्व॒ग्निः स॒मिधा॒ ह॒वं॑ मे शृ॒ण्वन्त्वापो॑ धि॒षणा॑श्च दे॒वीः ।
श्रोता॑ ग्रावाणो वि॒दुषो॒ न य॒ज्ञ शृ॒णोतु॑ दे॒वः स॑वि॒ता हवं॑ मे॒ स्वाहा॑ ॥३॥ ३८
देवी॑रापो अपां नपा॒द्यो व॑ ऊ॒र्मिर्ह॑वि॒ष्यः॑ । इ॒न्द्रि॒यावा॑न् म॒दिन्त॑मः ॥४॥ ३९
तं दे॒वेभ्यो॑ देव॒त्रा दा॑त शुक्र॒पेभ्यः॑ । येषां॑ भा॒ग स्थ स्वाहा॑ ॥५॥ ४०
कार्षि॑रसि समु॒द्रस्य॒ त्वा क्षि॑त्या॒ उन्न॑यामि । समापो॑ अ॒द्भिर॑ग्मत॒ समोष॑धीभि॒रोष॑धीः ॥६॥ ४१
यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः। स यन्ता॒ शश्व॑ती॒रिषः॒ स्वाहा॑ ॥७॥ (७) ४२
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
आद॑दे॒ रावा॑सि गभी॒रमि॒मम॑ध्व॒रं कृ॒धीन्द्रा॑य सु॒षूत॑मम् ।
उ॒त्त॒मेन॑ प॒विनोर्ज॑स्वन्तं॒ मधु॑मन्तं॒ पय॑स्वन्तम् ।
नि॒ग्रा॒भ्या॑ स्थ देव॒श्रुत॑स्त॒र्पय॑त मा ॥१॥ ४३
मनो॑ मे तर्पयत॒ वाचं॑ मे तर्पयत प्रा॒णं मे॑ तर्पयत॒ चक्षु॑र्मे तर्पयत॒ श्रोत्रं॑ मे तर्पयत।
आ॒त्मानं॑ मे तर्पयत प्र॒जां मे॑ तर्पयत प॒शून् मे॑ तर्पयत ग॒णान्मे॑ तर्पयत ग॒णा मे॒ मा वितृ॑षन् ॥२॥ ४४
इन्द्रा॑य त्वा॒ वसु॑मते रु॒द्रव॑त॒ इन्द्रा॑य त्वादि॒त्यव॑ते ।
इन्द्रा॑य त्वाभिमाति॒घ्न्ये श्ये॒नाय॑ त्वा सोम॒भृते॑ऽग्नये॑ त्वा रायस्पोष॒दे ॥३॥ ४५
यत्ते॑ सोम दि॒वि ज्योति॒र्यत्पृथि॒व्यां यदु॒रा अ॒न्तरि॑क्षे ।
तेना॒स्मै यज॑मानायो॒रु रा॒ये कृ॒ध्यधि॑ दा॒त्रे वो॑चः ॥४॥ ४६
श्वा॒त्रा स्थ॑ वृत्र॒तुरो॒ राधो॑गूर्त्ता अ॒मृत॑स्य॒ पत्नीः॑ ।
ता दे॑वीर्देव॒त्रेमं य॒ज्ञं न॑य॒तोप॑हूताः॒ सोम॑स्य पिबत ॥५॥ ४७
मा भे॒र्मा संवि॑क्था॒ ऊर्जं॑ धत्स्व॒ धिष॑णे वी॒ड्वी स॒ती वी॑ळयेथा॒मूर्जं॑ दधाथाम् ।
पा॒प्मा ह॒तो न सोमः॑ ॥६॥ ४८
प्रागपा॒गुद॑गध॒राक्स॒र्वत॑स्त्वा॒ दिश॒ आधा॑वन्तु ।
अम्ब॒ निष्प॑र॒ सम॒रीर्वि॑दाम् ॥७॥ ४९ (३३९)
त्वम॒ङ्ग प्रश॑सिषो दे॒वः श॑विष्ठ॒ मर्त्य॑म् ।
न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेन्द्र॒ ब्रवी॑मि ते॒ वचः॑ ॥८॥ (८) ५० (३४०)
॥इति शुक्लयजुः काण्वसंहितायां षष्ठोऽध्यायः॥ ६॥
अथ षष्ठोऽध्यायः ।

अथ सप्तमोऽध्यायः
वा॒चस्पत॑ये पवस्व॒ वृष्णो॑ अ॒शुभ्यां॒ गभ॑स्तिपूतः ।
दे॒वो दे॒वेभ्यः॑ पवस्व॒ येषां॑ भा॒गोऽसि॒ मधु॑मतीर्न॒ इष॑स्कृधि ॥१॥ १
यत्ते॑ सो॒मादा॑भ्यं॒ नाम॒ जागृ॑वि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा॑ ।
स्वाहो॒र्व॒न्तरि॑क्ष॒मन्वे॑मि॒ स्वाङ्कृ॑तोऽसि॒ विश्वे॑भ्य इन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यः॥२॥ २
मन॑स्त्वाष्टु॒ स्वाहा॑ त्वा स्वभवः॒ सूर्या॑य । दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्यो॒ देवा॑शो॒ यस्मै॒ त्वेळे॑ ॥
तत्स॒त्यमु॑परि॒प्लुता॑ भ॒ङ्गेन॑ ह॒तो॒सौ फट् । प्रा॒णाय॑ त्वा व्या॒नाय॑ त्वा ॥३॥ (१) ३
उ॒प॒या॒मगृ॑हीतो॑ऽस्य॒न्तर्य॑च्छ मघवन् पा॒हि सोम॑म् । उ॒रु॒ष्य रायोवेषो॑ यजस्व ॥१॥ ४
अ॒न्तस्ते॒ द्यावा॑पृथि॒वी द॑धाम्य॒न्तर्द॑धाम्यु॒र्व॒न्तरि॑क्षम् ।
स॒जूर्दे॒वेभि॒रव॑रैः॒ परै॑श्चान्तर्या॒मे म॑घवन् मादयस्व ।
स्वाहो॒र्व॒न्तरि॑क्ष॒मन्वे॑मि॒ स्वाङ्कृ॑तोऽसि॒ विश्वे॑भ्य इन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यः ।
मन॑स्त्वाष्टु॒ स्वाहा॑ त्वा स्वभवः॒ सूर्या॑य । दे॒वेभ्य॑स्त्वा मरीचि॒पेभ्य॑ उदा॒नाय॑ त्वा ॥२॥ (२) ५
आ वा॑यो भूष शुचिपा॒ उप॑ नः स॒हस्रं॑ ते नि॒युतो॑ विश्ववार ।
उपो॑ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू॑र्व॒पेयं॑ वा॒यवे॑ त्वा ॥१॥ ६
इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒राग॑तम् । इन्द॑वो वामु॒शन्ति॒ हि ।
उ॒प॒या॒मगृ॑हीतोऽसि वा॒यव॑ इन्द्रवा॒युभ्यां॑ त्वै॒ष ते॒ योनिः॑ स॒जोषो॑भ्यां त्वा ॥२॥ (३) ७
अ॒यं वां॑ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा । ममेदि॒ह श्रु॑त॒ हव॑म् ।
उ॒प॒या॒मगृ॑हीतोऽसि मि॒त्रावरु॑णाभ्यां त्वा ॥१॥ ८
रा॒या व॒य स॑स॒वासो॑ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गावः॑ ।
तां धे॒नुं मि॑त्रावरुणा यु॒वं नो॑ वि॒श्वाहा॑ धत्त॒मन॑पस्फुरन्तीम् । ए॒ष ते॒ योनि॑रृता॒युभ्यां॑ त्वा ॥२॥ (४) ९ (३४९)
या वां॒ कशा॒ मधु॑म॒त्याश्वि॑ना सू॒नृता॑वती ।
तया॑ य॒ज्ञं मि॑मिक्षतम् ।
उ॒प॒या॒मगृ॑हीतोऽस्य॒श्विभ्यां॑ त्वै॒ष ते॒ योनि॒र्माध्वी॑भ्यां त्वा ॥१॥ (५) १०
तं प्र॒त्नथा॑ पू॒र्वथा॑ वि॒श्वथे॒मथा॑ ज्ये॒ष्ठता॑तिं बर्हि॒षद॑ स्व॒र्विद॑म् ।
प्र॒ती॒ची॒नं वृ॒जनं॑ दोहसे॒ धुनि॑मा॒शुं जय॑न्त॒मनु॒ यासु॒ वर्ध॑से । उ॒प॒या॒मगृ॑हीतोऽसि॒ शण्डा॑य त्वा ॥१॥ ११
ए॒ष ते॒ योनि॑र्वी॒रतां॑ पा॒ह्यप॑मृष्टः॒ शण्डो॑ दे॒वास्त्वा॑ शुक्र॒पाः प्रण॑य॒न्त्वना॑धृष्टासि ।
सु॒वीरो॑ वी॒रान् प्र॑ज॒नय॒न् परी॑ह्य॒भि रा॒यस्पोषे॑ण॒ यज॑मानम् ।
सं॒ ज॒ग्मा॒नो दि॒वा पृ॑थि॒व्या शु॒क्रः शु॒क्रशो॑चिषा॒ निर॑स्तः॒ शण्डः॑ शु॒क्रस्या॑धि॒ष्ठान॑मसि ॥२॥ १२
अच्छि॑न्नस्य ते देव सोम सु॒वीर्य॑स्य रा॒यस्पोष॑स्य ददि॒तारः॑ स्याम ।
सा प्र॑थ॒मा सस्कृ॑तिर्वि॒श्ववा॑रा॒ स प्र॑थ॒मो वरु॑णो मि॒त्रो अ॒ग्निः ॥३॥ १३
स प्र॑थ॒मो बृह॒स्पति॑श्चिकि॒त्वास्तस्मा॒ इन्द्रा॑य सु॒तमा जु॑होत॒ स्वाहा॑ ।
तृ॒म्पन्तु॒ होत्रा॒ मधो॒र्यत्स्वि॑ष्टँ॒ यत्सुभृ॑तं॒ यत्स्वाहा॑ ॥४॥ (६) १४
अ॒यं वे॒नश्चो॑दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ ।
इ॒मम॒पा सं॑ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहन्ति ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ मर्का॑य त्वा ॥१॥ १५
मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विपः॒ शच्या॑ वनु॒थो द्रव॑न्ता ।
आ यः शर्या॑भिस्तुविनृ॒म्णो अ॒स्या श्री॑णीता॒दिशं॒ गभ॑स्तौ ॥२॥ १६
ए॒ष ते॒ योनिः॑ प्र॒जाः पा॒ह्यप॑मृष्टो॒ मर्को॑ दे॒वास्त्वा॑ मन्थि॒पाः प्रण॑य॒न्त्वना॑धृष्टासि ।
सु॒प्र॒जाः प्र॒जाः प्र॑ज॒नय॒न् परी॑ह्य॒भि रा॒यस्पोषे॑ण॒ यज॑मानम् ।
सं॒ज॒ग्मा॒नो दि॒वा पृ॑थि॒व्या म॒न्थी म॒थिशो॑चिषा॒ निर॑स्तो॒ मर्को॑ म॒न्थिनो॑ऽधि॒ष्ठान॑मसि ॥३॥ १७
अच्छि॑न्नस्य ते देव सोम सु॒वीर्य॑स्य ददि॒तारः॑ स्याम।
सा प्र॑थ॒मा सस्कृ॑तिर्वि॒श्ववा॑रा॒ स प्र॑थ॒मो वरु॑णो मि॒त्रो अ॒ग्निः॥४॥ १८
स प्र॑थ॒मो बृह॒स्पति॑श्चिकिस्तस्मा॒ इन्द्रा॑य सु॒तमा जु॑होत॒ स्वाहा॑।
तृ॒म्पन्तु॒ होत्रा॒ भधो॒र्यत्स्वि॑ष्टं॒ यत्सुभृ॑तं॒ यत्स्वाहा॑ ॥५॥ (७) १९
ये दे॑वासो दि॒व्येका॑दश॒ स्थ पृ॑थि॒व्यामध्येका॑दश॒ स्थ ।
अ॒प्सु॒क्षितो॑ महि॒नैका॑दश॒ स्थ ते दे॑वासो य॒ज्ञमि॒मं जु॑षध्वम् ॥१॥ २०
उ॒प॒या॒मगृ॑हीतोऽस्याग्रय॒णो॑ऽसि॒ स्वा॑ग्रयणः । पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिम् ॥२॥ २१(३६१)
विष्णु॒स्त्वामि॑न्द्रि॒येण॑ पातु॒ विष्णुं॒ त्वं पा॑ह्य॒भि सव॑नानि पाहि ।
सोमः॑ पवते॒ सोमः॑ पवते॒ सोमः पवते ॥३॥ २२
अ॒स्मै ब्रह्म॑णे पवते॒ऽस्मै क्ष॒त्राय॑ पवते॒ऽस्मै सु॑न्व॒ते यज॑मानाय पवते ।
इ॒ष ऊ॒र्जे प॑वते॒ऽद्भ्य ओष॑धीभ्यः पवते॒ द्यावा॑पृथि॒वीभ्यां॑ पवते सुभू॒ताय॑ पवते ब्रह्मवर्च॒साय॑ पवते।
विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥४॥ (८) २३
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत उक्था॒युवं॑ गृह्णामि ।
यत्त॑ इन्द्र बृ॒हद्व॑य॒स्तस्मै॑ त्वा॒ विष्ण॑वे त्वै॒षते॒ योनि॑रु॒क्थेभ्य॑स्त्वा ॥१॥ २४
दे॒वेभ्य॑स्त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑षे मि॒त्रावरु॑णाभ्यां त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑षे ।
इन्द्रा॑य त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑ष इन्द्रा॒ग्निभ्यां॑ त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑षे ।
इन्द्रा॑य त्वा देवायुवं॑ गृह्णामि य॒ज्ञस्यायु॑ष॒ इन्द्रा॒वरु॑णाभ्यां त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑षे ।
इन्द्रा॒बृह॒स्पति॑भ्यां त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑ष॒ इन्द्रा॒विष्णु॑भ्यां त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑षे ॥२॥ (९) २५
मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै॑श्वान॒रमृ॒त आ जा॒तम॒ग्निम् ।
क॒वि स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः ॥१॥ २६
उ॒प॒या॒मगृ॑हीतोऽसि ध्रु॒वो॑ऽसि ध्रु॒वक्षि॑तिर्ध्रु॒वाणां॑ ध्रु॒वत॒मोऽच्यु॑तानामच्युत॒क्षित्त॑मः ।
ए॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा ॥२॥ २७
ध्रु॒वं ध्रु॒वेण॒ मन॑सा वा॒चा सोम॒मव॑नयामि । अथा॑ न॒ इन्द्र॒ इद्विशो॑ सप॒त्नाः सम॑नस॒स्कर॑त् ॥३॥ (१०) २८
यस्ते॑ द्र॒प्स स्कन्द॑ति॒ यस्ते॑ अ॒शुर्ग्राव॑च्युतो धि॒षण॑योरु॒पस्था॑त् ।
अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते॑ जुहोमि॒ मन॑सा॒ वष॑ट्कृत॒ स्वाहा॑ दे॒वाना॑मु॒त्क्रम॑णमसि ॥१॥(११) २९
उ॒प॒या॒मगृ॑हीतोऽसि॒ मध॑वे त्वोपया॒मगृ॑हीतोऽसि॒ माध॑वाय त्वा ।
उ॒प॒या॒मगृ॑हीतोऽसि शु॒क्राय॑ त्वोपया॒मगृ॑हीतोऽसि॒ शुच॑ये त्वा ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ नभ॑से त्वोपया॒मगृ॑हीतोऽसि॒ नभ॒स्या॑य त्वा ।
उ॒प॒या॒मगृ॑हीतोऽसी॒षे त्वो॑पया॒मगृ॑हीतो स्यू॒र्जे त्वा॑ ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ सह॑से त्वोपया॒मगृ॑हीतोऽसि सह॒स्या॑य त्वा ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ तप॑से त्वोपया॒मगृ॑हीतोऽसि तप॒स्या॑य त्वा ।
उ॒प॒या॒मगृ॑हीतोऽस्य हसस्प॒तये॑ त्वा ॥१॥ (१२) ३०
इन्द्रा॑ग्नी॒ आग॑त सु॒तं गी॒र्भिर्नमो॒ वरे॑ण्यम् । अ॒स्य पा॑तं धि॒येषि॒ता ।
उ॒प॒या॒मगृ॑हीतोऽसीन्द्रा॒ग्निभ्यां॑ त्वै॒ष ते॒ योनि॑रिन्द्रा॒ग्निभ्यां॑ त्वा ॥१॥ (१३) ३१
आ घा॒ ये अ॒ग्निमि॑न्ध॒ते स्तृ॒णन्ति॑ ब॒र्हिरा॑नु॒षक् । येषा॒मिन्द्रो॒ युवा॒ सखा॑ ।
उ॒प॒या॒मगृ॑हीतोऽस्यग्नी॒न्द्राभ्यां॑ त्वै॒ष ते॒ योनि॑रग्नी॒न्द्राभ्यां॑ त्वा ॥१॥ (१४) ३२
ओमा॑सश्चर्षणीधृतो॒ विश्वे॑ देवास॒ आ ग॑त । दा॒श्वासो॑ दा॒शुषः॑ सु॒तम् ।
उ॒पया॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥१॥ (१५) ३३
विश्वे॑ देवास॒ आग॑त शृणु॒ता म॑ इ॒म हव॑म् । एदं ब॒र्हिर्निषी॑दत ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥१॥ (१६) ३४
इन्द्र॑ मरुत्व इ॒ह पा॑हि॒ सोमं॒ यथा॑ शार्या॒ते अपि॑बं सु॒तस्य॑ ।
तव॒ प्रणी॑ती॒ तव॑ शूर॒ शर्म॒न्नावि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ॥१॥ (१७) ३५
म॒रुत्व॑न्तं वृष॒भं वा॑वृधा॒नमक॑वारिं दि॒व्य शा॒समिन्द्र॑म् ।
वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्र स॑हो॒दामि॒ह त हु॑वेम ।
उ॒पया॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ॥१॥ (१८) ३६
उ॒प॒या॒मगृ॑हीतोऽसि म॒रुतां ओज॑से त्वा ॥१॥ (१९) ३७
स॒जोषा॑ इन्द्र॒ सग॑णो म॒रुद्भिः॒ सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ।
ज॒हि शत्रू॒ रप॒ मृधो॑ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो॑ नः ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा म॒रुत्व॑त ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा म॒रुत्व॑ते ॥१॥ (२०) ३८
म॒हाँ३ इन्द्रो॑ नृ॒वदा च॑र्षणि॒प्रा उ॒त द्वि॒बर्हा॑ अमि॒नः सहो॑भिः ।
अ॒स्म॒द्र्य॑ग्वावृधे वी॒र्या॑यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् ।
उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ॥१॥ (२१) ३९
म॒हाँ३ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॒ वृष्टि॒माँ३ इ॑व स्तोमै॑र्व॒त्सस्य॑ वावृधे ।
उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा ॥१॥ (२२) ४० (३८०)
॥इति शुक्लयजुः काण्वसंहितायां सप्तमोऽध्यायः॥ (७)
अथाष्टमोऽध्यायः
क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ ।
उपो॒पेन्नु म॑घव॒न्भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यत आदि॒त्येभ्य॑स्त्वा ॥१॥ १
क॒दा च॒न प्रयु॑च्छस्यु॒भे निपा॑सि॒ जन्म॑नी ।
तुरी॑यादित्य॒ सव॑नं त इन्द्रि॒यमात॑स्था अ॒मृतं॑ दि॒व्या॑दि॒त्येभ्य॑स्त्वा ॥२॥ २
य॒ज्ञो दे॒वानां॒ प्रत्ये॑ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृळ॒यन्तः॑ ।
आ वो॒ऽर्वाची॑ सुम॒तिर्व॑वृत्याद॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑दादि॒त्येभ्य॑स्त्वा ।
विव॑स्वाँ३ आदित्यै॒ष ते॑ सोमपी॒थस्तस्मि॑न् मत्स्व ॥३॥ (१)
श्रद॑स्मै नरो॒ वच॑से दधातन॒ यदा॑शी॒र्दा दम्प॑ती वा॒मम॑श्नुतः ।
पुमा॑न् पु॒त्रो जा॑यते वि॒न्दते॒ वस्वधा॑ वि॒श्वाहा॑र॒प ए॑धते गृ॒हे ॥१॥ (२) ४
वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्य॑ सावीः ।
वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे॑र॒या धि॒या वा॑म॒भाजः॑ स्याम ॥१॥(३) ५
उ॒प॒या॒मगृ॑हीतोऽसि सावि॒त्रो॑ऽसि चनो॒धाश्चनो॒ मयि॑ धेहि ।
जिन्व॑ य॒ज्ञं जिन्व॑ य॒ज्ञप॑तिं॒ भगा॑य सवि॒त्रे त्वा॑ ॥१॥(४) ६
उ॒प॒या॒मगृ॑हीतोऽसि सु॒शर्मा॑सि सुप्रतिष्ठा॒नो बृ॒हदु॑क्षाय॒ नमः॑ ।
विश्वे॑भ्यस्त्वा दे॒वेभ्य॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥१॥ (५) ७
उ॒प॒या॒मगृ॑हीतोऽसि॒ बृह॒स्पति॑सुतस्य ते देव सोम।
इन्द॑ इन्द्रि॒याव॑तः॒ पत्नी॑वतो॒ ग्रहाँ॑३ ऋध्यासम् ॥१॥ ८
अ॒हं प॒रस्ता॑द॒हम॒वस्ता॒द्यद॒न्तरि॑क्षं॒ तदु॑ मे पि॒तास॑ ।
अ॒ह सूर्य॑मुभ॒यतो॑ ददर्शा॒हं दे॒वानां॑ पर॒मं गुहा॒ यत् ॥२॥ ९
अग्ने॒ वाक्पत्नि॑ सजूर्दे॒वेन॒ त्वष्ट्रा॑ ।सोमं॑ पिब॒ स्वाहा॑ ॥३॥ १०
प्र॒जाप॑ति॒र्वृषा॑सि रेतो॒धा रेतो॒ मयि॑ धेहि । प्र॒जाप॑तेस्ते॒ वृष्णो॑ रेतो॒धसो॑ रेतो॒धाम॑शीय ॥४॥ (६) ११
उ॒प॒या॒मगृ॑हीतोऽसि॒ हरि॑रसि हारियोज॒नो हरि॑भ्यां त्वा ।
हर्यो॑र्धा॒ना स्थ॑ स॒हसो॑ मा॒ इन्द्रा॑य ॥१॥ १२
यस्ते॑ देव सोमश्व॒सनि॑र्भ॒क्षो यो गो॒सनिः॑ ।
तस्य॑ त इ॒ष्टय॑जुष स्तु॒तस्तो॑मस्य श॒स्तोक्थ॒स्योप॑हूत॒ उप॑हूतस्य भक्षयामि ॥२॥ (७) १३ (३९३)
यु॒क्ष्वा हि के॒शिना॒ हरी॒ वृष॑णा कक्ष्य॒प्रा । अथा॑ न इन्द्र सोमपा गि॒रामुप॑श्रुतिं चर ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोळ॒शिन॑ ।
ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोळ॒शिने॑ ॥१॥ (८) १४
आति॑ष्ठ वृत्रह॒न् रथं॑ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी॑ । अ॒र्वा॒चीन॒ सु ते॒ मनो॒ग्रावा॑ कृणोतु व॒ग्नुना॑ ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोळ॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोळ॒शिने॑ ॥१॥ (९) १५
इन्द्र॒मिद्धरी॑ वह॒तोऽप्र॑तिधृष्टशवसम् । ऋषी॑णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणाम् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा षोळ॒शिन॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा षोळ॒शिने॑ ॥१॥ (१० ) १६
यस्मा॒न्न जा॒तः परो॑ अ॒न्यो अस्ति॒ य आ॑वि॒वेश॒ भुव॑नानि॒ विश्वा॑ ।
प्र॒जाप॑तिः प्र॒जया॑ सररा॒णस्त्रीणि॒ ज्योती॑षि सचते॒ स षो॑ळ॒शी ॥१॥ १७
इन्द्र॑श्च स॒म्राड् वरु॑णश्च॒ राजा॒ तौ ते॑ भ॒क्षं च॑क्रतु॒रग्र॑ ए॒तम् ।
तयो॑र॒हमनु॑ भ॒क्षं भ॑क्षयामि॒ वाग्दे॒वी जु॑षा॒णा सोम॑स्य तृप्यतु स॒ह प्रा॒णेन॒ स्वाहा॑ ॥२॥ (११) १८
अग्न॒ आयू॑षि पवस॒ आसु॒वोर्ज॒मिषं॑ च नः। आ॒रे बा॑धस्व दु॒च्छुना॑म्।
उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा॒ वर्च॑स ए॒ष ते॒ योनि॑र॒ग्नये॑ त्वा॒ वर्च॑से।
अग्ने॑ वर्चस्व॒न्वर्च॑स्वा॒स्त्वं दे॒वेष्वसि॑। वर्च॑स्वान॒हं म॑नु॒ष्ये॑षु भूयासम् ॥१॥ (१२) १९
अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य॑म् । दध॑द्र॒यिं मयि॒ पोष॑म् । उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा॒ वर्च॑स ए॒ष ते॒ योनि॑र॒ग्नये॑ त्वा॒ वर्च॑से ।
अग्ने॑ वर्चस्व॒न्वर्च॑स्वा॒स्त्वं दे॒वेष्वसि॑ । वर्च॑स्वान॒हं म॑नु॒ष्ये॑षु भूयासम् ॥१॥ (१३) २०
उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे॑ अवेपयः । सोम॑मिन्द्र च॒मू सु॒तम् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य॒ त्वौज॑स ए॒ष ते॒ योनि॒रिन्द्रा॑य॒ त्वौज॑से ।
इन्द्रौ॑जस्व॒न्नोज॑स्वा॒स्त्वं दे॒वेष्वसि॑। ओज॑स्वान॒हं म॑नु॒ष्ये॑षु भूयासम् ॥१॥ (१४) २१
अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒३ अनु॑ । भ्राज॑न्तो अ॒ग्नयो॑ यथा ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा भ्रा॒ज ए॒ष ते॒ योनिः॒ सूर्या॑य त्वा भ्रा॒जे ।
सूर्य॑ भ्राजस्व॒न्भ्राज॑स्वा॒स्त्वं दे॒वेष्वसि॑ । भ्राज॑स्वान॒हं म॑नु॒ष्ये॑षु भूयासम् ॥१॥(१५) २२
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य॑म् ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा भ्रा॒ज ए॒ष ते॒ योनिः॒ सूर्या॑य त्वा भ्रा॒जे ।
सूर्य॑ भ्राजस्व॒न्भ्राज॑स्वा॒स्त्वं दे॒वेष्वसि॑ । भ्राज॑स्वान॒हं म॑नु॒ष्ये॑षु भूयासम् ॥१॥(१६) २३ (४०३)
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आ प्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च।
उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा भ्रा॒ज ए॒ष ते॒ योनिः॒ सूर्या॑य त्वा भ्रा॒जे ।
सूर्य॑ भ्राजस्व॒न्भ्राज॑स्वा॒स्त्वं दे॒वेष्वसि॑ । भ्राज॑स्वान॒हं म॑नु॒ष्ये॑षु भूयासम् ॥१॥(१७) २४
वि न॑ इन्द्र॒ मृधो॑ जहि नी॒चा य॑च्छ पृतन्य॒तः ।
यो अ॒स्माँ३ अ॑भि॒दास॒त्यध॑रं गमया॒ तमः॑ ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒मृध॑ ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒मृधे॑ ॥१॥ (१८) २५
वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम ।
स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒श्वक॑र्मण ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒श्वक॑र्मणे ॥१॥ (१९) २६
विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम् ।
मुह्य॑न्त्व॒न्ये अ॒भितः॑ स॒पत्ना॑ इ॒हास्माकं॑ म॒घवा॑ सुरिर॑स्तु ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒श्वक॑र्मण ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒श्वक॑र्मणे ॥१॥ (२०) २७
विश्व॑कर्मन्ह॒विषा॒ वर्ध॑नेन त्रा॒तार॒मिन्द्र॑मकृणोरयु॒ध्यम्।
तस्मै॒ विशः॒ सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो वि॒हव्यो॒ यथास॑त् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा वि॒श्वक॑र्मण ए॒ष ते॒ योनि॒रिन्द्रा॑य त्वा वि॒श्वक॑र्मणे ॥१॥ (२१) २८
उ॒प॒या॒मगृ॑हीतोऽस्य॒ग्नये॑ त्वा गाय॒त्रच्छ॑न्दसं गृह्णा॒मीन्द्रा॑य त्वा त्रि॒ष्टुप्छ॑न्दसं गृह्णामि ।
विश्वे॑भ्यस्त्वा दे॒वेभ्यो॒ जग॑च्छन्दसं गृह्णाम्यनु॒ष्टुप्ते॑ऽभिग॒रः ॥१॥ २९
व्रेशी॑नां त्वा॒ पत्म॒न्नाधू॑नोमि कुकू॒नना॑नां त्वा॒ पत्म॒न्नाधू॑नोमि भ॒न्दना॑नां त्वा॒ पत्म॒न्नाधू॑नोमि॒ मध्व॑न्तमानां त्वा॒ पत्म॒न्नाधू॑नोमि ।
शु॒क्रं त्वा॑ शु॒क्र आधू॑नो॒म्यह्नो॑ रू॒पे सूर्य॑स्य र॒श्मिषु॑ ॥२॥ ३०
क॒कु॒ह रू॒पं वृ॑ष॒भस्य॑ रोचते बृ॒हत्सोमः॒ सोम॑स्य पुरो॒गाः शु॒क्रः शु॒क्रस्य॑ पुरो॒गाः ।
यत्ते॑ सो॒मादा॑भ्यं॒ नाम॒ जागृवि॒ तस्मै॑ त्वा गृह्णामि॒ तस्मै॑ ते सोम॒ सोमा॑य॒ स्वाहा॑ ॥३॥ ३१ (४११)
उ॒शिक् त्वं दे॑व सोमा॒ग्नेः प्रि॒यं पाथोऽपी॑हि व॒शी त्वं दे॑व सो॒मेन्द्र॑स्य प्रि॒यं पाथोऽपी॑हि ।
अ॒स्मत्स॑खा॒ त्वं दे॑व सोम॒ विश्वे॑षां दे॒वानां॑ प्रि॒यं पाथोऽपी॑हि ॥४॥ (२२) ३२ (४१२)
॥इति शुक्लयजुः काण्वसंहितायां अष्टमोऽध्यायः॥(८)
अथ नवमोऽध्यायः
प्रा॒णाय॑ मे वर्चो॒दा वर्च॑से पवस्व व्या॒नाय॑ मे वर्चो॒दा वर्च॑से पवस्व ।
उ॒दा॒नाय॑ मे वर्चो॒दा वर्च॑से पवस्व वा॒चे मे॑ वर्चो॒दा वर्च॑से पवस्व ॥१॥ १
क्रतू॒दक्षा॑भ्यां मे वर्चो॒दा वर्च॑से पवस्व॒ श्रोत्रा॑य मे वर्चो॒दा वर्च॑से पवस्व ।
चक्षु॑र्भ्यां मे वर्चो॒दसौ॒ वर्च॑से पवेथाम् ॥२॥ २
आ॒त्मने॑ मे वर्चो॒दा वर्च॑से पव॒स्वौज॑से मे वर्चो॒दा वर्च॑से पव॒स्वायु॑षे मे वर्चो॒दा वर्च॑से पवस्व ।
विश्वा॑भ्यो मे प्र॒जाभ्यो॑ वर्चो॒दसौ॒ वर्च॑से पवेथाम् ॥३॥ ३
को॑ऽसि कत॒मो॑ऽसि॒ कस्या॑सि॒ को नामा॑सि ।
यस्य॑ ते॒ नामामन्म॑हि॒ यं त्वा॒ सोमे॒नाती॑तृपाम ॥४॥ ४
भूर्भुवः॒ स्वः॑ सुप्र॒जाः प्र॒जया॑ भूयासम् । सु॒वीरो॑ वी॒रैः सु॒पोषः॒ पोषैः॑ ॥५॥ (१) ५
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य॑म् ॥१॥ ६
चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः ।
आ प्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ॥२॥ ७
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्य॒स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ उक्तिं विधेम ॥३॥ ८
अ॒यं नो॑ अ॒ग्निर्वरि॑वस्कृणोत्व॒यं मृधः॑ पु॒र ए॑तु प्रभि॒न्दन् ।
अ॒यं वाजां॑ जयतु॒ वाज॑साता अ॒य शत्रूं॑ जयतु॒ जर्हृ॑षाणः॒ स्वाहा॑ ॥४॥ ९ (४२१)
रू॒पेण॑ वो रू॒पम॒भ्यागां॑ तु॒थो वो॑ वि॒श्ववे॑दा॒ विभ॑जतु । ऋ॒तस्य॑ प॒था प्रेत॑ च॒न्द्रद॑क्षिणाः ॥५॥ १०
वि स्वः॒ पश्य॒व्य॒न्तरि॑क्षं॒ यत॑स्व सद॒स्यैः॑ ।ब्रा॒ह्म॒णम॒द्य वि॑देय पितृ॒मन्तं॑ पैतृम॒त्यमृषि॑मार्षे॒य सु॒धातु॑दक्षिणम् ॥६॥ ११
अ॒स्मद्रा॑ता देव॒त्रा ग॑च्छ प्रदा॒तार॒मावि॑श । अ॒ग्नये॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॑ऽमृत॒त्वम॑श्यात् ॥७॥ १२
आयु॑र्दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे । रु॒द्राय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॑ऽमृत॒त्वम॑श्यात् । प्रा॒णो दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे। बृह॒स्पत॑ये त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॑ऽमृत॒त्वम॑श्यात् । त्वग्दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे ।
य॒माय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॑ऽमृत॒त्वम॑श्यात् । वयो॑ दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे ॥८॥ १३
को॑ऽदा॒त्कस्मा॑ अदा॒त्कामो॑ऽदा॒त्कामा॑यादात् । कामो॑ दा॒ता कामः॑ प्रतिग्रही॒ता कामै॒तत्ते॒ तव॑ काम स॒ता भु॑नजामहै ॥९॥(२) १४
समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभिः॒ स सू॒रिभि॑र्मघव॒न्त्सस्व॒स्त्या ।
सं ब्रह्म॑णा दे॒वकृ॑तं॒ यदस्ति॒ सं दे॒वाना॑ सुम॒तौ य॒ज्ञिया॑नाम् ॥१॥ १५
सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ स शि॒वेन॑ ।
त्वष्टा॑ सु॒दत्रो॒ विद॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो॒ यद्विलि॑ष्टम् ॥२॥ १६
धा॒ता रा॒तिः स॑वि॒तेदं जु॑षन्तां प्र॒जाप॑तिर्निधि॒पा दे॒वो अ॒ग्निः ।
त्वष्टा॒ विष्णुः॑ प्र॒जया॑ सररा॒णो यज॑मानाय॒ द्रवि॑णं दधातु ॥३॥ १७
सु॒गा वो॑ देवाः॒ सद॑ना अकर्म॒ य आ॑ज॒ग्मेद सव॑नं जुषा॒णाः ।
भर॑माणा॒ वह॑माना ह॒वीष्य॒स्मे ध॑त्त वसवो॒ वसू॑नि ॥४॥ १८
याँ३ आव॑ह उश॒तो दे॑व दे॒वास्तान्प्रेर॑य॒ स्वे अ॑ग्ने स॒धस्थे॑ ।
ज॒क्षि॒वासः॑ पपि॒वास॑श्च॒ विश्वेऽसुं॑ घ॒र्म स्व॒राति॑ष्ठ॒तानु॑ ॥५॥ १९
व॒य हि त्वा॑ प्रय॒ति य॒ज्ञे अ॒स्मिन्नग्ने॒ होता॑र॒मवृ॑णीमही॒ह ।
ऋध॑गया॒ ऋध॑गु॒ताश॑मिष्ठाः प्रजा॒नन्य॒ज्ञमुप॑याहि वि॒द्वान् ॥६॥ २०
देवा॑ गातुविदो गा॒तुमि॒त्त्वा गा॒तुमि॑त । मन॑सस्पत इ॒मं दे॑व य॒ज्ञ स्वाहा॒ वाते॑ धाः ॥७॥ २१
यज्ञ॑ य॒ज्ञं ग॑च्छ य॒ज्ञप॑तिं गच्छ॒ स्वां योनिं॑ गच्छ॒ स्वाहा॑ ।
ए॒ष ते॑ य॒ज्ञो य॑ज्ञपते स॒हसू॑क्तवाकः॒ सर्व॑वीर॒स्तं जु॑षस्व॒ स्वाहा॑ ॥८॥ (३) २२ (४३४)
माहि॑र्भू॒र्मा पृदा॑कुः । उ॒रु हि राजा॒ वरु॑णश्च॒कार॒ सूर्या॑य॒ पन्था॒मन्वे॑त॒वा उ॑ ।
अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् । नमो॒ वरु॑णाया॒भिष्ठि॑तो॒ वरु॑णस्य॒ पाशः॑ ॥१॥ २३
अ॒ग्नेरनी॑कम॒प आवि॑वेशा॒पां नपा॑त् प्रति॒रक्ष॑न्नसु॒र्य॑म् । दमे॑दमे स॒मिधं॑ यक्ष्यग्ने॒ प्रति॑ ते जि॒ह्वा घृ॒तमुच्च॑रण्य॒त् स्वाहा॑ ॥२॥ २४
स॒मु॒द्रे ते॒ हृद॑यम॒प्स्व॒न्तः सं त्वा॑ विश॒न्त्वोष॑धीरु॒तापः॑ ।
य॒ज्ञस्य॑ त्वा यज्ञपते सू॒क्तोक्तौ॑ नमोवा॒के वि॑धेम॒ यत् स्वाहा॑ ॥३॥ २५
देवी॑राप ए॒ष वो॒ गर्भ॒स्त सुप्री॑त॒ सुभृ॑तं बिभृत ।
देव॑ सोमै॒ष ते॑ लो॒कः परि॑ च॒ वक्षि॒ शं च॑ वक्षि । अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पुण ।
अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽयासिष॒मव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि । दे॒वाना॑ स॒मिद॑सि ॥४॥ (४) २६
एज॑तु॒ दश॑मास्यो॒ गर्भो॑ ज॒रायु॑णा स॒ह ।
यथा॒यं वा॒युरेज॑ति॒ यथा॑ समु॒द्र एज॑त्ये॒वायं दश॑मास्यो॒ अस्र॑ज्ज॒रायु॑णा स॒ह ॥१॥ २७
यस्या॑स्ते य॒ज्ञियो॒ गर्भो॒ यस्या॒ योनि॑र्हिर॒ण्ययी॑ । अङ्गा॒न्यह्रु॑ता॒ यस्य॒ तं मा॒त्रा सम॑जीगम॒ स्वाहा॑ ॥२॥ २८
पु॒रु॒द॒स्मो विषु॑रूप॒ इन्दु॑र॒न्तर्म॑हि॒मान॑मानञ्ज॒ धीरः॑ ।
एक॑पदीं द्वि॒पदीं॑ त्रि॒पदीं॒ चतु॑ष्पदीम॒ष्टाप॑दीं॒ भुव॒नानु॑ प्रथन्ता॒ स्वाहा॑ ॥३॥ २९
मरु॑तो॒ यस्य॒ हि क्षये॑ पा॒था दि॒वो वि॑महसः । स सु॑गो॒पात॑मो॒ जनः॑ ॥४॥ ३०
म॒ही द्यौः॑ पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् । पि॒पृ॒तां नो॒ भरी॑मभिः ॥५॥ (५) ३१
आजि॑घ्र क॒लशं॑ म॒ह्या त्वा॑ विश॒न्त्विन्द॑वः। पुन॑रू॒र्जा निव॑र्तस्व॒ सा नः॑ स॒हस्रं॑ धुक्ष्वो॒रुधा॑रा॒ पय॑स्वती॒ पुन॒र्मावि॑शताद्र॒यिः ॥१॥ ३२
हव्ये॒ काम्य॒ इळे॒ रन्ते॒ चन्द्रे॒ ज्योतेऽदि॑ते॒ सर॑स्वति॒ महि॒ विश्रु॑ति ।
ए॒ता ते॑ अघ्न्ये॒ नामा॑नि दे॒वेषु॑ मा सु॒कृतं॑ ब्रूतात् ॥२॥ ३३
इ॒ह रति॑रि॒ह र॑मध्वमि॒ह धृति॑रि॒ह स्वधृ॑तिः॒ स्वाहा॑ ।
उ॒प॒सृ॒जं ध॒रुणं॑ मा॒त्रे ध॒रुणो॑ मा॒तरं॒ धय॑न्रा॒यस्पोष॑म॒स्मासु॑ दीधर॒त् स्वाहा॑ ॥३॥ ३४
अग॑न्म॒ ज्योति॑र॒मृता॑ अभूम॒ दिवं॑ पृथि॒व्या अध्यारु॑हाम् । अवि॑दाम दे॒वान्त्स्व॒र्ज्योतिः॑ ॥४॥ ३५ (४४७)
यु॒वं तमि॑न्द्रापर्वता पुरो॒युधा॒ यो नः॑ पृत॒न्यादप॒ तंत॒मिद्ध॑तं॒ वज्रे॑ण॒ तंत॒मिद्ध॑तम् ।
दू॒रे च॒त्ताय॑ छन्त्स॒द्गह॑नं॒ यदिन॑क्षद॒स्माक॒ शत्रू॒न् परि॑ शूर वि॒श्वतो॑ द॒र्मा द॑र्शीष्ट वि॒श्वतः॑ ॥५॥ ३६
भूर्भुवः॒ स्वः॑ सुप्र॒जाः प्र॒जया॑ भूयासम् । सु॒वीरो॑ वी॒रैः सु॒पोषः॒ पोषैः॑ ॥६॥ (६) ३७
प॒र॒मे॒ष्ठ्य॒भिधी॑तः प्र॒जाप॑तिर्वा॒चि व्याहृ॑ताया॒मन्धो॒ अच्छे॑तः सवि॒ता स॒न्याम् । वि॒श्वक॑र्मा दी॒क्षायां॑ पू॒षा सो॑म॒क्रय॑ण्याम् ॥१॥ ३८
इन्द्र॑श्च म॒रुत॑श्च क्र॒यायो॒पोत्थि॑तः । असु॑रः प॒ण्यमा॑नो मि॒त्रः क्री॒तः ॥२॥ ३९
विष्णुः॑ शिपिवि॒ष्ट ऊ॒रा आस॑न् नो॒ विष्णु॑र्न॒रन्धि॑षः प्रो॒ह्यमा॑णः । सोम॒ आग॑तो॒ वरु॑ण आस॒न्द्यामास॑न्नः ॥३॥ ४०
अ॒ग्निराग्नी॑ध्र॒ इन्द्रो॑ हवि॒र्धाने॑ । अथ॑र्वोपावह्रि॒यमा॑णो॒ विश्वे॑ दे॒वा अ॒शुषु॑ न्यु॒प्यमा॑नेषु ॥४॥ ४१
विष्णु॑राप्रीत॒पा आ॑प्या॒य्यमा॑नो य॒मः सू॒यमा॑नो॒ विष्णुः॑ संभ्रि॒यमा॑णः । वा॒युः पू॒यमा॑नः शु॒क्रः पू॒तः ॥५॥ ४२
शु॒क्रः क्षी॑र॒श्रीर्म॒न्थी स॑क्तु॒श्रीः । विश्वे॑ दे॒वाश्च॑म॒सेषू॑न्नी॒तोऽसु॒र्होमा॒योद्य॑तः ॥६॥ ४३
रु॒द्रो हू॒यमा॑नो॒ वातो॒ऽभ्यावृ॑त्तो नृ॒चक्षाः॒ प्रति॑ख्यातो भ॒क्षः पी॒तः पि॒तरो॑ नाराश॒ साः सा॒द्यमा॑नः ।
सिन्धु॑रवभृ॒थायोद्य॑तः समु॒द्रो॑ऽभ्यवह्रि॒यमा॑णः । स॑लि॒लः प्रप्लु॑तः॥७॥ ४४
ययो॒रोज॑सा स्कभि॒ता रजा॑सि वी॒र्ये॑भिर्वी॒रत॑मा॒ शवि॑ष्ठा ।
या पत्ये॑ते॒ अप्र॑तीता॒ सहो॑भि॒र्विष्णू॑ अग॒न्वरु॑णा पू॒र्वहू॑तौ ॥८॥ ४५
दे॒वान् दिव॑मगन्य॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु मनु॒ष्या॑न॒न्तरि॑क्षमगन्य॒ज्ञस्ततो॑ मा॒ द्रवि॑णमष्टु ।
पि॒तॄन् पृ॑थि॒वीम॑गन्य॒ज्ञः ततो॑ मा॒ द्रवि॑णमष्टु॒ यं कं च॑ लो॒कमग॑न्य॒ज्ञस्ततो॑ मे भ॒द्रम॑भूत् ॥९॥(७) ४६ (४५८)
॥इति शुक्लयजुः काण्वसंहितायां नवमोऽध्यायः॥ (९)
अथ दशमोऽध्यायः
देव॑ सवितः॒ प्रसु॑व य॒ज्ञं प्रसु॑वे॒मं भगा॑य ।
दि॒व्यो ग॑न्ध॒र्वः के॑त॒पाः केतं॑ नः पुनातु वा॒चस्पति॑र्नो अ॒द्य वाज॑ स्वदतु ॥१॥ १
ध्रु॒व॒सदं॑ त्वा नृ॒षदं॑ मनः॒सद॑म् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ॥२॥ २(४६०)
अ॒प्सु॒षदं॑ त्वा घृत॒सदं॑ व्योम॒सद॑म् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ।
पृ॒थि॒वी॒सदं॑ त्वाऽन्तरिक्ष॒सदं॑ दिवि॒सदं॑ देव॒सदं॑ नाक॒सद॑म् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ॥३॥
अ॒पा रस॒मुद्व॑यस॒ सूर्ये॒ सन्त॑ स॒माहि॑तम् । अ॒पा रस॑स्य॒ यो रस॒स्तं वो॑ गृह्णाम्युत्त॒मम् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ॥४॥ ४
ग्रहा॑ ऊर्जाहुतयो॒ व्यन्तो॒ विप्रा॑य म॒तिम् । तेषां॒ विशि॑प्रियाणां वो॒ऽहमिष॒मूर्ज॒ सम॑ग्रभम् ।
उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा॒ जुष्टं॑ गृह्णाम्ये॒ष ते॒ योनि॒रिन्द्रा॑य त्वा॒ जुष्ट॑तमम् ॥५॥ ५
सं॒पृच॑ स्थ॒ सं मा॑ भ॒द्रेण॑ पृङ्क्त । वि॒पृच॑ स्थ॒ वि मा॑ पा॒पेन॑ पृङ्क्त ॥६॥(१)६
इन्द्र॑स्य॒ वज्रो॑ऽसि वाज॒सास्त्वया॒ यं वाज॑ सेत् ।
वाज॑स्य॒ नु प्र॑स॒वे मा॒तरं॑ म॒हीमदि॑तिं॒ नाम॒ वच॑सा करामहे ।
यस्या॑मि॒दं विश्वं॒ भुव॑नमावि॒वेश॒ तस्यां॑ नो दे॒वः स॑वि॒ता धर्म॑ साविषक् ॥१॥ ७
देवी॑रापो अपांनपा॒द्यो व॑ ऊ॒र्मिः प्रतू॑र्तिः। क॒कुन्मा॑न् वाज॒सास्तेना॒यं वाज॑सेत् ॥२॥ ८
अ॒प्स्व॒न्तर॒मृत॑म॒प्सु भे॑ष॒जम॒पामु॒त प्रश॑स्तिभिः । अश्वा॒ भव॑त वा॒जिनः॑ ॥३॥ ९
वातो॑ वा वो॒ मनो॑ वा गन्ध॒र्वाः स॒प्तवि॑शतिः । ते अग्रेऽश्व॑मयुञ्ज॒स्ते अ॑स्मिन्ज॒वमाद॑धुः ॥४॥ १०
वात॑रहा भव वाजिन्यु॒ज्यमा॑न॒ इन्द्र॑स्येव॒ दक्षि॑णः श्रि॒यैधि॑ ।
यु॒ञ्जन्तु॑ त्वा म॒रुतो॑ वि॒श्ववेद॑स॒ आ ते॒ त्वष्टा॑ प॒त्सु ज॒वं द॑धातु ॥५॥ ११
ज॒वो यस्ते॑ वाजि॒न्निहि॑तो॒ गुहा॒ यः श्ये॒ने परी॑त्तो॒ अच॑रच्च॒ वाते॑ ।
तेन॑ नो वाजि॒न् बल॑वा॒न् बले॑न वाज॒जिच्चै॒धि सम॑ने च पारयि॒ष्णुः ॥६॥ १२
वाजि॑नो वाजजितो॒ वाज॑ सरि॒ष्यन्तः॑ । बृह॒स्पते॑र्भा॒गमव॑जिघ्रत ॥७॥(२) १३
दे॒वस्य॑ व॒य स॑वि॒तुः स॒वे स॒त्यस॑वसः । बृह॒स्पते॑रुत्त॒मं नाक॑ रुहे॒मेन्द्र॑स्योत्त॒मं नाक॑ रुहेम ।
दे॒वस्य॑ व॒य स॑वि॒तुः स॒वे स॒त्यस॑वसः । बृह॒स्पते॑रुत्त॒मं नाक॑मरुहा॒मेन्द्र॑स्योत्त॒मं नाक॑मरुहाम ॥१॥ १४
बृह॑स्पते॒ वाजं॑ जय॒ बृह॒स्पत॑ये॒ वाचं॑ वदत । बृह॒स्पतिं॒ वाजं॑ जापयत ॥२॥ १५
इन्द्र॒ वाजं॑ ज॒येन्द्रा॑य॒ वाचं॑ वदत । इन्द्रं॒ वाजं॑ जापयत ॥३॥ १६
ए॒षा वः॒ सा स॒त्या सं॒वाग॑भू॒द्यया॒ बृह॒स्पतिं॒ वाज॒मजी॑जपत ।
आजी॑जपत॒ बृह॒स्पतिं॒ वाचं॒ वन॑स्पतयो॒ विमु॑च्यध्वम् ॥४॥ १७
दे॒वस्य॑ व॒य स॑वि॒तुः स॒वे स॒त्यस॑वसः । बृह॒स्पते॑र्वाज॒जितो॒ वाजं॑ जेषम् ॥५॥ १८ (४७६)
वाजि॑नो॒ वाजं॑ जय॒ताध्व॑न स्क॒भ्नन्तः॑ । योज॑ना॒ मिमा॑नाः॒ काष्ठां॑ गच्छत ॥६॥ १९
ए॒ष स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां॑ ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ ।
क्रतुं॑ दधि॒क्रा अनु॑ स॒न्तवी॑त्वत्प॒थामङ्का॒स्यन्वा॒पनी॑फणत् ॥७॥२०॥
उ॒त स्मा॑स्य॒ द्रव॑तस्तुरणय॒तः प॒र्णं न वेरनु॑वाति प्रग॒र्धिनः॑ ।
श्ये॒नस्ये॑व॒ ध्रज॑तो अङ्क॒सं परि॑ दधि॒क्राव्णः॑ स॒होर्जा तरि॑त्रतः ॥८॥२१॥
शं नो॑ भवन्तु वा॒जिनो॒ हवे॑षु दे॒वता॑ता मि॒तद्र॑वः स्व॒र्काः ।
ज॒म्भय॒न्तोऽहिं॒ वृक॒ रक्षा॑सि॒ सने॑म्य॒स्मद्यु॑यव॒न्नमी॑वाः ॥९॥ २२
ते नो॒ अर्व॑न्तो हवन॒श्रुतो॒ हवं॒ विश्वे॑ शृण्वन्तु वा॒जिनो॑ मि॒तद्र॑वः ।
स॒ह॒स्र॒सा मे॒धसा॑ता इव॒ त्मना॑ म॒हो ये धन॑ समि॒थेषु॑ जभ्रि॒रे ॥१०॥॥ २३
वाजे॑वाजेऽवत वाजिनो नो॒ धने॑षु विप्रा अमृता ऋतज्ञाः ।
अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या॑त प॒थिभि॑र्देव॒यानैः॑ ॥११॥॥ २४
आ मा॒ वाज॑स्य प्रस॒वो ज॑गम्या॒देमे द्यावा॑पृथि॒वी वि॒श्वरू॑पे ।
आ मा॑ गंतं पितरा मातरा यु॒वमा मा॒ सोमो॑ अमृत॒त्वाय॑ गम्यात् ॥१२॥ २५
वाजि॑नो वाजजितो॒ वाज॑ ससृ॒वासः॑। बृह॒स्पते॑र्भा॒गमव॑जिघ्रत निमृजा॒नाः ॥१३॥(३) २६
आ॒पये॒ स्वाहा॑ स्वा॒पये॒ स्वाहा॑ऽपि॒जाय॒ स्वाहा॒ क्रत॑वे॒ स्वाहा॑ । वस॑वे॒ स्वाहा॑ह॒र्पत॑ये॒ स्वाहा॑ ।
अह्ने॑ मु॒ग्धाय॒ स्वाहा॑ मु॒ग्धाय॑ वैनशि॒नाय॒ स्वाहा॑ विन॒शिन॑ आन्त्याय॒नाय॒ स्वाहान्त्या॑य
भौव॒नाय॒ स्वाहा॒ भुव॑नस्य॒ पत॑ये॒ स्वाहाधि॑पतये॒ स्वाहा॑ ॥१॥ २७
आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पता॒ श्रोत्रं॑ य॒ज्ञेन॑ कल्पताम् ।
पृ॒ष्ठं य॒ज्ञेन॑ कल्पतां य॒ज्ञो य॒ज्ञेन॑ कल्पताम् ॥२॥ २८
जाय॒ एहि॒ स्वो॒ रोहा॑व । प्र॒जाप॑तेः प्र॒जा अ॑भूम॒ स्व॑र्देवा अगन्मा॒मृता॑ अभूम ॥३॥ २९
अ॒स्मे वो॑ अस्त्विन्द्रि॒यम॒स्मे नृ॒म्णमु॒त क्रतुः॑ । अ॒स्मे वर्चा॑सि सन्तु वः ॥४॥ ३०
नमो॑ मा॒त्रे पृ॑थि॒व्या इ॒यं ते॒ राड्य॒न्तासि॒ यम॑नः ।
ध्रु॒वो॑ऽसि ध॒रुणः॑ कृ॒ष्यै क्षेमा॑य र॒य्यै पोषा॑य ॥५॥ (४) ३१
वाज॑स्ये॒मं प्र॑स॒वः सु॑षु॒वेऽग्रे॒ सोम॒ राजा॑न॒मोष॑धीष्व॒प्सु ।
ता अ॒स्मभ्यं॒ मधु॑मतीर्भवन्तु व॒य रा॒ष्ट्रे जा॑गृयाम पु॒रोहि॑ताः ॥१॥ ३२
वाज॑स्ये॒दं प्र॑स॒व आब॑भूवे॒मा च॒ विश्वा॒ भुव॑नानि स॒र्वतः॑ ।
सने॑मि॒ राजा॒ परि॑याति वि॒द्वान् र॒यिं पुष्टिं॑ व॒र्धय॑मानो अ॒स्मे ॥२॥ ३३ (४९१)
वाज॑स्ये॒मां प्र॑स॒वः शि॑श्रिये॒ दिव॑मि॒मा च॒ विश्वा॒ भुव॑नानि स॒म्राट् ।
आदि॑त्सन्तं दापयति प्रजा॒न्त्स नो॑ र॒यि सर्व॑वीरं॒ निय॑च्छतु॒ ॥३॥ ३४
अग्ने॒ अच्छा॑वदे॒ह नः॒ प्रति॑ नः सु॒मना॑ भव । प्र नो॑ यच्छ सहस्रजि॒त्त्वहि ध॑न॒दा असि॑ ॥४॥३॥५॥
सोम॒ राजा॑न॒मव॑से॒ऽग्निम॒न्वार॑भामहे । आ॒दि॒त्यान् विष्णु॒ सूर्यं॑ ब्र॒ह्माणं॑ च॒ बृह॒स्पति॑म् ॥५॥ ३६
प्र नो॑ यच्छत्वर्य॒मा प्र पू॒षा प्र सर॑स्वती । प्र वाग्दे॒वी द॑दातु नः॥६॥ ३७
अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना॑य चोदय । वाचं॒ विष्णु॒ सर॑स्वती सवि॒तारं॑ च वा॒जिन॑म् ॥७॥ ३८
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
सर॑स्वत्यै वा॒चो यन्तुर्ये॒ दधामि । बृह॒स्पते॑ष्ट्वा॒ साम्रा॑ज्येना॒भिषि॑ञ्चा॒मीन्द्र॑स्य त्वा साम्रा॑ज्येना॒भिषि॑ञ्चामि ॥८॥ (५) ३९
अ॒ग्निरेका॑क्षरेण प्रा॒णमुद॑जय॒त् तमुज्जे॑षम॒श्विनौ॒ द्व्य॑क्षरेण द्वि॒पदो॑ मनु॒ष्या॒नुद॑जयतां॒ तानुज्जे॑षम् ।
विष्णु॒स्त्र्य॑क्षरेण॒ त्रीनि॒माँल्लो॒कानुद॑जय॒त्तानुज्जे॑ष॒ सोम॒श्चतु॑रक्षरेण॒ चतु॑ष्पदः प॒शूनुद॑जय॒त्तानुज्जे॑षम् ॥१॥ ४०
पू॒षा पञ्चा॑क्षरेण॒ पञ्च॑ ऋ॒तूनुद॑जय॒त्तानुज्जे॑ष सवि॒ता षळ॑क्षरेण॒ षळृ॒तूनुद॑जय॒त्तानुज्जे॑षम् ॥
म॒रुतः॑ स॒प्ताक्ष॑रेण स॒प्त ग्रा॒म्यान् पशू॒नुद॑जय॒स्तानुज्जे॑षं॒ बृह॒स्पति॑र॒ष्टाक्ष॑रेण गाय॒त्रीमुद॑जय॒त्तामुज्जे॑षम् ॥२॥ ४१
मि॒त्रो नवा॑क्षरेण त्रि॒वृत॒ स्तोम॒मुद॑जय॒त् तमुज्जे॑षं वरु॑णो॒ दशा॑क्षरेण वि॒राज॒मुद॑जय॒त्तामुज्जे॑षम् ।
इन्द्र॒ एकाद॑शाक्षरेण त्रि॒ष्टुभ॒मुद॑जय॒त्तामुज्जे॑षं॒ विश्वे॑ दे॒वा द्वाद॑शाक्षरेण॒ जग॑ती॒मुद॑जय॒स्तामुज्जे॑षम् ॥३॥ ४२
वस॑व॒स्त्रयो॑दशाक्षरेण त्रयोद॒श स्तोम॒मुद॑जय॒स्तमुज्जे॑ष रु॒द्राश्चतु॑र्दशाक्षरेण चतुर्द॒श स्तोम॒मुद॑जय॒स्तमुज्जे॑षम् ।
आ॒दि॒त्याः पञ्च॑दशाक्षरेण पञ्चद॒श स्तोम॒मुद॑जय॒स्तमुज्जे॑ष॒मदि॑तिः॒ षोळ॑शाक्षरेण षोळ॒श स्तोम॒मुद॑जय॒त्तमुज्जे॑षम् ।
प्र॒जाप॑तिः स॒प्तद॑शाक्षरेण स॒प्तद॒श स्तोम॒मुद॑जय॒त्तमुज्जे॑षम् ॥४॥ (६) ४३ (५०१)
॥इति शुक्लयजुः काण्वसंहितायां दशमोऽध्यायः॥ (१०