ॐ कृपारूपिणिकल्याणि रामप्रिये श्री जानकी ।
कारुण्यपूर्णनयने दयादृष्ट्यावलोकये ॥
व्रतं –
पापानां वा शुभानां वा वधार्हार्णां प्लवङ्गम ।
कार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति ॥
अथ शरणागति पञ्चकम् ।
ॐ सर्वजीव शरण्ये श्रीसीते वात्सल्य सागरे ।
मातृमैथिलि सौलभ्ये रक्ष मां शरणागतम् ॥ १॥
कोटि कन्दर्प लावण्यां सौन्दर्य्यैक स्वरूपताम् ।
सर्वमङ्गल माङ्गल्यां भूमिजां शरणं व्रजे ॥ २॥
ॐ शरणागतदीनार्त परित्राणपरायणम् ।
सर्वस्यार्ति हरेणैक धृतव्रतां शरणं व्रजे ॥ ३॥
ॐ सीतां विदेहतनयां रामस्य दयितां शुभाम् ।
हनुमता समाश्वस्तां भूमिजां शरणं व्रजे ॥ ४॥
ॐ अस्मिन् कलिमला कीर्णे कालेघोरभवार्णवे ।
प्रपन्नानां गतिर्नास्ति श्रीमद्रामप्रियां विना ॥ ५॥
॥ इति जानकीचरमशरणागतमन्त्रः ॥

error: Content is protected !!