प्रातर्नमामि जगतां जनन्याश्चरणाम्बुजम् ।
श्रीमत्त्रिपुरसुन्दर्या नमिता या हरादिभिः ॥ १॥ var प्रणताया
प्रातस्त्रिपुरसुन्दर्या नमामि पदपङ्कजम् ।
हरिर्हरो विरिञ्चिश्च सृष्ट्यादीन् कुरुते यथा ॥ २॥
प्रातस्त्रिपुरसुन्दर्या नमामि चरणाम्बुजम् ।
यत्पादमम्बु शिरसि भाति गङ्गा महेशितुः ॥ ३॥
प्रातः पाशाङ्कुशशराञ्चापहस्तां नमाम्यहम् ।
उदयादित्यसङ्काशां श्रीमत्त्रिपुरसुन्दरीम् ॥ ४॥
प्रातर्नमामि पादाब्जं ययेदं धार्यते जगत् । var भासते जगत्
तस्यास्त्रिपुरसुन्दर्या यत्प्रसादान्निवर्तते ॥ ५॥
यः श्लोकपञ्चकमिदं प्रातर्नित्यं पठेन्नरः ।
तस्मै ददात्यात्मपदं श्रीमत्त्रिपुरसुन्दरी ॥ ६॥
इति श्रीत्रिपुरसुन्दरीप्रातःश्लोकपञ्चकं सम्पूर्णम् ।

error: Content is protected !!