ॐ श्री गुरुभ्यो नमः । हरिः ॐ ।
कोटिसूर्यसमानाभां काञ्चीनगरचन्द्रिकाम् ।
भजामि सततं भक्त्या परमाचार्य पादुकाम् ॥ १॥
सकृत्स्मरणमात्रेण सर्वैश्वर्यप्रदायिनीम् ।
भजामि सततं भक्त्या परमाचार्य पादुकाम् ॥ २॥
संसारतापहरणीं जन्मदुःखविनाशिनीम् ।
भजामि सततं भक्त्या परमाचार्य पादुकाम् ॥ ३॥
वैराग्यशान्तिनिलयां विद्याविनयवर्धनीम् ।
भजामि सततं भक्त्या परमाचार्य पादुकाम् ॥ ४॥
काञ्चीपुरमहाक्षेत्रे कारुण्यामृतसागरीम् ।
भजामि सततं भक्त्या परमाचार्य पादुकाम् ॥ ५॥
पादुकापञ्चकस्तोत्रं यः पठेत् भक्तिमान् नरः ।
सर्वान्कामानवाप्नोति मुच्यते सर्वकिल्बिषात् ॥ ६॥
इति श्री महापेरियवा काञ्चीपरमाचार्य श्रीचन्द्रशेखरेन्द्रसरस्वती
पादुकापञ्चकं सम्पूर्णम् ।

error: Content is protected !!