ज्ञानसंजीवनी

इंद्र उवाच –

नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते ।
शंखचक्र गदाहस्ते महालक्ष्मि नमोऽस्तु ते ॥ 1 ॥

नमस्ते गरुडारूढे कोलासुर भयंकरि ।
सर्वपापहरे देवि महालक्ष्मि नमोऽस्तु ते ॥ 2 ॥

सर्वज्ञे सर्ववरदे सर्व दुष्ट भयंकरि ।
सर्वदुःख हरे देवि महालक्ष्मि नमोऽस्तु ते ॥ 3 ॥

सिद्धि बुद्धि प्रदे देवि भुक्ति मुक्ति प्रदायिनि ।
मंत्रपूते सदा देवि महालक्ष्मि नमोऽस्तु ते ॥ 4 ॥

आद्यंत रहिते देवि आदिशक्ति महेश्वरि ।
योगज्ञे योग संभूते महालक्ष्मि नमोऽस्तु ते ॥ 5 ॥

स्थूल सूक्ष्म महारौद्रे महाशक्ति महोदरे ।
महा पाप हरे देवि महालक्ष्मि नमोऽस्तु ते ॥ 6 ॥

पद्मासन स्थिते देवि परब्रह्म स्वरूपिणि ।
परमेशि जगन्मातर्महालक्ष्मि नमोऽस्तु ते ॥ 7 ॥

श्वेतांबरधरे देवि नानालंकार भूषिते ।
जगस्थिते जगन्मातर्महालक्ष्मि नमोऽस्तु ते ॥ 8 ॥

महालक्ष्मष्टकं स्तोत्रं यः पठेद् भक्तिमान् नरः ।
सर्व सिद्धि मवाप्नोति राज्यं प्राप्नोति सर्वदा ॥

एककाले पठेन्नित्यं महापाप विनाशनं ।
द्विकालं यः पठेन्नित्यं धन धान्य समन्वितः ॥

त्रिकालं यः पठेन्नित्यं महाशत्रु विनाशनं ।
महालक्ष्मी र्भवेन्-नित्यं प्रसन्ना वरदा शुभा ॥

[इंत्यकृत श्री महालक्ष्म्यष्टक स्तोत्रं संपूर्णम्]

error: Content is protected !!