योऽत्रावतीर्य शकलीकृतदैत्यकीर्त-
इर्योऽयं च भूसुरवरार्चित-रम्यमूर्तिः ।
तद्दर्शनोत्सुकधियां कृततृप्तिपूर्तिः
सीतापतिर्जयति भूपतिचक्रवर्ती ॥ १॥
ब्राह्मी मृतेत्यविदुषामपलापमेतत्
सोढुं न चाऽर्हति मनो मम निःसहायम् ।
वाच्छाम्यनुप्लवमतो भवतः सकाशा-
च्छ्रुत्वा तवैव करुणार्णवनामराम ॥ २॥
देशद्विषोऽभिभवितुं किल राष्ट्रभाषा
श्रीभारतेऽमरगिरं विहितुं खरारे ।
याचामहेऽनवरतं दृढसङ्घशक्तिं
नूनं त्वया रघुवरेण समर्पणीया ॥ ३॥
त्वद्भक्तिभावितहृदां दुरितं द्रुतं वै
दुःखं च भो यदि विनाशयसीह लोके ।
गोभूसुरामरगिरां दयितोऽसि चेत्वं
नून तदा तु विपदं हर चिन्तितोऽद्य ॥ ४॥
बाल्येऽपि पितृवचसा निकषा मुनीशान्
गत्वा रणेऽप्यवधि येन च ताटिकाऽऽख्या ।
निर्भर्त्सिताश्च जगतीतलदुष्टसङ्घाः
श्रीर्वेदवाक्प्रियतमोऽवतु वेदवाचम् ॥ ५॥
इति कामनापञ्चकं सम्पूर्णम् ।