स्नानाधिक्यान्मनुसुततनौ जायते हि ज्वरादि-
र्दारोर्देहे प्रभवति कथं सोपि चित्रेषु चित्रम् ।
वार्ता सत्यं त्रिभुवनपतिः श्रीजगन्नाथदेवः
स्नानाद् रुग्णो विषमविषयस्तल्पशायी गृहान्तः ॥ १॥
रोगाक्रान्ताद् विकलहृदयो रत्नवेदीं न याति
पीडाग्रस्तो भजति च गदं दर्शनं नो ददाति ।
वैद्यादेशाज्ज्वरसुशमनं हौषधीयं प्रलेपं
देहे दत्त्वा विरसवदनाः सेवकास्तं यतन्ते ॥ २॥
हाहाकारः सकलजगति व्याधिनाशः कदा स्याद्
भक्ता दुःखात् सजलनयना द्वारदेशं नमन्ति ।
भावग्राही मनुजमनसो भावनां सोप्यजानात्
दूतैर्भक्तान् वदति परमो यात चालारनाथम् ॥ ३॥
रोगे नष्टे कतिपयदिने दिव्यनेत्रोत्सवो मे
यूयं सर्वे प्रमुदितमुखाः दर्शनं प्राप्स्यथैव ।
तस्मिन् काले मम च नगरे स्यन्दनीयां सुयात्रां
दृष्ट्वा हृष्टाः सुफलनिकरं नेष्यथ स्वेच्छया वै ॥ ४॥
तापायाधिकवारिणा सुरभिणा स्नात्वा मुदा श्रीहरि-
र्हैमाद् रोगगतो महौषधिचयं तच्छान्तये सेवते ।
हे भक्ता! यदि दारुदेह उदकात् प्राप्नोति कष्टं महत्
तापात्तापितमानवा बहुजलस्नानेन रुग्णा न किम् ॥ ५॥
इति श्रीव्रजकिशोरत्रिपाठीविरचितं
श्रीजगन्नाथस्य ज्वरपञ्चकं सम्पूर्णम् ।