रक्ताम्भोरुहदर्पभञ्जनमहासौन्दर्यनेत्रद्वयं
मुक्ताहारविलम्बिहेममुकुटं रत्नोज्ज्वलत्कुण्डलम् ।
वर्षामेघसमाननीलवपुषं ग्रैवेयहारान्वितं
पार्श्वे चक्रधरं प्रसन्नवदनं नीलाद्रिनाथं भजे ॥ १॥
फुल्लेन्दीवरलोचनं नवघनश्यामाभिरामाकृतिं
विश्वेशं कमलाविलासविलसत्पादारविन्दद्वयम् ।
दैत्यारिं सकलेन्दुमंडितमुखं चक्राब्जहस्तद्वयं
वन्दे श्रीपुरुषोत्तमं प्रतिदिनं लक्ष्मीनिवासालयम् ॥ २॥
उद्यन्नीरदनीलसुन्दरतनुं पूर्णेन्दुबिम्बाननं
राजीवोत्पलपत्रनेत्रयुगलं कारुण्यवारांनिधिम् ।
भक्तानां सकलार्तिनाशनकरं चिन्तार्थिचिन्तामणिं
वन्दे श्रीपुरुषोत्तमं प्रतिदिनं नीलाद्रिचूडामणिम् ॥ ३॥
नीलाद्रौ शंखमध्ये शतदलकमले रत्नसिंहासनस्थं
सर्वालंकारयुक्तं नवघन रुचिरं संयुतं चाग्रजेन ।
भद्राया वामभागे रथचरणयुतं ब्रह्मरुद्रेन्द्रवंद्यं
वेदानां सारमीशं सुजनपरिवृतं ब्रह्मदारुं स्मरामि ॥ ४॥
दोर्भ्यां शोभितलांगलं समुसलं कादम्बरीचञ्चलं
रत्नाढ्यं वरकुण्डलं भुजबलैराकांतभूमण्डलम् ।
वज्राभामलचारुगण्डयुगलं नागेन्द्रचूडोज्ज्वलं
संग्रामे चपलं शशांकधवलं श्रीकामपालं भजे ॥ ५॥
इति श्रीजगन्नाथपञ्चकं समाप्तम् ॥

error: Content is protected !!