आचार्यचरणानां विरुदावलिः

॥ श्रीसीतारामपदपद्ममकरन्दमधुव्रतश्रीसम्प्रदायप्रवर्तकसकलशास्त्रार्थमहार्णवमन्दरमतिश्रीमदाद्य– जगद्गुरुरामानन्दाचार्यचरणारविन्दचञ्चरीकाः समस्तवैष्णवालङ्कारभूताः आर्षवाङ्मयनिगमागमपुराणेतिहाससन्निहितगम्भीरतत्त्वान्वेषणतत्पराः पदवाक्यप्रमाणपारावारीणाः साङ्ख्ययोगन्यायवैशेषिकपूर्वमीमांसावेदान्तनारदशाण्डिल्यभक्तिसूत्रगीतावाल्मीकीयरामायणभागवतादि– सिद्धान्तबोधपुरःसरसमधिकृताशेषतुलसीदाससाहित्यसौहित्यस्वाध्यायप्रवचनव्याख्यानपरमप्रवीणाः सनातनधर्मसंरक्षणधुरीणाः चतुराश्रमचातुर्वर्ण्यमर्यादासंरक्षणविचक्षणाः अनाद्यविच्छिन्नसद्गुरुपरम्पराप्राप्तश्रीमत्सीतारामभक्तिभागीरथीविगाहनविमलीकृतमानसाः श्रीमद्रामचरित्रमानसराजमरालाः सततं शिशुराघवलालनतत्पराः समस्तप्राच्यप्रतीच्यविद्याविनोदितविपश्चितः राष्ट्रभाषागीर्वाणगिरामहाकवयः विद्वन्मूर्धन्याः श्रीमद्रामप्रेमसाधनाधनधन्याः श्रोत्रियब्रह्मनिष्ठाः प्रस्थानत्रयीभाष्यकाराः महामहोपाध्यायाः वाचस्पतयः जगद्गुरुरामभद्राचार्यविकलाङ्गविश्वविद्यालयस्य जीवनपर्यन्तकुलाधिपतयः श्रीचित्रकूटस्थमन्दाकिनीविमलपुलिननिवासिनः श्रीतुलसीपीठाधीश्वराः धर्मचक्रवर्तिनः श्रीमज्जगद्गुरुरामानन्दाचार्याः अनन्तश्रीसमलङ्कृतस्वामिरामभद्राचार्यमहाराजाः विजयन्तेतराम् ॥

जन्म : १४ जनवरी १९५०
जन्म स्थान : जौनपुर, उत्तरप्रदेश, भारतवर्ष
पुस्तकें:अष्टावक्र, प्रस्थानत्रयी पर राघवकृपाभाष्य, भृंगदूतम्, गीतरामायणम्, श्रीभार्गवराघवीयम्, श्रीसीतारामसुप्रभातम्, श्रीसीतारामकेलिकौमुदी एवं अन्य
कथन:मानवता ही मेरा मन्दिर मैं हूँ इसका एक पुजारी ॥
हैं विकलांग महेश्वर मेरे मैं हूँ इनका कृपाभिखारी ॥
उपाधियाँ :धर्मचक्रवर्ती, महामहोपाध्याय, श्रीचित्रकूटतुलसीपीठाधीश्वर, जगद्गुरु रामानन्दाचार्य, महाकवि, प्रस्थानत्रयीभाष्यकार एवं अन्य
error: Content is protected !!