जगज्जनि-स्तेम-लयालयाभ्यां अगण्य-पुण्योदय-भाविताभ्याम्।
त्रयीशिरोजात-निवेदिताभ्यां नमो नमः श्रीगुरुपादुकाभ्यम्॥१॥
विपत्तमस्तोम-विकर्तनाभ्यां विशिष्ट-संपत्ति-विवर्धनाभ्याम्।
नमज्जनाशेष-विशेषदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥२॥
समस्त-दुस्तर्क-कलङ्क-पङ्कापनोदन-प्रौढ-जलाशयाभ्याम्।
निराश्रयाभ्यां निखिलाश्रयाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥३॥
तापत्रयादित्य-करार्दितानां छायामयीभ्यां अतिशीतलाभ्याम्।
आपन्न-संरक्षण-दीक्षिताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥४॥
यतो गिरोऽप्राप्य धिया समस्ता ह्रिया निवृत्ताः सममेव नित्याः।
ताभ्यामजेशाच्युत-भाविताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥५॥
ये पादुका-पञ्चकमादरेण पठन्ति नित्यं प्रयताः प्रभाते।
तेषां गृहे नित्य-निवासशीला श्रीदेशिकेन्द्रस्य कटाक्षलक्ष्मीः॥६॥

error: Content is protected !!