सुब्रह्मण्यक्षेत्रं नव्यं नानोपदेवसञ्जुष्ठम् ।
बहुतलसौधस्योपरि कल्पितमाभाति शिल्पसर्वस्वम् ॥ १॥
अष्टोत्तरशतसङ्ख्यैः सोपानेन यत्र सन्निधेम्र्मार्गः ।
पार्श्वद्वयेऽपि यस्य प्रकाशतेऽनल्पशिल्पसौन्दर्यम् ॥ २॥
आरोहणावरोहणमार्गोऽयं भक्तसङ्खसङ्कीर्णः ।
सुव्यक्तं नागरिकश्रद्धाभक्तीस्फुटं प्रकाशयति ॥ ३॥
वृत्यर्थं यतमानाः भौतिकविषयेषु सन्ततं सक्तः ।
मानसमूर्जं शान्तिं चिन्वन्ति जना दिने दिने यत्र ॥ ४॥
सायं प्रातश्चैतत् क्षेत्रं सविशेषपावनं भवति ।
अभिषेकैरारतिभिर्वैदिकघोषैस्तथैव पूजाभिः ॥ ५॥
प्रवहति भक्तगलेभ्यो निर्गलिता नामवैखरीगङ्गा ।
यत्र स्नात्वा श्रोत्रं नृणाञ्च चित्तं पावितं भवति ॥ ६॥
नारायणीयगीताभागवतादीनि सूक्तिरत्नानि ।
पारायणप्रभाषणगोचरतां यान्ति भूरिशो यत्र ॥ ७॥
क्षेत्राङ्कणे विशाले प्रादक्षिण्यं विधाय भक्तजनाः ।
नानोपदेवदर्शनपुण्यं सम्पादयन्ति सानन्दम् ॥ ८॥
रमणीयचन्द्रशालाकल्पेऽत्र समागतैह्र्मदयवद्भिः ।
परितो नगरी लक्ष्मीद्र्दश्या क्षेत्रस्य मौक्तिकीमाला ॥ ९॥
छेदानगरीदेव्याः फालतले भासमानममलतरम् ।
सुन्दरसिन्दूरमयं तिलकमिदं देवमन्दिरं जयति ॥ १०॥
तदिदं पञ्चकन्तर्विकसद्भक्त्यादरधृदयेन ।
संस्तूयते मया, तद् ददातु मह्रं सदा मनःशान्तिम् ॥ ११॥
स्कन्दः –
सुरभिलकर्पूरमहानीराजननित्यतृप्तनिखिलगुरो ।
आर्तत्राणपरायण, भवन्तमीडे दयामयं देवम् ॥ १२॥
जय जय तारकवैरिन्! शक्तिधर, क्रौञ्चदारण, स्वामिन् ।
सुन्दरमयूरवाहन, दयानिधे पाहि नित्यदासान् नः ॥ १३॥
हर हर हर हर नन्दन! सिन्दूराक्तसुन्दराङ्ग, विभो ।
भक्ताभीष्टविधायक, नौमि त्वां देव! देवसेनान्यम् ॥ १४॥
भक्तप्रिय, भगवंस्त्वं भजामि वाञ्छन् सदा मनःशान्तिम् ।
विपदस्त्रायस्व विभो दयःनिधे पाहि नित्यदासान् नः ॥ १५॥
गुरुवायुपुरेशः –
छेदानगरनिवासिन्! गुरुवायुपुरेश सच्चिदानन्द!
मन्दस्मितार्द्रवदनं कृष्णं त्वामन्वहं वन्दे ॥ १६॥
तैलभिषेचनाद्यैः केरलपूजाक्रमैः समाराद्धम् ।
अस्माकमिष्टदेवं छेदानगरस्थितं भजे कृष्णम् ॥ १७॥
प्रत्यहमुषसि हरे त्वां तैलक्षीरादिनाभिषिक्ततनुम् ।
व्यञ्जितकिशोरभावं ध्यायामि विभो, प्रसीद मयि नित्यन् ॥ १८॥
छेदानगरीसंस्थं गुरुवायुपुरीपतिं दयासिन्धुम् ।
हन्त भजन्तो वयमिह शान्तिं विन्देम मानसीं नित्यम् ॥ १९॥
धर्मशास्ता –
शबरिगिरीश्वर, शान्तं छेदानगरे कृताधिवासं त्वाम् ।
भक्तजनैराराद्धं पश्यामि भजामि धन्यधन्योऽस्मि ॥ २०॥
शरणं शरणं यामस्तावकपादाम्बुजं दयासिन्धो!
जीवितमस्तु मम त्वद्दास्यमयं धर्मकर्मसम्पूर्णम् ॥ २१॥
त्वद्दासे मयि करुणां धेहि विधेहि स्थिरां मनःशान्तिम् ।
निर्मयमस्तु मनस्त्वयि विश्रान्तं सच्चिदानन्ते ॥ २२॥
देवी –
देवि! महाकालि! महालक्ष्मीमहाशारदाम्बिके गौरी ।
शकिन्त सम्पदमेव च विद्यां नो देहि पाहि नो विपदः ॥ २३॥
शक्तिस्वरूपिणि, शिवे, भुक्तेर्मुक्तेश्च साधिके, देवि!
त्वत्पदनलिनद्वन्द्वे पतामि भक्त्याः प्रसीद मयि नित्यम् ॥ २४॥
सिन्दूरतिलकसुन्दरफलां कारुण्यवर्षिनयनान्ताम् ।
मन्दस्मितार्द्रवदनां ध्यायामि त्वां महेश्वरीं मायाम् ॥ २५॥
विघ्नेशः –
भगवन्, गणनाथ, विभो, छेदानगरे कृताधिवासं त्वाम् ।
विघ्नविदारणदक्षं नौमि भवन्तं प्रसीद मयि दासे ॥ २६॥
शिवशक्तितत्वमेकं प्रत्यूहव्यूहनाशकं देवम् ।
सिन्दूरारुणिताङ्गं वन्देहं शान्तमद्भुताकारम् ॥ २७॥
सिद्धिविनायक, वन्दे बुद्धिविकासप्रदं महाकायम् ।
तुन्दामर्शकशुण्डं भवन्तमीशं प्रसन्नवदनाब्जम् ॥ २८॥
इति श्रीवासुदेवन् एलयथेन विरचितं छेदानगरक्षेत्रं देवपञ्चकस्तोत्रं सम्पूर्णम् ।