श्रीदुर्गासप्तशती – नवमोऽध्यायः
निशुम्भ-वध ॥ ध्यानम् ॥ॐ बन्धूककाञ्चननिभं रुचिराक्षमालांपाशाङ्कुशौ च वरदां निजबाहुदण्डैः।बिभ्राणमिन्दुशकलाभरणं त्रिनेत्र-मर्धाम्बिकेशमनिशं वपुराश्रयामि॥ ॐ” राजोवाच॥1॥विचित्रमिदमाख्यातं भगवन् भवता मम।देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम्॥2॥ भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते।चकार शुम्भो यत्कर्म निशुम्भश्चातिकोपनः॥3॥ ऋषिरुवाच॥4॥चकार कोपमतुलं रक्तबीजे निपातिते।शुम्भासुरो निशुम्भश्च हतेष्वन्येषु…