कौपीन पंचकम्
वेदान्तवाक्येषु सदा रमन्तोभिक्षान्नमात्रेण च तुष्टिमन्तः।विशोकमन्तःकरणे चरन्तःकौपीनवन्तः खलु भाग्यवन्तः।।१।। मूलं तरोः केवलमाश्रयन्तःपाणिद्वयं भोक्तुममन्त्रयन्तः।कन्थामिव श्रीमपि कुत्सयन्तःकौपीनवन्तः खलु भाग्यवन्तः।।२।। स्वानन्दभावे परितुष्टिमन्तःसुशान्तसर्वेन्द्रियवृत्तिमन्तः।अहर्निशं ब्रह्मसुखे रमन्तःकौपीनवन्तः खलु भाग्यवन्त:।।३।। देहादिभावं परिवर्तयन्तःस्वात्मानमात्मन्यवलोकयन्तः।नान्तं न मध्यं न बहिः स्मरन्तःकौपीनवन्तः खलु…