शुक्लयजुर्वेद काण्व शाखा अध्याय १६-२०
अथ षोडशोऽध्यायः अग्ने॑ जा॒तान्प्रणु॑दा नः स॒पत्ना॒न्प्रत्यजा॑ताञ्जातवेदो नुदस्व ।अधि॑ नो ब्रूहि सु॒मना॒ अहे॑ळस्तव॑ स्याम॒ शर्मस्त्रि॒वरू॑थ उद्भौ ॥१॥सह॑सा जा॒तान्प्रणु॑दा नः स॒पत्ना॒न्प्रत्यजा॑तान्नुद जातवेदः ।अधि॑ नो ब्रूहि सुमन॒स्यमा॑नो व॒य स्या॑म॒ प्रणु॑दा नः स॒पत्ना॑न् ।षो॒ळ॒शी…