Category: ज्ञानसंजीवनी

जगन्नाथ पंचकम्

रक्ताम्भोरुहदर्पभञ्जनमहासौन्दर्यनेत्रद्वयंमुक्ताहारविलम्बिहेममुकुटं रत्नोज्ज्वलत्कुण्डलम् ।वर्षामेघसमाननीलवपुषं ग्रैवेयहारान्वितंपार्श्वे चक्रधरं प्रसन्नवदनं नीलाद्रिनाथं भजे ॥ १॥फुल्लेन्दीवरलोचनं नवघनश्यामाभिरामाकृतिंविश्वेशं कमलाविलासविलसत्पादारविन्दद्वयम् ।दैत्यारिं सकलेन्दुमंडितमुखं चक्राब्जहस्तद्वयंवन्दे श्रीपुरुषोत्तमं प्रतिदिनं लक्ष्मीनिवासालयम् ॥ २॥उद्यन्नीरदनीलसुन्दरतनुं पूर्णेन्दुबिम्बाननंराजीवोत्पलपत्रनेत्रयुगलं कारुण्यवारांनिधिम् ।भक्तानां सकलार्तिनाशनकरं चिन्तार्थिचिन्तामणिंवन्दे श्रीपुरुषोत्तमं प्रतिदिनं नीलाद्रिचूडामणिम् ॥ ३॥नीलाद्रौ…

श्रीव्रजकिशोरत्रिपाठीविरचितं श्रीजगन्नाथस्य ज्वरपञ्चकं

स्नानाधिक्यान्मनुसुततनौ जायते हि ज्वरादि-र्दारोर्देहे प्रभवति कथं सोपि चित्रेषु चित्रम् ।वार्ता सत्यं त्रिभुवनपतिः श्रीजगन्नाथदेवःस्नानाद् रुग्णो विषमविषयस्तल्पशायी गृहान्तः ॥ १॥रोगाक्रान्ताद् विकलहृदयो रत्नवेदीं न यातिपीडाग्रस्तो भजति च गदं दर्शनं नो ददाति ।वैद्यादेशाज्ज्वरसुशमनं हौषधीयं…

छेदानगरक्षेत्रं देवपञ्चकस्तोत्रम्

सुब्रह्मण्यक्षेत्रं नव्यं नानोपदेवसञ्जुष्ठम् ।बहुतलसौधस्योपरि कल्पितमाभाति शिल्पसर्वस्वम् ॥ १॥अष्टोत्तरशतसङ्ख्यैः सोपानेन यत्र सन्निधेम्र्मार्गः ।पार्श्वद्वयेऽपि यस्य प्रकाशतेऽनल्पशिल्पसौन्दर्यम् ॥ २॥आरोहणावरोहणमार्गोऽयं भक्तसङ्खसङ्कीर्णः ।सुव्यक्तं नागरिकश्रद्धाभक्तीस्फुटं प्रकाशयति ॥ ३॥वृत्यर्थं यतमानाः भौतिकविषयेषु सन्ततं सक्तः ।मानसमूर्जं शान्तिं चिन्वन्ति जना…

श्रीचन्द्रशेखरेन्द्रसरस्वती पादुकापञ्चकं

ॐ श्री गुरुभ्यो नमः । हरिः ॐ ।कोटिसूर्यसमानाभां काञ्चीनगरचन्द्रिकाम् ।भजामि सततं भक्त्या परमाचार्य पादुकाम् ॥ १॥सकृत्स्मरणमात्रेण सर्वैश्वर्यप्रदायिनीम् ।भजामि सततं भक्त्या परमाचार्य पादुकाम् ॥ २॥संसारतापहरणीं जन्मदुःखविनाशिनीम् ।भजामि सततं भक्त्या परमाचार्य पादुकाम्…

श्रीचन्द्रशेखरेन्द्रसरस्वतीगुरुस्तुतिपञ्चकम्

शिवगुरुनन्दन-शङ्करशोभित-कामपदाङ्कित-पीठपतेनृपजनवन्दित विश्वमनोहर सर्वकलाधर पूततनो ।श्रुतिमतपोषक दुर्मतशिक्षक सज्जनरक्षक कल्पतरोजय जय हे शशिशेखरदेशिक काञ्चिमठेश्वर पालय माम् ॥ १॥श्रीधर शशिधर भेदविकल्पन दोषनिवारण धीरमतेरघुपतिपूजित-लिङ्गसमर्चन-जातमनोहर शीलतनो ।बहुविधपण्डितमण्डल-मण्डित संसदिपूजित वेदनिधेजय जय हे शशिशेखरदेशिक काञ्चिमठेश्वर पालय माम्…

गुरुपादुकापञ्चकम्

जगज्जनि-स्तेम-लयालयाभ्यां अगण्य-पुण्योदय-भाविताभ्याम्।त्रयीशिरोजात-निवेदिताभ्यां नमो नमः श्रीगुरुपादुकाभ्यम्॥१॥विपत्तमस्तोम-विकर्तनाभ्यां विशिष्ट-संपत्ति-विवर्धनाभ्याम्।नमज्जनाशेष-विशेषदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥२॥समस्त-दुस्तर्क-कलङ्क-पङ्कापनोदन-प्रौढ-जलाशयाभ्याम्।निराश्रयाभ्यां निखिलाश्रयाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥३॥तापत्रयादित्य-करार्दितानां छायामयीभ्यां अतिशीतलाभ्याम्।आपन्न-संरक्षण-दीक्षिताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥४॥यतो गिरोऽप्राप्य धिया समस्ता ह्रिया निवृत्ताः सममेव नित्याः।ताभ्यामजेशाच्युत-भाविताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥५॥ये पादुका-पञ्चकमादरेण पठन्ति…

श्रीगणपति तोटकपञ्चकस्तुतिः

प्रणवःप्रभशोभित शान्ततनोशिवपार्वतिलालित बालतनो ।वरमोदकहस्त मनोज्ञतनोवहते हृदये गणराजतनो ॥ (१) अपरोक्षसुधारसहर्षनिधेपरमार्थविबोधकसत्त्वनिधे ।श्रुतिवन्दितचित्परतत्त्वनिधेशरणं शरणं गजवक्त्रगुरो ॥ (२) अतिसुन्दर कुञ्जर बालगुरोअवबोध निसर्ग सुजूर्णिमयम् ।परितुष्य पदाम्बुरुहं भवतांदयया परिदर्शय मां सततम् ॥ (३) परितप्यति दुःसह…

श्रीमद् शङ्कराचार्यकृत कौपीन पंचकम्

वेदान्तवाक्येषु सदा रमन्तोभिक्षान्नमात्रेण च तुष्टिमन्तः ।विशोकमन्तःकरणे चरन्तःकौपीनवन्तः खलु भाग्यवन्तः ॥ १॥मूलं तरोः केवलमाश्रयन्तःपाणिद्वयं भोक्तुममन्त्रयन्तः ।कन्थामिव श्रीमपि कुत्सयन्तःकौपीनवन्तः खलु भाग्यवन्तः ॥ २॥स्वानन्दभावे परितुष्टिमन्तःसुशान्तसर्वेन्द्रियवृत्तिमन्तः ।अहर्निशं ब्रह्मसुखे रमन्तःकौपीनवन्तः खलु भाग्यवन्तः ॥ ३॥देहादिभावं परिवर्तयन्तःस्वात्मानमात्मन्यवलोकयन्तः…

श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीकृष्णापञ्चकस्तोत्रम्

कृष्णा नः पातु तृष्णाहरमधुररसा चिद्रसासारसाक्षीसाक्षीभूता नतानां निखिलमलहरा या हरानन्तमूर्तिः ।जूर्तिघ्नी भीतिनिघ्नी सकलहितरता तारतम्यव्यतीताऽ-तीतावाक्चित्तमार्गं जगति गतिदयत्ख्यातिरेषा विशेषा ॥ १॥कृष्णावेणी सतततरुणी वीक्षिता मध्यनीवृद्योषा वेषा सुषुमवपुषा भासमाना समाना ।मानातीतापि भजतां दृश्यतां याति मातामाता…

काशीपञ्चकम्

उपजानि छन्द –मनोनिवृत्तिः परमोपशान्तिःसा तीर्थवर्या मणिकर्णिका च ।ज्ञानप्रवाहा विमलादिगङ्गासा काशिकाहं निजबोधरूपा ॥ १॥ यस्यामिदं कल्पितमिन्द्रजालंचराचरं भाति मनोविलासम् ।सच्चित्सुखैका परमात्मरूपासा काशिकाहं निजबोधरूपा ॥ २॥ इन्द्रवज्रा छन्द –कोशेषु पञ्चस्वधिराजमानाबुद्धिर्भवानी प्रतिदेहगेहम् ।साक्षी शिवः…

error: Content is protected !!