Category: पातंजलयोगसूत्र

पातंजलयोगसूत्र: साधनपादः

तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ।। १ ।।समाधिभावनार्थः क्लेशतनूकरणार्थश्च ।। २ ।।अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ।।३ ।।अविद्या क्षेत्रं उत्तरेषां प्रसुप्ततनुविच्छिन्नोदाराणां ।। ४ ।।अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ।। ५ ।।दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ।। ६ ।।सुखानुशयी रागः ।। ७ ।।दुःखानुशयी द्वेषः…

पातञ्जलयोगसूत्र-विभूतिपाद:

देशबन्धः चित्तस्य धारणा ॥१॥तत्र प्रत्ययैकतानता ध्यानम् ॥२॥तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिवसमाधिः ॥३॥त्रयमेकत्र संयमः ॥४॥तज्जयात् प्रज्ञालोकः ॥५॥तस्य भूमिषु विनियोगः ॥६॥त्रयमन्तरन्गं पूर्वेभ्यः ॥७॥तदपि बहिरङ्गं निर्बीजस्य ॥८॥व्युत्थाननिरोधसंस्कारयोः अभिभवप्रादुर्भावौ निरोधक्षण चित्तान्वयो निरोधपरिणामः ॥९॥तस्य प्रशान्तवाहिता संस्कारत् ॥१०॥सर्वार्थता एकाग्रातयोः…

पातञ्जलयोगसूत्र समाधिपाद:

अथ योगानुशासनम्।।१।।योगश्चित्तवृत्तिनिरोधः।।२।।तदा द्रष्टुः स्वरूपे$वस्थानम्।।३।।वृत्तिसारुप्यमितरत्र।।४।।वृत्तयः पञ्चतय्यः क्लिष्टाक्लिष्टाः।।५।।प्रमाणविपर्ययविकल्पनिद्रास्मृतयः।।६।।प्रत्यक्षानुमानागमाः प्रमाणानि।।७।।विपर्ययोमिथ्याज्ञानमतद्रूपप्रतिष्ठम्।।८।।शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः।।९।।अभावप्रत्ययालम्बना वृत्तिर्निद्रा।।१०।।अनुभूतविषयासम्प्रमोषः स्मृतिः।।११।।अभ्यासवैराग्याभ्यां तन्निरोधः।।१२।।तत्र स्थितौ यत्नोअभ्यासः।।१३।।स तु दीर्घकालनैरन्तर्यसत्कारा$$सेवितो दृढभूमिः।।१४।।दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्।।१५।। तत्परं पुरुषख्यातेर्गुणवैतृष्णयम्।।१६।।वितर्कविचारानन्दास्मितानुगमात्सम्प्रज्ञातः।।१७।।विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषो$न्यः।।१८।।भवप्रत्ययो विदेहप्रकृतिलयानाम।।१९।।श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम्।।२०।।तीव्रसंवेगानामासन्नः।।२१।।मृदुमध्याधिमात्रत्वात्ततो$पि विशेषः।।२२।।ईश्वरप्रणिधानाद्वा।।२३।।क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः।।२४।।तत्र निरतिशयं सर्वज्ञबीजम्।।२५।।पूर्वेषामपि गुरुः कालेनानवच्छेदात्।।२६।।तस्य…

error: Content is protected !!