॥ श्रीगणेशाय नमः ॥ ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ॥ श्रीगुरवे नमः ॥ ॥ श्रीभैरवाय नमः ॥

पूर्वपीठिका
कैलाशशिखरासीनं देवदेवं जगद्गुरुम् ।
देवी पप्रच्छ सर्वज्ञं शङ्करं वरदं शिवम् ॥ १॥

॥ श्रीदेव्युवाच ॥
देवदेव परेशान भक्त्ताभीष्टप्रदायक ।
प्रब्रूहि मे महाभाग गोप्यं यद्यपि न प्रभो ॥ २॥
बटुकस्यैव हृदयं साधकानां हिताय च ।
॥ श्रीशिव उवाच ॥
शृणु देवि प्रवक्ष्यामि हृदयं बटुकस्य च ॥ ३॥

गुह्याद्गुह्यतरं गुह्यं तच्छृणुष्व तु मध्यमे ।
हृदयास्यास्य देवेशि बृहदारण्यको ऋषिः ॥ ४॥

छन्दोऽनुष्टुप् समाख्यातो देवता बटुकः स्मृतः ।
प्रयोगाभीष्टसिद्धयर्थं विनियोगः प्रकीर्तितः ॥ ५॥

॥ सविधि हृदयस्तोत्रस्य विनियोगः ॥
ॐ अस्य श्रीबटुकभैरवहृदयस्तोत्रस्य श्रीबृहदारण्यक ऋषिः ।
अनुष्टुप् छन्दः । श्रीबटुकभैरवः देवता ।
अभीष्टसिद्ध्यर्थं पाठे विनियोगः ॥

॥ अथ ऋष्यादिन्यासः ॥
श्री बृहदारण्यकऋषये नमः शिरसि ।
अनुष्टुप्छन्दसे नमः मुखे ।
श्रीबटुकभैरवदेवतायै नमः हृदये ।
अभीष्टसिद्ध्यर्थं पाठे विनियोगाय नमः सर्वाङ्गे॥
॥ इति ऋष्यादिन्यासः ॥

ॐ प्रणवेशः शिरः पातु ललाटे प्रमथाधिपः ।
कपोलौ कामवपुषो भ्रूभागे भैरवेश्वरः ॥ १॥

नेत्रयोर्वह्निनयनो नासिकायामघापहः ।
ऊर्ध्वोष्ठे दीर्घनयनो ह्यधरोष्ठे भयाशनः ॥ २॥

चिबुके भालनयनो गण्डयोश्चन्द्रशेखरः ।
मुखान्तरे महाकालो भीमाक्षो मुखमण्डले ॥ ३॥

ग्रीवायां वीरभद्रोऽव्याद् घण्टिकायां महोदरः ।
नीलकण्ठो गण्डदेशे जिह्वायां फणिभूषणः ॥ ४॥

दशने वज्रदशनो तालुके ह्यमृतेश्वरः ।
दोर्दण्डे वज्रदण्डो मे स्कन्धयोः स्कन्दवल्लभः ॥ ५॥

कूर्परे कञ्जनयनो फणौ फेत्कारिणीपतिः।
अङ्गुलीषु महाभीमो नखेषु अघहाऽवतु ॥ ६॥

कक्षे व्याघ्रासनो पातु कट्यां मातङ्गचर्मणी ।
कुक्षौ कामेश्वरः पातु वस्तिदेशे स्मरान्तकः॥७॥

शूलपाणिर्लिङ्गदेशे गुह्ये गुह्येश्वरोऽवतु ।
जङ्घायां वज्रदमनो जघने जृम्भकेश्वरः ॥ ८॥

पादौ ज्ञानप्रदः पातु धनदश्चाङ्गुलीषु च ।
दिग्वासो रोमकूपेषु सन्धिदेशे सदाशिवः ॥ ९॥

पूर्वाशां कामपीठस्थः उड्डीशस्थोऽग्निकोणके ।
याम्यां जालन्धरस्थो मे नैरृत्यां कोटिपीठगः ॥ १०॥

वारुण्यां वज्रपीठस्थो वायव्यां कुलपीठगः ।
उदीच्यां वाणपीठस्थः ऐशान्यामिन्दुपीठगः ॥ ११॥

ऊर्ध्वं बीजेन्द्रपीठस्थः खेटस्थो भूतलोऽवतु ।
रुरुः शयानेऽवतु मां चण्डो वादे सदाऽवतु ॥ १२॥

गमने तीव्रनयनः आसीने भूतवल्लभः ।
युद्धकाले महाभीमो भयकाले भवान्तकः ॥ १३॥

रक्ष रक्ष परेशान भीमदंष्ट्र भयापह ।
महाकाल महाकाल रक्ष मां कालसङ्कटात् ॥ १४॥

॥ फलश्रुतिः ॥
इतीदं हृदयं दिव्यं सर्वपापप्रणाशनम् ।
सर्वसम्पत्प्रदं भद्रे सर्वसिद्धिफलप्रदम् ॥
॥ इति श्रीबटुकभैरवहृदयस्तोत्रं सम्पूर्णम् ॥

error: Content is protected !!