Author: ज्ञानसंजीवनी फाउंडेशन

श्रीचन्द्रशेखरेन्द्रसरस्वती पादुकापञ्चकं

ॐ श्री गुरुभ्यो नमः । हरिः ॐ ।कोटिसूर्यसमानाभां काञ्चीनगरचन्द्रिकाम् ।भजामि सततं भक्त्या परमाचार्य पादुकाम् ॥ १॥सकृत्स्मरणमात्रेण सर्वैश्वर्यप्रदायिनीम् ।भजामि सततं भक्त्या परमाचार्य पादुकाम् ॥ २॥संसारतापहरणीं जन्मदुःखविनाशिनीम् ।भजामि सततं भक्त्या परमाचार्य पादुकाम्…

श्रीचन्द्रशेखरेन्द्रसरस्वतीगुरुस्तुतिपञ्चकम्

शिवगुरुनन्दन-शङ्करशोभित-कामपदाङ्कित-पीठपतेनृपजनवन्दित विश्वमनोहर सर्वकलाधर पूततनो ।श्रुतिमतपोषक दुर्मतशिक्षक सज्जनरक्षक कल्पतरोजय जय हे शशिशेखरदेशिक काञ्चिमठेश्वर पालय माम् ॥ १॥श्रीधर शशिधर भेदविकल्पन दोषनिवारण धीरमतेरघुपतिपूजित-लिङ्गसमर्चन-जातमनोहर शीलतनो ।बहुविधपण्डितमण्डल-मण्डित संसदिपूजित वेदनिधेजय जय हे शशिशेखरदेशिक काञ्चिमठेश्वर पालय माम्…

गुरुपादुकापञ्चकम्

जगज्जनि-स्तेम-लयालयाभ्यां अगण्य-पुण्योदय-भाविताभ्याम्।त्रयीशिरोजात-निवेदिताभ्यां नमो नमः श्रीगुरुपादुकाभ्यम्॥१॥विपत्तमस्तोम-विकर्तनाभ्यां विशिष्ट-संपत्ति-विवर्धनाभ्याम्।नमज्जनाशेष-विशेषदाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥२॥समस्त-दुस्तर्क-कलङ्क-पङ्कापनोदन-प्रौढ-जलाशयाभ्याम्।निराश्रयाभ्यां निखिलाश्रयाभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥३॥तापत्रयादित्य-करार्दितानां छायामयीभ्यां अतिशीतलाभ्याम्।आपन्न-संरक्षण-दीक्षिताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥४॥यतो गिरोऽप्राप्य धिया समस्ता ह्रिया निवृत्ताः सममेव नित्याः।ताभ्यामजेशाच्युत-भाविताभ्यां नमो नमः श्रीगुरुपादुकाभ्याम्॥५॥ये पादुका-पञ्चकमादरेण पठन्ति…

श्रीगणपति तोटकपञ्चकस्तुतिः

प्रणवःप्रभशोभित शान्ततनोशिवपार्वतिलालित बालतनो ।वरमोदकहस्त मनोज्ञतनोवहते हृदये गणराजतनो ॥ (१) अपरोक्षसुधारसहर्षनिधेपरमार्थविबोधकसत्त्वनिधे ।श्रुतिवन्दितचित्परतत्त्वनिधेशरणं शरणं गजवक्त्रगुरो ॥ (२) अतिसुन्दर कुञ्जर बालगुरोअवबोध निसर्ग सुजूर्णिमयम् ।परितुष्य पदाम्बुरुहं भवतांदयया परिदर्शय मां सततम् ॥ (३) परितप्यति दुःसह…

श्रीमद् शङ्कराचार्यकृत कौपीन पंचकम्

वेदान्तवाक्येषु सदा रमन्तोभिक्षान्नमात्रेण च तुष्टिमन्तः ।विशोकमन्तःकरणे चरन्तःकौपीनवन्तः खलु भाग्यवन्तः ॥ १॥मूलं तरोः केवलमाश्रयन्तःपाणिद्वयं भोक्तुममन्त्रयन्तः ।कन्थामिव श्रीमपि कुत्सयन्तःकौपीनवन्तः खलु भाग्यवन्तः ॥ २॥स्वानन्दभावे परितुष्टिमन्तःसुशान्तसर्वेन्द्रियवृत्तिमन्तः ।अहर्निशं ब्रह्मसुखे रमन्तःकौपीनवन्तः खलु भाग्यवन्तः ॥ ३॥देहादिभावं परिवर्तयन्तःस्वात्मानमात्मन्यवलोकयन्तः…

श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीकृष्णापञ्चकस्तोत्रम्

कृष्णा नः पातु तृष्णाहरमधुररसा चिद्रसासारसाक्षीसाक्षीभूता नतानां निखिलमलहरा या हरानन्तमूर्तिः ।जूर्तिघ्नी भीतिनिघ्नी सकलहितरता तारतम्यव्यतीताऽ-तीतावाक्चित्तमार्गं जगति गतिदयत्ख्यातिरेषा विशेषा ॥ १॥कृष्णावेणी सतततरुणी वीक्षिता मध्यनीवृद्योषा वेषा सुषुमवपुषा भासमाना समाना ।मानातीतापि भजतां दृश्यतां याति मातामाता…

काशीपञ्चकम्

उपजानि छन्द –मनोनिवृत्तिः परमोपशान्तिःसा तीर्थवर्या मणिकर्णिका च ।ज्ञानप्रवाहा विमलादिगङ्गासा काशिकाहं निजबोधरूपा ॥ १॥ यस्यामिदं कल्पितमिन्द्रजालंचराचरं भाति मनोविलासम् ।सच्चित्सुखैका परमात्मरूपासा काशिकाहं निजबोधरूपा ॥ २॥ इन्द्रवज्रा छन्द –कोशेषु पञ्चस्वधिराजमानाबुद्धिर्भवानी प्रतिदेहगेहम् ।साक्षी शिवः…

कामनापञ्चकम्

योऽत्रावतीर्य शकलीकृतदैत्यकीर्त-इर्योऽयं च भूसुरवरार्चित-रम्यमूर्तिः ।तद्दर्शनोत्सुकधियां कृततृप्तिपूर्तिःसीतापतिर्जयति भूपतिचक्रवर्ती ॥ १॥ब्राह्मी मृतेत्यविदुषामपलापमेतत्सोढुं न चाऽर्हति मनो मम निःसहायम् ।वाच्छाम्यनुप्लवमतो भवतः सकाशा-च्छ्रुत्वा तवैव करुणार्णवनामराम ॥ २॥देशद्विषोऽभिभवितुं किल राष्ट्रभाषाश्रीभारतेऽमरगिरं विहितुं खरारे ।याचामहेऽनवरतं दृढसङ्घशक्तिंनूनं त्वया रघुवरेण…

एकश्लोकी

किं ज्योतिस्तवभानुमानहनि मे रात्रौ प्रदीपादिकंस्यादेवं रविदीपदर्शनविधौ किं ज्योतिराख्याहि मे ।चक्षुस्तस्य निमीलनादिसमये किं धीर्धियो दर्शनेकिं तत्राहमतो भवान्परमकं ज्योतिस्तदस्मि प्रभो ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्यश्रीगोविन्दभगवत्पूज्यपादशिष्यस्यश्रीमच्छङ्करभगवतः कृतौ एकश्लोकी सम्पूर्णा ॥ एकश्लोकी दुर्गाॐ दुर्गायै नमः ।या…

ऐतरेयोपनिषत्

वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि ॥ वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि ॥ तन्मामवतुतद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम् ॥॥ ॐ शान्तिः शान्तिः शान्तिः॥…

error: Content is protected !!