‘देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् । अग्नये जुष्टं गृह्णाम्यग्नीषोमा जुष्टं गृह्णामि ।।’
‘भूताय त्वा नारातये स्वरभिविख्येषं दृं हन्तां दुर्याः पृथिव्यामुर्वन्तरिक्षमन्वेमि । पृथिव्यास्त्वा नाभौ सादयाम्यदित्याऽ उपस्थेग्ने हव्यं रक्ष ।।’
(शुक्लयजुर्वेदः – १/१०, ११).
भावार्थः - हे यज्ञसामग्र्यः ! सृष्टिकर्त्रा रचितायाम् एतस्यां सृष्ट्याम् अश्विनीकुमारयो एवं पूषादेवताया हस्तेभ्यो भवतीः वयं स्वीकुर्मः । अग्निदेवस्य कृते यत् परमप्रियं हविष्यान्नं वर्तते, तदर्थं हि युष्मान् वयं स्वीकुर्मः, तथाच अग्निसोमयोः कृते यत्प्रियपदार्थः तत् भवत्यः स्वीकुर्वन्तु । भवत्यः अनुदारतार्थं न, अपितु उन्नत्यर्थं हि निर्मिताः स्युः । आत्मनि स्थितं ज्योतिः वयं द्रष्टुमर्हाम । पृथिव्यां सज्जनानां वृद्धि भवतु । अखिले भूमण्डले विना अवरोधं वयं विचरणं कर्तुं शक्नुयाम । हे अदितिपुत्र अग्निदेव ! पृथिव्या नाभीरूपवत् स्थिते अस्मिन् यज्ञस्थले स्थापितं हविष्यान्नं रक्ष । शम् !