ज्ञानसंजीवनी

किं ज्योतिस्तवभानुमानहनि मे रात्रौ प्रदीपादिकं
स्यादेवं रविदीपदर्शनविधौ किं ज्योतिराख्याहि मे ।
चक्षुस्तस्य निमीलनादिसमये किं धीर्धियो दर्शने
किं तत्राहमतो भवान्परमकं ज्योतिस्तदस्मि प्रभो ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ एकश्लोकी सम्पूर्णा ॥

एकश्लोकी दुर्गा
ॐ दुर्गायै नमः ।
या अम्बा मधुकैटभप्रमथिनी या माहिषोन्मूलिनी
या धूम्रेक्षण चन्डमुण्डमथिनी या रक्तबीजाशिनी ।
शक्तिः शुम्भनिशुम्भदैत्यदलिनी या सिद्धलक्ष्मीः परा
सा दुर्गा नवकोटिविश्वसहिता मां पातु विश्वेश्वरी ॥

एकश्लोकीनवग्रहस्तोत्रम्
आधारे प्रथमे सहस्रकिरणं ताराधवं स्वाश्रये
माहेयं मणिपूरके हृदि बुधं कण्ठे च वाचस्पतिम् ।
भ्रूमध्ये भृगुनन्दनं दिनमणेः पुत्रं त्रिकूटस्थले
नाडीमर्मसु राहु-केतु-गुलिकान्नित्यं नमाम्यायुषे ॥

एकश्लोकी भागवतम्
आदौ देवकिदेविगर्भजननं गोपीगृहे वर्धनम्
मायापूतनजीवितापहरणं गोवर्धनोद्धारणम् ।
कंसच्छेदनकौरवादिहननं कुंतीसुतां पालनम्
एतद्भागवतं पुराणकथितं श्रीकृष्णलीलामृतम् ।

एकश्लोकि महाभारतं
आदौ पाण्डवधार्तराष्ट्रजननं लाक्षागृहे दाहनं
द्यूतं श्रीहरणं वने विहरणं मत्स्यालये वर्तनम् ।
लीलागोग्रहणं रणे विहरणं सन्धिक्रियाजृम्भणं
पश्चाद्भीष्मसुयोधनादिनिधनं ह्येतन्महाभारतम् ॥

॥ एकश्लोकि महाभारतं सम्पूर्णम् ॥

एकश्लोकि रामायणं (१)
आदौ रामतपोवनादिगमनं हत्वा मृगं काञ्चनं var पूर्वं
वैदेहीहरणं जटायुमरणं सुग्रीवसम्भाषणम् ।
वालीनिर्दलनं समुद्रतरणं लङ्कापुरीदाहनं ( var वालीनिग्रहणं)
पश्चाद्रावणकुम्भकर्णहननमेतद्धि रामायणम् ॥ var कुम्भकर्णकदनं

इति एकश्लोकि रामायणं (१) सम्पूर्णम् ॥

एकश्लोकि रामायणम् २
रामादौ जननं कुमारगमनं यज्ञप्रतीपालनं
शापादुद्धरणं धनुर्विदलनं सीताङ्गनोद्वाहनम् ।
लङ्काया दहनं समुद्रतरणं सौमित्रिसम्मोहनं
रक्षः संहरणं स्वराज्यभवनं चैतद्धि रामायणम् ॥
इति एकश्लोकि रामायणं (२) सम्पूर्णम् ॥

एकश्लोकि रामायणं (३)
जन्मादौ क्रतुरक्षणं मुनिपतेः स्थाणोर्धनुर्भञ्जनं
वैदेहीग्रहणं पितुश्च वचनाद्घोराटवीगाहनम् ।
कोदण्डग्रहणं खरादिमथनं मायामृगच्छेदनं
बद्धाब्धिक्रमणं दशास्यनिधनं चैतद्धि रामायणम् ॥
इति एकश्लोकि रामायणं (३) सम्पूर्णम् ॥

एकश्लोकी मल्लारीमाहात्म्यम्
पूर्वं धर्मसुतास्तपोवनगता मल्लेन सन्तर्जिता
जिष्णुंविष्णुमतीत्य शम्भुमभजन् तेनावतीर्य क्षितौ।
तत्रोल्का मुखमुख्य दैत्य निवहं हत्वामणिं मल्लकं
देवः प्रेमपुरेऽर्थीतोऽवतु वसन् लिङ्गं द्वयात्माऽर्थदः॥

एकश्लोकी मल्लारीमाहात्म्यम्
पूर्वं धर्मसुतास्तपोवनगता मल्लेन सन्तर्जिता
जिष्णुंविष्णुमतीत्य शम्भुमभजन् तेनावतीर्य क्षितौ।
तत्रोल्का मुखमुख्य दैत्य निवहं हत्वामणिं मल्लकं
देवः प्रेमपुरेऽर्थीतोऽवतु वसन् लिङ्गं द्वयात्माऽर्थदः॥




error: Content is protected !!