अथ वाजसनेयिनां संहितोपनिषदं व्याख्यास्यामः
ॐ ईशावास्यमिदं सर्वं यत् किं च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्॥१॥
जगत्यां प्रपञ्चे यत् किं च जगत् गतिमत् प्राणवदिति यावत् । तदिदं
सर्वं ईशा सर्वशक्तेन परमात्मना वास्यमाच्छाद्यम् व्याप्यमित्यर्थः ।
तेन जगदंशेन त्यक्तेन परित्यक्तेन अविषयीकृतेनेति यावत् । भुञ्जीथाः
अनुभव ईश्वरमिति शेषः । घटे कम्बुग्रीववत्वादेर्विकारांशस्य परित्यागेन
मृदनुभववत् जगत्यां नामरूपादिविकारांशपरित्यागेन कारणभूत-
सदनुभवः सिध्यतीति तात्पर्यम् । एवमनया त्रिपाद्या ज्ञानयोग उक्त्ः ।
उत्तरया पञ्चपाद्या कर्मयोगमाह मा गृधो मा कामं कृथाः । धनं कस्यस्विन्न
कस्यचिदित्यर्थः ।
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २॥
इह लोके कर्माणि विहितानि कुर्वन्नेव शतं समाश्चिरं जिजीविषेत्
जीवितुमिच्छेत् । शाश्वतमेवात्र (जीवितं) विवक्षितं कर्मयोगफल-
भूतम् । एवं त्वयि नरे कर्म न लिप्यते सङ्गाय न भवति । इतो
मार्गादन्यथा नास्ति । निष्कामविहितकर्माचरणादन्यो मार्गो नास्ति
कर्मलेपाभावायेत्यर्थः । असुर्या नाम ते लोका अन्धेन तमसावृताः । ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ३॥
अन्धेन तमसा वृताः ज्ञानशक्तिप्रविलयनात् । असून् प्राणान्
रान्त्यपहरन्त्यपगतप्रज्ञान् कुर्वन्तीति प्रज्ञापरिपन्थिनो भावाः असुरा
उच्यन्ते । तद्धितत्वादसुर्या नाम तेऽस्मद्दृष्टिपरोक्षाः लोकाः सन्तीति
शेषः । ये के चात्महनः प्रकरणादात्मज्ञानशून्यत्वात् कर्मलेपत्वाच्च
हेतुभ्यां शरीराद्विज्ञानमयस्य पृथक्करणाभावादन्तकाले आत्मनो हन्तारः
प्रज्ञापरिच्युतेः स्थावरसाम्यमिता इत्यर्थः । ते तान् पूर्वोक्तानसुर्यांल्लोकान्
प्रेत्याभिगच्छन्ति । मूर्छितस्य यादृशो लोकस्तादृशा एषां लोका इति
विज्ञायते । ज्ञानयोगीत्विहैवात्मानमनुभवति । कर्मयोगि त्वलिप्तत्वाद्
अन्ततः प्राप्नोत्यमृतत्वम् । अपरस्त्वात्महाजुगुप्सितगतिर्भवतीति
पर्यवसन्नं तात्पर्यम् । अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् । तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति॥४॥
एकं सर्वोपादानत्वात् सर्वात्मकमिति केवलं किमपि वस्तु । अनेजत्
स्वभावादचञ्चलम् । मनसो जवीयो वेगवत्तरं धर्मभूतज्ञानद्वारा ।
पूर्वमर्षद्गच्छदेनद्देवानाप्नुवन् पश्चान्न प्रापुः । तत्तिष्ठदचञ्चलमेव धावतो-
ऽन्यानत्येति अतिलङ्घते । तस्मिन् मातरिश्वा निजक्रियाशक्तिरूपो
वायुरपोरसन्दधाति धारयति । यदलेपत्वात् सूक्ष्मातिसूक्ष्मत्वात्
सर्वातिगत्वाच्चान्याभिर्विभूतिभिरस्पृश्यमासीत्तत्र मातरिश्वना निमित्तेन
रसः सूक्ष्मो भूत्वा प्राणात्मको ध्रियमाणो योगं प्रापेत्यर्थः । तदेजति तन्नैजति तद्दूरे तद्वन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५॥
तदेजति तन्नैजति प्रागुक्तरीत्या । तद्दूरे सूर्यमण्डलान्तर्वर्तित्वात् ।
तदन्तिके हृदयान्तर्वर्तित्वात् । तदस्य सर्वस्यान्तर्न केवलं मण्डल-
हृदययोः । तदस्य सर्वस्य बाह्यतः । पूर्णमित्युक्तं भवति । द्विरुः
पादपूरणः । यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६॥
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । आत्मानं च सर्वभूतेषु ।
ततोऽनुभवान्न विजुगुप्सते न कस्मिँश्चिद्वस्तुनि जुगुप्सावान् भवति ।
सर्वत्रात्मदर्शनात् । अस्यानुभवस्तु तेन त्यक्तेनेत्येव । यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७॥
विजानत आत्मज्ञानिनो यस्मिन् दशाविशेषे सर्वाणि भूतान्यात्मैवाभूत्
अपृथग्भावेन दर्शनात् । तत्र दशाविशेषे एकत्वमनुपश्यतः पुरुषस्य
को मोहः कः शोकः । मोहशोकौ न स्यातामित्यर्थः । पूर्वत्र विकारांश-
त्यागेन ब्रह्मानुभूतिर्विवक्षिता । अत्र सर्वस्यापि ब्रह्मत्वेन दर्शनं
विवक्षितम् । विकाराणां विषयत्वेन सेवासंसारः । विभूतित्वेनोपासनं
तु पूर्णानुभूत्यप्रतिद्वन्द्वीति ।
स पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम् । कविर्मनीषीपरिभूः स्वयंभूर्याथातथ्यतोऽर्थान् व्यदधा- च्छाश्वतीभ्यः समाभ्यः ॥ ८॥
स मुक्तः पुरुषोऽकायमशरीरं अव्रणमभेद्यत्वात् अस्नाविरमभौतिक-
त्वात् । शुद्धममलिनम् । अपापविद्धं असङ्गत्वात् । शुक्रममृतं ज्योतिर्मयं
दिव्यं वपुः पर्यगात् प्राप । कविर्मन्त्रदर्शी मनीषी मनस ईशः परिभूः
सर्वात्मभावेन व्याप्तः स्वयंभूरमृते दिव्ये वपुषि स्वयमाविर्भावात् । स
पुरुषोऽर्थान् वेदितव्यानंशान् याथातथ्यतः सत्यतया शाश्वतीभ्यः
समाभ्यः चिरं लोके जिज्ञासूनामर्थे स्थितये व्यदधाद्रचयामास । अभि-
दधावित्यर्थः । ऋषेरात्मान्वितैव परोक्षवदेषोक्तिः । ईश्वराधि-
कारोऽयमित्येके ।
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायाँ रताः ॥ ९॥
ये अविद्यां केवलां निद्रामित्यर्थः । सा ह्यविद्या केवला । यतस्तदा न
किञ्चिद्विजानाति । ते अन्धं तमः प्रविशन्ति ज्ञानशून्यत्वात् । ये
विद्यायां केवलायां त्रय्यादिविद्यायां लोकज्ञानात्मिकायां चरताः सक्ताः ।
ते ततः पूर्वोक्तात्तमसः भूय इव तमः प्रविशन्ति ।
विकाराविज्ञानेनासमुच्चितं विज्ञानं कदाचिन्न ब्रह्मज्ञाने ।
भेदेन विकारग्रहः । अभेदेन ब्रह्मानुभव
इति परस्परविरोधात् । नैवं विभूत्युपासनोच्छेदः । तत्र विकाराणां
पृथक्त्वेनाग्रहणादविद्यैवेति । उः पादपूरणः । अन्यदेवाहुर्विद्ययान्यदाहुरविद्यया । इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १०॥
विद्यया वक्ष्यमाणया अन्यदेव फलमाहुः । अविद्यया वक्ष्यमाणया
अन्यत्फलमाहुः । ये नस्तत् प्रकरणं विचचक्षिरे तेषां धीराणां
सकाशादिति शेषः । इति पूर्वोक्तप्रकारेण शुश्रुम श्रुतवन्तः स्मः ।
यद्यप्यविद्याविद्ये निष्फले केवले तथापि ते प्रकारान्तरेण समुच्चिते
फलदे इति भावः ।
विद्यां चाविद्यां च यस्तद्वेदोभयँ सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ ११॥
विद्यां चाविद्यां चोभयं तत्सह समुच्ययेन यो वेद युगपद्विद्वानविद्वाँश्च
भवतीत्यर्थः । कस्य विद्वान् कस्याविद्वानिति चेत् ईश्वरस्य विद्वान्
पार्थक्येन विकाराणामविद्वानिति व्याख्यास्यामः । स चाविद्यया पार्थक्येन
विकाराणामपरिज्ञानेन निमित्तेन मृत्युं प्रमादं तीर्त्वा विद्ययेश्वरानुभूत्या
अमृतं शाश्वतं ब्रह्मभावेन स्थितिमश्नुते प्राप्नोति । जगद्यः पृथग्भावेन
जानन्ननुभवति स ईश्वरं लक्षणतो जानन्नपि नैवानुभवति । अत एव
केवलां विद्यां न्यषेधत् । ईश्वरस्याविद्वान् प्रपञ्चमविजानन्नपि न
समाधिस्थः । तं तु निद्रितमेव पश्यामः । अतः केवलामविद्यां निनिन्द ।
अविद्याविद्ययोः प्रागुक्तरीत्या समुच्चयः स समाधिरेव । अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते । ततो भूय इव ते तमो य उ सम्भूत्याँ रताः ॥ १२॥
ये असम्भूतिं सम्भूतिप्रतिद्वन्द्विनं विनाशमुपासते केवलं म्रियन्त इति
यावत् । ते अन्धं तमः प्रविशन्ति । ये सम्भूत्यां रताः जन्म प्राप्ता इति
यावत् । ते ततो भूय इव तमः प्रविशन्ति । केवलेभ्यो मृतेभ्यो जाताः
केवला अधिके तमसि प्रविष्टा इति भावः ।
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् । इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३॥
सम्भवादन्यदेव फलमाहुर्वक्ष्यमाणात् । असम्भवाद्विनाशादन्यदेव
फलमाहुर्वक्ष्यमाणात् । ये नः (अस्मभ्यं) तत् प्रकरणं विचचक्षिरे ।
तेषां धीराणां सकाशादिति शेषः । इति पूर्वोक्तप्रकारेण शुश्रुम श्रुतवन्तः
स्मः । यद्यपि मरणजन्मनी केवले तमः प्रविशहेतू तथापि प्रकारान्तरेण
समुच्चिते फलदे इति भावः । सम्भूतिं च विनाशं च यस्तद्वेदोभयँ सह । विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥ १४॥
सम्भूतिं च विनाशं च तदुभयं सह समुच्चयेन यो वेदानुभवति युगपज्जातो
मृतश्च भवतीत्यर्थः । अभिमानत्यागादत्र शरीरे मृतः । तपसाऽऽभ्यन्तरे
ज्योतिषि तादात्म्याज्जात इति विवेकः । स च विनाशेन
देहाभिमानत्यागेनात्र शरीरे मरणेन मृत्युं प्रमादं तीर्त्वा ।
सम्भूत्याऽऽभ्यान्तरे ज्योतिषि तादात्म्याद्दिव्येन जन्मनाऽमृतं
ब्रह्मभावमश्नुते पाप्नोति । हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५॥
सत्यस्य प्रत्यगात्मनो मुखं भ्रूमण्डलवर्ति दिव्यमान्तरं चक्षुर्हिरण्मयेन
पात्रेणाक्ष्णोरुपरिभागेन पात्राकारत्वादेष भागः पात्रं हिरण्मयमिति
रूपितः । अपिहितमाच्छादितम् । अतो वयमन्तरन्धाः । पूषन्
सूर्यमण्डलान्तर्वर्तिन् पुरुष त्वं तदपावृणु कुर्वपावृतम् । कस्मै प्रयोजनाय
सत्यधर्माय प्रत्यगात्मधर्माय दृष्टये प्रतीच्यै दृष्टय इति भावः । पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह । तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६॥
पूषन् पोषक एकर्षे सर्वमन्त्राणां द्रष्टः । यम नियामक प्राजापत्य
प्रजापतेरखण्डात्मनो हिरण्यगर्भात्मना मण्डले प्रादुर्भूतसूर्य- भगवन्,
व्यूह सन्नाहय रश्मीन् किरणान् । समूह एकीकुरु । मम प्राणानां
सर्वेषां सजातीयानामनुग्रहायेति भावः । रश्मयो हि प्राणा अध्यात्मम् ।
तेजस्तेजोमयं यत्ते कल्याणतमं रूपं तत्ते पश्यामि । योऽसौ असौ
पुरुषः सोऽहमस्मि । साक्षात्कारादन्तरमिदमुच्यते । वायुरनिलममृतमथेदं भस्मान्तँ शरीरम् । ॐ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर ॥ १७॥
वायुरनिलं निलयनरहितममृतं वस्तु । सङ्गरहित इति यावत् । अथेदं
शरीरं भस्मान्तं नश्वरमित्यर्थः । मातरिश्वन एवैषा स्तुतिर्भवति । ॐ
प्रणवरूपक्रतो सर्वक्रियाकारिन् वायो स्मर मामिति शेषः । कृतं मया
कृतं पुण्यं स्मर । वाक्यस्य द्विर्वचनं प्रार्थनायामादरातिशयार्थम् । अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ॥ १८॥
द्युस्थानमन्तरिक्षस्थानं च दैवते प्रार्थिते । अथ पृथिवीस्थानं प्रार्थयते ।
अग्ने देव अस्मान् राये सम्पदे विश्वानि सर्वाणि वयुनानि स्थानानि
विद्वान् त्वं सुपथा शोभनेन मार्गेण नय । अस्मन् मत्तो जुहुराणं
लज्जाकरमेनो युयोधि पृथक्कुरु । ते तुभ्यं भूयिष्ठां नम उक्तिं विधेम ।
यदीशोपक्रम्य सूर्यवायुवैश्वानराणां स्तुत्योपसंहरति । तत्
ज्ञापयत्युपनिषत् ईशस्तिस्र एता देवता विभूतय इति विभूतय इति ।
अत्रायं श्लोको भवति ।
संहितान्तानुवाकोऽयं गोप्यो वाजसनेयिनाम् ।
भाष्येण लधुनाऽनेन दीपेनेव प्रकाशितः ॥
॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनो-
र्गणपतेः कृतिर्वाजसनेयिसंहितोपनिषद्भाष्यं समाप्तम् ॥