संस्कृत भाषा अस्माकं प्राचीनतमा भाषा अस्ति संस्कृत भारतीय उपमहादीपस्य भाषास्ति l संस्कृतं एकं हिन्दार्य भाषास्ति l संस्‍कृतभाषा विश्‍वस्‍य सर्वासु भाषासु प्राचीनतमा भाषास्ति। संस्‍कृतभाषा परिशुद्धा व्‍याकरण सम्‍बंधिदोषादिरहिता संस्‍कृत भाषेति निगघते। संस्‍कृतभाषैव भारतस्‍य प्राणभुताभाषा अस्ति राष्‍ट्रस्‍य ऐक्‍य साधयति च् भाषा अस्ति। संस्‍कृतभाषा जीवनस्‍य सर्वसंस्‍कारेषु संस्‍कृतस्‍य प्रयोग: भवति। सर्वासामेताषां भाषाणाम् इयं जननी। संस्‍कृतभाषा सर्वे जानानां आर्याणां सुलभा शोभना गरिमामयी च संस्‍कृत भाषा वाणी अस्ति। वेदाः, रामायणं, महाभारतं, श्रीमदभगवद्गीता इत्यादि ग्रन्थाः संस्कृतभाषायां एवं विरचितानि सन्ति। अस्या: भाषाया: महत्वं विदेशराज्येष्वपि प्रसिध्दमस्ति l संस्कृतभाषायाः संरक्षणार्थं वयं संस्कृतपठनं प्रचरणं च अवश्यमेव कुर्मः l परिष्कृत, व्याकरणादिदोष रहितं यत् भाषा तत् संस्कृतम् अस्ति। इयं भाषा एवं देववाणी, सुरभारती, गीर्वाणवाणी इत्यादिकैः नामभिः व्ययहियते। संस्कृतभाषा संसारस्य सर्वासु भाषासु प्राचीनतमा, परिष्कृततमा च विद्यते।।

अस्याः भाषायाः साहित्यम् अपि सुविशालं, परमोन्नत, विविध- ज्ञान-समन्वित च अस्ति। भारतस्य प्राचीनाः ग्रन्थाः चत्वारा: वेदाः संस्कृतभाषायां सन्ति। धर्मशास्त्राणि, अष्टादश-पुराणानि, अष्टादश स्मृतयः, षट् दर्शनानि च संस्कृत भाषायां एवं लिखिताः सन्ति। सम्पूर्ण कर्मकाण्ड विभागः सम्पूर्ण च आयुर्वेदपद्धतिः, एते सर्वे ग्रन्थाः संस्कृतभाषायाम् एवं निबद्धाः सन्ति।एतेषाम् अध्ययनेन भारतवर्षस्य, प्राचीन धर्मस्य, आयुर्वेदस्य, तथा अतीत सभ्यतायाः पूर्णः परिचयः प्राप्यते। एवं संस्कृत वाग्मय एव भारतस्य संस्कृतेः आध्यात्मिकस्य च ज्ञानस्य विशुद्ध रूपज्ञानाय एकं साधनम्। एवं इयं भाषा: प्राचीनतमा इति निर्विवादम्। कतिपयैः उदाहरणैः अस्याः परिकृतिः अपि प्रकटयितुम् शक्यते। आंग्लभाषायां लिख्यते ‘बुट’ पठ्यते च ‘बट’ लिख्यते पुट पुनः ‘पट’ इति न पठ्यते। एवमेव अनेकानि आंग्लभाषायाः भ्रष्ट्र उदाहरणानि सन्ति। संस्कृतमेव सा भाषा यस्यां यत् लिख्यते तदेव पठ्यते।

संस्कृत भाषा: न केवलं उच्चारणे सर्वोत्कृष्ट: अपितु मधुरा दिव्या च। इयं भाषा आचारशास्त्र शिक्षिका, जीवनोन्नतिकारिणी च अस्ति।

ये कथयन्ति यत् कर-भाषा कठिना वर्तते, ते न जानन्ति यत् स्वल्य प्रयासेनैव संस्कृतं पठितं शक्य। संस्कृत भाषाः अस्माकं देशस्य सांस्कृतिकः निधिः अस्ति। सम्पूर्णमपि सांस्कृतिक वाङ्गमयं संस्कृतमाश्रित्य एव अवतिष्ठते। संस्कृत्याः वाङ्मयेन रहितरस्य राष्ट्रस्य जातेश्च अध: पतनम् अनिवार्यम्। संस्कृस्य एतादृशं महत्त्वं दृष्टैव कश्चित् कविना सत्यम् एवं उक्तम्:-

“भारतस्य प्रतिष्ठे हे संस्कृतं चैव संस्कृतिः”

अद्यत्वे केचित् मूढाः संस्कृतं मृतभाषां कथयन्ति ते न जानन्ति यत् ये संस्कृतस्य रसेन ज्ञानेन, संस्कृति बलेन अद्यापि कृतकृत्याः भवन्ति कि तेभ्यः संस्कृत भाषा मृता? पुनरपि यदि केचित् कुपुत्राः स्वजननी सदृशीम् इमां भाषां मृतां कथयन्ति येन च भारतवर्षे संस्कृत भाषा उपेक्ष्येत, तर्हि गीर्वाण वाणी एवं क्षमयतु तेषाम् अपराधः। यतो हि-

“कुपुत्रो जायेत् क्वचिदपि कुमाता न भवति”

error: Content is protected !!