ककारादारभ्य ज्ञकारान्ता शिवस्तुतिः
   ( क से लेकर ज्ञ तक प्रत्येक वर्ण से आरम्भ )

    लेखकः- आचार्यो विवेककुमारपाण्डेयः
    [प्रधानाचार्यः- वेदश्रीतपोवनगुरुकुलम्]
      चैत्रशुक्लत्रयोदशी- २१/०४/२०२४

करोतु नश्शिवं शिवः शिवाभिवन्दितो विभुः
गणेशकार्तिकेयतातनाथसर्वसम्प्रभुः।
कृपाम्बुधे प्रभो शिवो वितन्यतां हि नित्यशः
जगज्जयाय जायताम्महेश तेऽमलं यशः॥१॥

खगेशपत्रपूजितो विधीन्द्रकादिसेवितः
नगाधिराजकन्यकाप्रियःप्रियङ्करश्शुभः।
गणेशमाद्यवन्दितञ्चकार पूजया स्वया
जगाद देवतागणस्त्वगाधगाथया यथा॥२॥

गुणो मुदा प्रशस्यते सुरासुरैस्तथा नरैः
प्रबुद्धकान्ययोनिभिर्यथायथं सुवेतृभिः।
कपर्दमध्यतीव्रवेगतोऽवरोढुमीहया
महेश चाकलीति भावभाविता सुरापगा॥३॥

घनाघनः सभाजनोऽसुरद्रुहान्दिवौकसां
महिम्नि तेऽखिलेश गायति प्रतापवैभवम्।
त्वमेव सर्वसौख्यदः प्रमीयसे प्रमाणतः
जगत्सु तर्हि सर्वतोऽधिकं सपर्यया मतः॥४॥

ङवे स्तवं शिवं शिवञ्जपन् मनोमलापहं
स्वकीयपादपद्मयो रतिं विधेहि नश्शुभाम्।
मदिष्टदेव! शिष्टवन्द्य! दिष्टलब्धभक्तितो
हि कामये सदा कृपासुधा त्वया सुवृष्यताम्॥५॥

चरीकरीत्यधोक्षजस्तु सत्त्वमाश्रितस्स्वयं
स्तवन्तमःस्पृशः प्रभोऽवलोक्यते सविस्मयम्।
परन्तु तत्त्वतस्त्विदं ब्रुवन्ति मानिनोऽनिशं
शिवस्तु तत्त्वमस्ति सर्वबोधदं हि निर्गुणम्॥६॥

छविं विलोक्य जायते भ्रमोऽशिवां भयङ्करं
परन्तवेदमस्ति    रूपमद्भुतं    सुमङ्गलम्।
गले विषप्रतीतितः  प्रतीयते  हि‌    धूर्जटे!
समस्तलोकमङ्गलाय तत्परो वृषाकपे॥७॥

जगर्ज वै दशाननो हिमालयङ्गतो बली
विमूढ आत्मगर्वतश्श्रुतं बलं दिदृक्षया।
त्वदीयतोऽनभिज्ञता प्रदर्शिता प्रतेजसः
हृता तदीयमूढता त्वया शिव! स्वलीलया॥८॥

झषोदरीसुतस्तुतः पुरा पुराणसम्मतः
वृकोदरानुजादयो यथान्तरं प्रतुष्टुवुः।
समानि मान्यदैवतानि तानि तानि तत्त्वतः
प्रभो! धिया मुदा हृदाऽज तावकस्तवञ्जगुः॥९॥

ञुङूषते जनस्त्वनेकभेदतस्सुभावनः
स्तुतावजत्रिलोचनेश सर्वलोकपावन।
तथाऽहमस्मि दास्यभावतो शरण्य ईश्वरः
करिष्यतीति शम्मदीयमस्ति यो महेश्वरः॥१०॥

टटाल ढक्कनादकं श्रुतो महर्षिपाणिनिः
तपोरतस्तु शब्दशास्त्रनिर्मितिञ्चिकीर्षया।
ननाद नाथ! हर्षयँश्च मोदमानमानसं
स निर्ममे त्रयीव सूत्रमर्जितश्चतुर्दशम्॥११॥

ठ! ऐश्वरीयमीदृशी जगद्विमोहिनी क्रिया-
ऽवलोक्य चाखिलञ्जगन्नतन्तवाङ्घ्रिपद्मयोः।
ततस्त्वमाशुतोष इत्युदीर्यसे समर्चकैः
दयालुभावन! त्वमेव भो! पवित्रतान्वितैः॥१२॥

डवित्थडित्थकादिमृण्मये यथैव बालको-
ऽनुरागमादधान एति बोधकैर्निवार्यते।
तथैव मायया त्वदीयया जगत्सु धूर्जटे
भवाम्बुधेस्तु विभ्रमञ्जनस्त्वयाऽवतार्य्यते॥१३॥

ढहस्तमस्तकाब्धिजत्रिशूलचित्रशोभनः
सदैव लक्ष्यसे मया स्वरूपतस्तपोधनः।
जपन्नरोत्तमस्य रामनाम बोधयस्यथो
सुभक्तिसत्प्रभावतस्त्वमीश सर्ववन्दनः॥१४॥

‘णु’ संस्तुतौ प्रयुज्यते तु शब्दयोनिरूपतो
लडुत्तमैकसंख्यया प्रभो महर्षिसम्मतम्।
हृदाम्बिकेश! तत्त्वदीयपादपद्मकर्मणा
युनज्मि देव! कर्तृयङ्लुगन्तयत्क्रियापदम्॥१५॥

तनोतु नो यशो गुणं धियो समाप्य जाड्यताम्-
महेश्वर! त्वमाश्रयोऽसि सर्वदैव माद्दृशाम्।
अतस्तवैव दासता ह्यकारि लिप्सया मया
त्रिलोचनात्र बालके त्वया विधीयतां दया॥१६॥

थुडिष्यतीति भीतितः प्रभावितस्तु मायया-
गतोऽस्मि सन्निधिं शिवां शिवेश! ते मुदाकराम्।
अनावृतामिमां विधाय देहि सत्कृपावरं
अनन्यचिन्तया जनः प्रपद्यते गुणाकरम्॥१७॥

ददात्वभीतिमाधिहन् वदामि ते स्तवङ्गृणन्
वसन् मदीयमानसे हरत्वघं निरन्तरम्।
तदर्थमेतया   त्वयालपञ्जपन्नतस्त्वहं
करोमि काव्यधारया मुदा शिवाभिषेचनम्॥१८॥

धुनोतु पापसञ्चयं निवेदयाम्यभीष्टदं
कपर्दिनन्त्रिलोचनं श्रृणोतु मे निवेदनम्।
प्रदाय मे स्वभक्तिभावमात्रमत्र शङ्कर!
प्रमत्य मां प्रियं हि भक्तमाव चन्द्रशेखर॥१९॥

नतः पदाब्जयोस्तु नोनवीमि नाथ! सौख्यदम्
ऋते त्वया न कश्चिदस्ति यत्र गुण्यवैभवम्।
विराजते       यथोदधावपाररत्नराशयो
निराशतापहीयताञ्छुभे व्रजामि शम्भवम्॥२०॥

पदारविन्दयोस्सदा दृशाऽवलोकनं हृदा
भवेदितीहया त्वज! ब्रवीम्यहम्पुनः पुनः।
तवास्मि नीललोहित! त्वया विना कुतो गतिः
विधीयते भृशम्मया त्वदीयपादयोर्नतिः॥२१॥

फणीश्वरश्च शारदा तथा सुरेन्द्रसन्निभाः
अनेक ईश्वरस्तुतौ प्रभुत्वकानलञ्जगुः।
कथम्मयाल्पधीमता भवेच्च सा निजेच्छया
तथापि नाथ मूढता स्वभावतः प्रकट्यते॥२२॥

ब्रवीति चापलो ह्यसावतीवमूढमानसः
सुकल्पते तु वार्तया च मंस्यते विचक्षणः।
प्रकल्प्य शम्भव! त्वया प्रहस्य मन्दमस्ति यत्
कृपाकटाक्षमत्र देहि देहि भूतभावन॥२३॥

भवेन भाविता वरं पुरा पुरारिकीर्तित!
त्वयादितेयका भवेयुरत्र वा महासुराः।
प्रदत्तमेव निश्चितं तवेति कीर्तिगाथया
प्रणुद्य लब्धुमागतो वरं ह्यकिञ्चनस्त्वयम्॥२४॥

मयाऽन्वभावि ते प्रभाव ईश! सर्ववन्दित-
स्त्वमेव नाथ! चासि सर्ववेदशास्त्रपण्डित-
स्त्वदीयया कृपादृशा भवत्यथोऽखिलो जनः
प्रणौमि पादपङ्कजं वशीकरोतु मे मनः॥२५॥

यसामि तोषमाशुतोष! तावकीनमाश्रितः
स्तवं विधाय शब्दजालगुम्फितम्मनोहरम्।
यथामति प्ररीय नः कृपानिधे विधेहि तत्
वचश्शुभाशिषाम्प्रभो! यतो भवेत्सुमङ्गलम्॥२६॥

रमापतिप्रियस्य ते महिम्नि जातु वर्णितं
किमप्यपूर्वमस्ति चेति वक्तुमत्र कोऽप्यलम्।
जगत्यनाथनाथ! नास्ति तर्हि किं मुधा स्मयं
करोति कश्चिदत्र देव! जाड्यतासमन्वितम्॥२७॥

लघिष्ठ एव हे विभो! विदां विपश्चितामहं
गुणाकरस्य वेदितुं हि वीर्यधामवैभवम्।
त्वमेव तत्त्रयीमयोऽसि निर्गुणः परात्परः
गुणो विगृह्यते जगत्सिसृक्षयाऽवनादितः॥२८॥

विशिष्य सर्ववन्दितोऽभिनन्दितोऽसि सम्मतः
महानसीति मान्यतास्ति सर्वशास्त्रवर्णिता।
त्वयोपकारमाप्य वर्ण्यते सदैव सर्वतः
सुरासुरैर्नरैर्नरेतरैस्तथैव धन्यता ॥२९॥

शुभानि सन्तु कामये जगत्सु लोकमङ्गलं
कृतं तनोतु शम्भुना शिवञ्च सर्वसौख्यदम्।
गवीशपत्रवीशपत्रहंसवाहनस्तुतः
हरत्वघं करोतु चेतसो मुदं हि सर्वतः॥३०॥

षडङ्गवेदबोधदो गिरीश! मोक्षदप्रभु-
स्त्वपाकरोतु मे तमो हृदन्वितञ्जडात्मकम्।
हि विश्वनाथ ते दयान्वितेन वै भवार्णवे
लघूडुपेन पारगे त्वशक्यता न जायते॥३१॥

स्मरप्रतापवारको नतस्य तापहारकः
समस्तभव्यकारकस्त्वमेव लोकहारक।
प्रजप्य नाम ते शिवञ्जहाति यो निजाशुभं
स्वभक्तसञ्चयस्तथा प्रसाध्यतां हि सन्ततम्॥३२॥

हर! त्रुटिर्हि जायते धियाल्पया शिवापते
तवार्चने स्तुतौ विधौ तथापि तद्विधीयते।
यथातथङ्कृते समर्चनेऽपि तुष्यसीति ते
ऋजुत्वमत्र कारणं प्रभो! मयानुमीयते॥३३॥

क्षमस्व मेऽपराधमात्रमीड्यशम्भुशङ्कर!
प्रदीयतां यशोऽमलञ्च शेमुषीप्रधानतः।
करिष्यते सदा ब्रवीमि भावनासमन्वितः
समर्चनं मुदाऽभिवन्द्य ते मया विधानतः॥३४॥

त्रयीमयस्तपोमयस्त्वमेव सर्ववाङ्मयो
मदीयवाचया समर्च्यसे मनोनिकेतने।
यथाविवेकमीश! संस्तुतो मयाऽविवेकिना
प्रसीद विश्वमानद प्रसद्यतां त्वयाऽधुना॥३५॥

ज्ञता न विज्ञ! कापि मे तथापि चेष्टया त्वहं
स्तवीमि भक्तिभावतोऽनभिज्ञता प्रभावतः।
प्रभो कृपालुना त्वया जनस्तवैष पाल्यतां
यशोगुणैस्समं सुवैभवं विभो प्रदीयताम्॥३६॥

error: Content is protected !!