अध्यात्मरामायणे बालकाण्डम्
॥ प्रथमः सर्गः॥ ॥ राम हृदयम्॥ यः पृथिवीभरवारणाय दिविजैः सम्प्रार्थितश्चिन्मयःसञ्जातः पृथिवीतले रविकुले मायामनुष्योऽव्ययः ।निश्चक्रं हतराक्षसः पुनरगाद् ब्रह्मत्वमाद्यं स्थिरांकीर्तिं पापहरां विधाय जगतां तं जानकीशं भजे ॥ १॥ विश्वोद्भवस्थितिलयादिषु हेतुमेकंमायाश्रयं विगतमायमचिन्त्यमूर्तिम् ।आनन्दसान्द्रममलं…