Day: July 28, 2021

अध्यात्मरामायणे अयोध्याकाण्डम्

॥ प्रथमः सर्गः ॥ एकदा सुखमासीनं रामं स्वान्तःपुराजिरे ।सर्वाभरणसम्पन्नं रत्नसिंहासने स्थितम् ॥ १॥ नीलोत्पलदलश्यामं कौस्तुभामुक्तकन्धरम् ।सीतया रत्नदण्डेन चामरेणाथ वीजितम् ॥ २॥ विनोदयन्तं ताम्बूलचर्वणादिभिरादरात् ।नारदोऽवतरद्द्रष्टुमम्बराद्यत्र राघवः ॥ ३॥ शुद्धस्फटिकसङ्काशः शरच्चन्द्र इवामलः…

error: Content is protected !!