जानकीपञ्चकम्
मातृके सर्वविश्वैकधात्रीं क्षमांत्वां सुधां शीतलां पुत्रपुत्रीनुताम् ।स्नेहवात्सल्यधारायुतां जानकींतां नमामीश्वरीं मातरं प्रेमदाम् ॥ १॥नूपुरानन्ददां किङ्कणीमेखलांशातकुम्भाङ्गदां हाररत्नाकराम् ।कुण्डलाभूषणां मौलिहीरोज्ज्वलांतां नमामीश्वरीं मातरं प्रेमदाम् ॥ २॥मेघवृन्दालकां मन्दहासप्रभांकान्तिगेहाक्षिणी स्वर्णवर्णाश्रयाम् ।रक्तबिम्बाधरां श्रीमुखीं सुन्दरींतां नमामीश्वरीं मातरं प्रेमदाम्…