श्रीरूपगोस्वामिविरचितस्तवमालायां त्रिभङ्गीपञ्चकम्
। नमः श्रीकृष्णाय ।यमलार्जुनभञ्जनमाश्रितरञ्जनमहिगञ्जनघनलास्यभरं पशुपालपुरन्दरमभिसृतकन्दरमतिसुन्दरमरविन्दकरम् ।वरगोपवधूजनविरचितपूजनमूरुकूजननववेणुधरं स्मरनर्मविचक्षणमखिलविलक्षणतनुलक्षणमतिदक्षतरम् ॥ १॥प्रणताशनिपञ्जरं नम्बरपिञ्जरमरिकुञ्जरहरिमिन्दुमुखं गोमण्डलरक्षिणमनुकृतपक्षिणमतिदक्षिणमैम्तात्मसुखम् ।गुरुगैरिकमण्डितमनुनयपण्डितमवखण्डितपुरुहूतमखं व्रजकमलविरोचनमलिकसुरोचनगोरोचनमतिताम्रनखम् ॥ २॥उन्मदरतिनायकशाणितशायकविनिधायकचलचिल्लिलतं उद्धतसङ्कोचनमम्बुजलोचनमघमोचनममरालिनतम् ।निखिलाधिकगौरवमुज्ज्वलसौरभमतिगौरभपशुपीषु रतं कोमलपदपल्लवमभ्रमु वल्लभरुचिदुर्लभसविलासगतम् ॥ ३॥भुजमूर्ध्नि विशङ्कटमधिगतशङ्कटनतकङ्कटमटवीषु चलं …