स्वामी विवेकानन्दविरचितम् शिव स्तोत्रं
निखिलभुवनजन्मस्थमभङ्गप्ररोहाःअकलितमहिमानः कल्पिता यत्र तस्मिन् ।सुविमलगगनाभे ईशसंस्थेऽप्यनीशेमम भवतु भवेऽस्मिन् भासुरो भावबन्धः ॥ निहतनिखिलमोहेऽधीशता यत्र रूढाप्रकटितपरप्रेम्ना यो महादेव संज्ञः ।अशिथिलपरिरम्भः प्रेमरूपस्य यस्यप्रणयति हृदि विश्वं व्याजमात्रं विभुत्वम् ॥ वहति विपुलवातः पूर्व संस्काररूपःप्रमथति बलवृंदं…