Day: September 26, 2020

शंकराचार्य कृत श्रीगोविन्दाष्टकं

सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशंगोष्ठप्रांगणरिंगणलोलमनायासं परमायासम्।मायाकल्पितनानाकारमनाकारं भुवनाकारंक्ष्माया नाथमनाथं प्रणमत गोविन्दं परमानन्दम्।।१।। मृत्स्नामत्सीहेति यशोदाताडनशैशवसंत्रासंव्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम्।लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकंलोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम्।।२।। त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नंकैवल्यं नवनीताहारमनाहारं भुवनाहारम्।वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासंशैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम्।।३।। गोपालं भूलीलाविग्रहगोपालं कुलगोपालंगोपीखेलनगोवर्धनधृतिलीलालालितगोपालम्।गोभिर्निगदितगोविन्दस्फुटनामानं बहुनामानंगोपीगोचरदूरं प्रणमत गोविन्दं परमानन्दम्।।४।। गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभंशश्वद्गोखुरनिर्धूतोद्धतधूलीधूसरसौभाग्यम्।श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावंचिन्तामणिमहिमानंप्रणमतगोविन्दं…

error: Content is protected !!