शुक्लयजुर्वेद माध्यन्दिन संहिता प्रथमोध्यायः

हरिः ॐ इ॒षे त्वो॒र्जे त्वा॑ वा॒यव॑ स्थ दे॒वो व॑: सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आप्या॑यध्व मघ्न्या॒ इन्द्रा॑य भा॒गं प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्मा मा व॑ स्ते॒न ई॑शत॒ माघश॑ सोध्रु॒वा अ॒स्मिन् गोप॑तौ स्यात ब॒ह्वीर्यज॑मानस्य प॒शून्पा॑हि ।। १।।
वसो॑: प॒वित्र॑मसि॒ द्यौ॑रसि पृथि॒व्य॒सि मात॒रिश्व॑नो घ॒र्मो॒ऽसि वि॒श्वधा॑ असि |
पर॒मेण॒ धाम्ना॒ दृᳪह॑स्व॒ मा ह्वा॒र्मा ते॑ य॒ज्ञप॑तिर्ह्वार्षीत् ।। २ ।।
वसो॑: प॒वित्र॑मसि श॒तधा॑रं॒ वसो॑: प॒वित्र॑मसि स॒हस्र॑धारम् ।
दे॒वस्त्वा॑ सवि॒ता पु॑नातु॒ वसो॑: प॒वित्रे॑ण श॒तधा॑रेण सु॒प्वा काम॑धुक्षः ।। ३ ।।
सा वि॒श्वायु॒: सा वि॒श्वक॑र्मा॒ सा वि॒श्वधा॑याः ।
इन्द्र॑स्य त्वा भा॒गᳪ सोमे॒नात॑नच्मि॒ विष्णो॑ ह॒व्यᳪ र॑क्ष ।। ४ ।।
अग्ने॑ व्रतपते व्र॒तं च॑रिष्यामि॒ तच्छ॑केयं॒ तन्मे॑ राध्यताम् । इ॒दम॒हमनृ॑तात्स॒त्यमुपै॑मि ।। ५ ।।
कस्त्वा॑ युनक्ति॒ स त्वा॑ युनक्ति॒ कस्मै॑ त्वा युनक्ति॒ तस्मै॑ त्वा युनक्ति । कर्म॑णे वां॒ वेषा॑य वाम् ।। ६ ।।
प्रत्यु॑ष्ट॒ᳪ रक्ष॒: प्रत्यु॑ष्टा॒ अरा॑तयो॒ निष्ट॑प्त॒ᳪ रक्षो॒ निष्ट॑प्ता॒ अरा॑तयः । उ॒र्वन्तरि॑क्ष॒मन्वे॑मि ।। ७ ।।
धूर॑सि॒ धूर्व॒ धूर्व॑न्तं॒ धूर्व॒ तं यो॒ऽस्मान्धूर्व॑ति॒ तं धू॑र्व॒ यं व॒यं धूर्वा॑मः ।
दे॒वाना॑मसि॒ वह्नि॑तम॒ᳪ सस्नि॑तमं॒ पप्रि॑तमं॒ जुष्ट॑तमं देव॒हूत॑मम् ।। ८ ।।
विष्णु॑स्त्वा क्रमता¬मु॒रु वाता॒याप॑हत॒ᳪ रक्षो॒ यच्छ॑न्तां॒ पञ्च॑ ।। ९ ।।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
अ॒ग्नये॒ जुष्टं॑ गृह्णाम्य॒ग्नीषोमा॑भ्यां॒ जुष्टं॑ गृह्णामि ।। १० ।।
भू॒ताय॑ त्वा॒ नारा॑तये स्व॒रभि॒विख्ये॑षं॒ दृᳪह॑न्तां॒ दुर्या॑: पृथि॒व्यामु॒र्वन्तरि॑क्ष॒मन्वे॑मि पृथि॒व्यास्त्वा॒ नाभौ॑ सादया॒म्यदि॑त्या उ॒पस्थेऽग्ने॑ ह॒व्यᳪ र॑क्ष ।। ११ ।।
प॒वित्रे॑ स्थो वैष्ण॒व्यौ॒ सवि॒तुर्व॑: प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभि॑: ।
देवी॑रापो अग्रेगुवो अग्रेपु॒वोऽग्र॑ इ॒मम॒द्य य॒ज्ञं न॑य॒ताग्रे॑ य॒ज्ञप॑तिᳪ सु॒धातुं॑ य॒ज्ञप॑तिं देव॒युव॑म् ।। १२ ।।
यु॒ष्मा इन्द्रो॑ऽवृणीत वृत्र॒तूर्ये॑ यू॒यमिन्द्र॑मवृणीध्वं वृत्र॒तूर्ये॒ प्रोक्षि॑ता स्थ ।
अ॒ग्नये॑ त्वा॒ जुष्टं॒ प्रोक्षा॑म्य॒ग्नीषोमा॑भ्यां त्वा॒ जुष्टं॒ प्रोक्षा॑मि ।
दैव्या॑य॒ कर्म॑णे शुन्धध्वं देवय॒ज्यायै॒ यद्वोऽशु॑द्धाः पराज॒घ्नुरि॒दं व॒स्तच्छु॑न्धामि ।। १३ ।।
शर्मा॒स्यव॑धूत॒ᳪ रक्षोऽव॑धूता॒ अरा॑त॒यो ऽदि॑त्या॒स्त्वग॑सि॒ प्रति॒ त्वादि॑तिर्वेत्तु ।अद्रि॑रसि वानस्प॒त्यो ग्रावा॑ऽसि पृ॒थुबु॑ध्न॒: प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे॑त्तु ।। १४ ।।
अ॒ग्नेस्त॒नूर॑सि वा॒चो वि॒सर्ज॑नं दे॒ववी॑तये त्वा गृह्णामि बृ॒हद्ग्रा॑वाऽसि वानस्प॒त्यः स इ॒दं दे॒वेभ्यो॑ ह॒विः श॑मीष्व सु॒शमि॑ शमीष्व ।
हवि॑ष्कृ॒देहि॒ हवि॑ष्कृ॒देहि॑।। १५ ।।
कु॒क्कु॒टो॒ऽसि॒ मधु॑जिह्व॒ इष॒मूर्ज॒माव॑द॒ त्वया॑ व॒यᳪ सं॑धा॒तᳪ सं॑धातं जेष्म व॒र्षवृ॑द्धमसि॒ प्रति॑ त्वा व॒र्षवृ॑द्धं वेत्तु॒ परा॑पूत॒ᳪ रक्ष॒: परा॑पूता॒ अरा॑त॒यो ऽप॑हत॒ᳪ रक्षो॑ वा॒युर्वो॒ विवि॑नक्तु दे॒वो व॑: सवि॒ता हिर॑ण्यपाणि॒: प्रति॑गृभ्णा॒त्वच्छि॑द्रेण पा॒णिना॑ ।। १६ ।।
धृष्टि॑र॒स्यपा॑ऽग्ने अ॒ग्निमा॒मादं॑ जहि॒ निष्क्र॒व्याद॑ᳪ से॒धा दे॑व॒यजं॑ वह ।
ध्रु॒वम॑सि पृथि॒वीं दृ॑ᳪह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भातृ॑व्यस्य व॒धाय॑ ।। १७ ।।
अग्ने॒ ब्रह्म॑ गृभ्णीष्व ध॒रुण॑मस्य॒न्तरि॑क्षं दृᳪह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भ्रातृ॑व्यस्य ब॒धाय॑ ।
ध॒र्त्रम॑सि॒ दिवं॑ दृᳪह ब्रह्म॒वनि॑ त्वा क्षत्र॒वनि॑ सजात॒वन्युप॑दधामि॒ भ्रातृ॑व्यस्य ब॒धाय॑ ।
विश्वा॑भ्य॒स्त्वाशा॑भ्य॒ उप॑दधामि॒ चित॑ स्थोर्ध्व॒चितो॒ भृगू॑णा॒मङ्गि॑रसां॒ तप॑सा तप्यध्वम् ।। १८ ।।
शर्मा॒स्यव॑धूत॒ᳪ रक्षोऽव॑धूता॒ अरा॑त॒योऽदि॑त्या॒स्त्वग॑सि॒ प्रति॒ त्वाऽदि॑तिर्वेत्तु ।
धि॒षणा॑ऽसि पर्व॒ती प्रति॒ त्वाऽदि॑त्या॒स्त्वग्वे॑त्तु दि॒वस्क॑म्भ॒नीर॑सि धि॒षणा॑ऽसि पार्वते॒यी प्रति॑ त्वा पर्व॒॒ती वे॑त्तु ।। १९ ।।
धा॒न्य॒मसि धिनु॒हि दे॒वान् प्रा॒णाय॑ त्वो दा॒नाय॑ त्वा व्या॒नाय॑ त्वा । दी॒र्घामनु॒ प्रसि॑ति॒मायु॑षे धां दे॒वो व॑: सवि॒ता हिर॑ण्यपाणि॒: प्रति॑गृभ्णा॒त्वच्छि॑द्रेण पा॒णिना॒ चक्षु॑षे त्वा म॒हीनां॒ पयो॑ऽसि ।। २० ।।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
सं व॑पामि॒ समाप॒ ओष॑धीभि॒: समोष॑धयो॒ रसे॑न ।
सᳪ रे॒वती॒र्जग॑तीभिः पृच्यन्ता॒ᳪ सं मधु॑मती॒र्मधु॑मतीभिः पृच्यन्ताम् ।। २१ ।।
जन॑यत्यै त्वा॒ संयौ॑मी॒दम॒ग्नेरि॒दम॒ग्नीषोम॑योरि॒षे त्वा॑ घ॒र्मो॒ऽसि वि॒श्वायुरस्त्वा॑ सवि॒ता श्र॑पयतु॒ वर्षि॒ष्ठेऽधि॒ नाके॑ ।। २२ ।।
मा भे॒र्मा संवि॑क्था॒ अत॑मेरुर्य॒ज्ञोऽत॑मेरु॒र्यज॑मानस्य प्र॒जा भू॑यात् त्रि॒ताय॑ त्वा द्वि॒ताय॑ त्वैक॒ताय॑ त्वा।। २३ ।।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
आद॑देऽध्वर॒कृतं॑ दे॒वेभ्य॒ इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णः स॒हस्र॑भृष्टिः श॒तते॑जा वा॒युर॑सि ति॒ग्मते॑जा द्विष॒तो व॒धः ।। २४ ।।
पृथि॑वि देवयज॒न्योष॑ध्यास्ते॒ मूलं॒ मा हि॑ᳪसिषं व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्याᳪ श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क् ।। २५।।
अपा॒ररुं॑ पृथि॒व्यै दे॑व॒यज॑नाद्वध्यासं व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्या श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क् ।
अर॑रो॒ दिवं॒ मा प॑प्तो द्र॒प्सस्ते॒ द्यां मा स्क॑न् व्र॒जं ग॑च्छ गो॒ष्ठानं॒ वर्ष॑तु ते॒ द्यौर्ब॑धा॒न दे॑व सवितः पर॒मस्यां॑ पृथि॒व्याᳪ श॒तेन॒ पाशै॒र्योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मस्तमतो॒ मा मौ॑क् ।। २६ ।।
गा॒य॒त्रेण॑ त्वा॒ छन्द॑सा॒ परि॑गृह्णामि॒ त्रै॑ष्टुभेन त्वा॒ छन्द॑सा॒ परि॑गृह्णामि॒ जाग॑तेन त्वा॒ छन्द॑सा॒ परि॑गृह्णामि ।
सु॒क्ष्मा चासि॑ शि॒वा चा॑सि स्यो॒ना चासि॑ सु॒षदा॑ चा॒स्यूर्ज॑स्वती॒ चासि॒ पय॑स्वती च ।। २७ ।।
पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विरप्शिन्नुदा॒दाय॑ पृथि॒वीं जी॒वदा॑नुम् ।
यामैरयँश्च॒न्द्रम॑सि स्व॒धाभि॒स्तामु॒ धीरा॑सो अनु॒दिश्य॑ यजन्ते ।
प्रोक्ष॑णी॒रासा॑दय द्वि॑ष॒तो ब॒धो॒ऽसि ।। २८ ।।
प्रत्यु॑ष्ट॒ᳪ रक्ष॒: प्रत्यु॑ष्टा॒ अरा॑तयो निष्ट॑प्त॒ᳪ रक्षो॒ निष्ट॑प्ता॒ अरा॑तयः ।
अनि॑शितोऽसि सपत्न॒क्षिद्वा॒जिनं॑ त्वा वाजे॒ध्यायै॒ सम्मा॑र्ज्मि ।
प्रत्यु॑ष्ट॒ᳪ रक्ष॒: प्रत्यु॑ष्टा॒ अरा॑तयो॒ निष्ट॑प्त॒ᳪ रक्षो॒ निष्ट॑प्ता॒ अरा॑तयः ।
अनि॑शिताऽसि सपत्न॒क्षिद्वा॒जिनीं॑ त्वा वाजे॒ध्यायै॒ सम्मा॑र्ज्मि ।। २९ ।।
अदि॑त्यै॒ रास्ना॑सि विष्णो॑र्वे॒ष्पो॒ऽस्यू॒र्जे त्वा ऽद॑ब्धेन त्वा॒ चक्षु॒षाव॑पश्यामि ।
अ॒ग्नेर्जि॒ह्वासि॑ सु॒हूर्दे॒वेभ्यो॒ धाम्ने॑ धाम्ने मे भव॒ यजु॑षे यजुषे ।। ३० ।।
स॒वि॒तुस्त्वा॑ प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभि॑: ।
स॒वि॒तुर्व॑: प्रस॒व उत्पु॑ना॒म्यच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभि॑: ।
तेजो॑ऽसि शु॒क्रम॑स्य॒मृत॑मसि धाम॒ नामा॑सि प्रि॒यं दे॒वाना॒मना॑धृष्टं देव॒यज॑नमसि ।। ३१ ।।

शुक्लयजुर्वेद माध्यन्दिन शाखा द्वितीयोध्यायः

कृष्णो॑ऽस्याखरे॒ष्ठोऽग्नये॑ त्वा॒ जुष्टं॒ प्रोक्षा॑मि॒ वेदि॑रसि ब॒र्हिषे॑ त्वा॒ जुष्टां॒ प्रोक्षा॑मि ब॒र्हिर॑सि स्रु॒ग्भ्यस्त्वा॒ जुष्टं॒ प्रोक्षा॑मि ।। १ ।।
अदि॑त्यै॒ व्युन्द॑नमसि॒ विष्णो॑ स्तु॒पोऽस्यूर्ण॑म्म्रदसं त्वा स्तृणामि स्वास॒स्थां दे॒वेभ्यो॒ भुव॑पतये॒ स्वाहा॒
भुव॑नपतये॒ स्वाहा॑ भू॒तानां॒ पत॑ये॒ स्वाहा॑ ।। २ ।।
ग॒न्ध॒र्वस्त्वा॑ वि॒श्वाव॑सुः॒ परि॑दधातु॒ विश्व॒स्यारि॑ष्टयै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ड ई॑डि॒तः । इन्द्र॑स्य बा॒हुर॑सि॒ दक्षि॑णो॒ विश्व॒स्यारि॑ष्ट॒यै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ड ई॑डि॒तः। मि॒त्रावरु॑णौ त्वोत्तर॒तः परि॑धत्तां ध्रु॒वेण॒ धर्म॑णा विश्व॒स्यारि॑ष्ट॒यै॒ यज॑मानस्य परि॒धिर॑स्य॒ग्निरि॒ड ई॑डि॒तः ।। ३ ।।
वी॒तिहो॑त्रं त्वा कवे द्यु॒मन्त॒ᳪ समि॑धीमहि । अग्ने॑ बृ॒हन्त॑मध्व॒रे ।। ४ ।।
स॒मिद॑सि सूर्य॑स्त्वा पु॒रस्ता॑त् पातु॒ कस्या॑श्चिद॒भिश॑स्त्यै । सवि॒तुर्बा॒हू स्थ॒ ऊर्ण॑म्म्रदसं त्वा स्तृणामि स्वास॒स्थं दे॒वेभ्य॒ आ त्वा॒ वस॑वो रु॒द्रा आ॑दि॒त्याः स॑दन्तु ।। ५ ।।
घृ॒ताच्य॑सि जु॒हूर्नाम्ना॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒यᳪ सद॒ आसी॑द घृ॒ताच्य॑स्युप॒भृन्नाम्ना॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒यᳪ सद॒ आसी॑द घृ॒ताच्य॑सि ध्रु॒वा नाम्ना॒ सेदं प्रि॒येण॒ धाम्ना॑ प्रि॒यᳪ सद॒ आसी॑द प्रि॒येण॒ धाम्ना॑ प्रि॒यᳪ सद॒ आसी॑द । ध्रु॒वा अ॑सदन्नृ॒तस्य॒ योनौ॒ ता वि॑ष्णो पाहि पा॒हि य॒ज्ञं पा॒हि य॒ज्ञप॑तिं पा॒हि मां य॑ज्ञ॒न्य॒म्।। ६ ।।
अग्ने॑ वाजजि॒द्वाजं॑ त्वा सरि॒ष्यन्तं॑ वाज॒जित॒ᳪ सम्मा॑र्ज्मि । नमो॑ दे॒वेभ्य॑: स्व॒धा पि॒तृभ्य॑: सु॒यमे॑ मे भूयास्त॒म् ।। ७ ।।
अस्क॑न्नम॒द्य दे॒वेभ्य॒ आज्य॒ᳪ संभ्रि॑यास॒मङि्॑घ्रणा विष्णो॒ मा त्वाव॑क्रमिषं वसु॑मतीमग्ने ते छा॒यामुप॑स्थेषं॒ विष्णो॒ स्थान॑मसीत इन्द्रो॑ वी॒र्य॒मकृणोदू॒र्ध्वो॑ऽध्व॒र आस्था॑त् ।। ८ ।।
अग्ने॒ वेर्हो॒त्रं वेर्दू॒त्यमव॑तां॒ त्वां द्यावा॑पृथि॒वी अव॒ त्वं द्यावा॑पृथि॒वी स्वि॑ष्ट॒कृद्दे॒वेभ्य इन्द्र॒ आज्ये॑न ह॒विषा॑ भू॒त्स्वाहा॒ सं ज्योति॑षा॒ ज्योति॑: ।। ९ ।।
मयी॒दमिन्द्र॑ इन्द्रि॒यं द॑धात्व॒स्मान् रायो॑ म॒घवा॑नः सचन्ताम् । अ॒स्माक॑ᳪ सन्त्वा॒शिष॑: स॒त्या न॑: सन्त्वा॒शिष॒ उप॑हूता पृथि॒वी मा॒तोप॒ मां पृ॑थि॒वी मा॒ता ह्व॑यताम॒ग्निराग्नी॑ध्रा॒त्स्वाहा॑ ।। १० ।।
उप॑हूतो॒ द्यौष्पि॒तोप॒ मां द्यौ॑ष्पि॒ता ह्व॑यताम॒ग्निराग्नी॑ध्रा॒त्स्वाहा॑ । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । प्रति॑गृह्णाम्य॒ग्नेष्ट्वा॒स्ये॒न॒ प्राश्ना॑मि ।।११ ।।
ए॒तं ते॑ देव सवितर्य॒ज्ञं प्राहु॒र्बृह॒स्पत॑ये ब्र॒ह्मणे॑ । तेन॑ य॒ज्ञम॑व॒ तेन॑ य॒ज्ञप॑तिं॒ तेन॒ माम॑व ।। १२ ।।
मनो॑ जू॒तिर्जु॑षता॒माज्य॑स्य॒ बृह॒स्पति॑र्य॒ज्ञमि॒मं त॑नोत्वरि॑ष्टं य॒ज्ञᳪ समि॒मं द॑धातु । विश्वे॑ दे॒वास॑ इ॒ह मा॑दयन्ता॒मो३म्प्रति॑ष्ठ ।। १३।।
ए॒षा ते॑ अग्ने स॒मित्तया॒ वर्ध॑स्व॒ चा च॑ प्यायस्व । व॒र्धि॒षी॒महि॑ च व॒यमा च॑ प्यासिषीमहि ।
अग्ने॑ वाजजि॒द्वाजं॑ त्वा ससृ॒वाᳪसं॑ वाज॒जित॒ᳪ सम्मा॑र्ज्मि ।। १४।।
अ॒ग्नीषोम॑यो॒रुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि ।
अ॒ग्नीषोमौ॒ तमप॑नुदतां॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि ।
इ॒न्द्रा॒ग्न्योरुज्जि॑ति॒मनूज्जे॑षं॒ वाज॑स्य मा प्रस॒वेन॒ प्रोहा॑मि ।
इ॒न्द्रा॒ग्नी तमप॑नुदतां॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मो वाज॑स्यैनं प्रस॒वेनापो॑हामि ।। १५।।
वसु॑भ्यस्त्वा रु॒द्रेभ्य॑स्त्वा ऽऽदि॒त्येभ्य॑स्त्वा॒ संजा॑नाथां द्यावापृथिवी मि॒त्रावरु॑णौ त्वा॒ वृष्ट्या॑वताम् ।
व्यन्तु॒ वयो॒क्तᳪ रिहा॑णा म॒रुतां॒ पृषतीर्गच्छ व॒शा पृश्नि॑र्भू॒त्वा दिवं॑ गच्छ॒ ततो॑ नो॒ वृष्टि॒माव॑ह ।
च॒क्षु॒ष्पा अ॑ग्नेऽसि॒ चक्षु॑र्मे पाहि ।। १६।।
यं प॑रि॒धिं प॒र्यध॑त्था॒ अग्ने॑ देव प॒णिभि॑र्गु॒ह्यमा॑नः ।
तं त॑ ए॒तमनु॒ जोषं॑ भराम्ये॒ष नेत्त्वद॑पचे॒तया॑ता अ॒ग्नेः प्रि॒यं पाथोऽपी॑तम् ।। १७।।
स॒k स्र॒वभा॑गा स्थे॒षा बृ॒हन्त॑: प्रस्तरे॒ष्ठाः प॑रि॒धेया॑श्च दे॒वाः ।
इ॒मां वाच॑म॒भि विश्वे॑ गृ॒णन्त॑ आ॒सद्या॒स्मिन् बर्हिषि॑ मादयध्व॒ ᳪ स्वाहा॒ वाट् ।। १८।।
घृ॒ताची॑ स्थो॒ धुर्यौ॑ पातᳪ सु॒म्ने स्थ॑: सु॒म्ने मा॑ धत्तम् ।
यज्ञ॒ नम॑श्च त॒ उप॑ च य॒ज्ञस्य॑ शि॒वे संति॑ष्ठस्व॒ स्विष्टे मे॒ संति॑ष्ठस्व ।। १९ ।।
अग्ने॑ऽदब्धायोऽशीतम पा॒हि मा॑ दि॒द्योः पा॒हि प्रसि॑त्यै पा॒हि दुरि॑ष्टयै पा॒हि दु॑रद्म॒न्या अ॑वि॒षं न॑: पि॒तुं कृ॑णु
सु॒षदा॒ योनौ॒ स्वाहा॒ वाड॒ग्नये॑ संवे॒शप॑तये॒ स्वाहा॒ सर॑स्वत्यै यशोभ॒गिन्यै॒ स्वाहा॑ ।। २० ।।
वे॒दो॒ऽसि॒ येन॒ त्वं दे॑व वेद दे॒वेभ्यो॑ वे॒दोऽभ॑व॒स्तेन॒ मह्यं॑ वे॒दो भू॑याः ।
देवा॑ गातुविदो गा॒तुं वि॒त्त्वा गा॒तुमि॑त ।
मन॑सस्पत इ॒मं दे॑व य॒ज्ञᳪ स्वाहा॒ वाते॑ धाः ।। २१ ।।
संब॒र्हिर॑ङ्क्ताᳪ ह॒विषा॑ घृ॒तेन॒ समा॑दि॒त्यैर्वसु॑भि॒: सम्म॒रुद्भि॑: ।
समिन्द्रो॑ वि॒श्वदे॑वेभिरङ्क्तां दि॒व्यं नभो॑ गच्छतु॒ यत् स्वाहा॑ ।। २२ ।।
कस्त्वा॒ विमु॑ञ्चति॒ स त्वा॒ विमु॑ञ्चति॒ कस्मै॑ त्वा॒ विमु॑ञ्चति॒ तस्मै॑ त्वा॒ विमु॑ञ्चति ।
पोषा॑य॒ रक्ष॑सां भा॒गो॒ऽसि ।। २३ ।।
सं वर्च॑सा॒ पय॑सा॒ सं त॒नूभि॒रग॑न्महि॒ मन॑सा॒ सᳪ शि॒वेन॑ ।
त्वष्टा॑ सु॒दत्रो॒ विद॑धातु॒ रायोऽनु॑मार्ष्टु त॒न्वो यद्विलि॑ष्टम् ।। २४ ।।
दि॒वि विष्णु॒र्व्य॒क्रᳪस्त॒ जाग॑तेन॒ छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मोऽन्तरि॑क्षे॒ विष्णु॒र्व्य॒क्रᳪस्त॒ त्रैष्टु॑भेन॒ छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मः पृ॑थि॒व्यां विष्णु॒र्व्य॒क्रᳪस्त गाय॒त्रेण॒ छन्द॑सा॒ ततो॒ निर्भ॑क्तो॒ योऽस्मान्द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्मोऽस्मादन्ना॑ द॒स्यै प्र॑ति॒ष्ठाया॒ अग॑न्म॒ स्वः सं ज्योति॑षाभूम ।। २५ ।।
स्व॒यं॒भूर॑सि॒ श्रेष्ठो॑ र॒श्मिर्व॑र्चो॒दा अ॑सि॒ वर्चो॑ मे देहि । सूर्य॑स्या॒वृत॒मन्वाव॑र्ते ।। २६ ।।
अग्ने॑ गृहपते सुगृहप॒तिस्त्वया॑ग्ने॒ऽहं गृ॒हप॑तिना भूयासᳪ सुगृहप॒तिस्त्वं मया॑ऽग्ने गृ॒हप॑तिना भूयाः ।
अ॒स्थू॒रि णौ॒ गार्ह॑पत्यानि सन्तु श॒तᳪ हिमा॒: सूर्य॑स्या॒वृत॒मन्वाव॑र्ते ।। २७ ।।
अग्ने॑ व्रतपते व्र॒तम॑चारिषं॒ तद॑शकं॒ तन्मे॑ऽराधी॒दम॒हं य ए॒वास्मि॒ सो॒ऽस्मि ।। २८ ।।
अ॒ग्नये॑ कव्य॒वाह॑नाय॒ स्वाहा॒ सोमा॑य पितृ॒मते॒ स्वाहा॑ । अप॑हता॒ असु॑रा॒ रक्षाँ॑सि वेदि॒षद॑: ।। २९ ।।
ये रू॒पाणि॑ प्रतिमु॒ञ्चमा॑ना॒ असु॑राः॒ सन्त॑: स्व॒धया॒ चर॑न्ति ।
प॒रा॒पुरो॑ नि॒पुरो॒ ये भर॑न्त्य॒ग्निष्टाल्लो॒कात्प्रणु॑दात्य॒स्मात् ।। ३० ।।
अत्र॑ पितरो मादयध्वं यथाभा॒गमावृ॑षायध्वम् । अमी॑मदन्त पि॒तरो॑ यथाभा॒गमावृ॑षायिषत ।। ३१।।
नमो॑ वः पितरो॒ रसा॑य॒ नमो॑ वः पितर॒: शोषा॑य॒ नमो॑ वः पितरो जी॒वाय॒ नमो॑ वः पितरः स्व॒धायै॒ नमो॑ वः पितरो घो॒राय॒ नमो॑ वः पितरो म॒न्यवे॒ नमो॑ वः पितर॒: पित॑रो॒ नमो॑ वो गृ॒हान्न॑: पितरो दत्त स॒तो व॑: पितरो देष्मै॒तद्व॑: पितरो॒ वास॒ आध॑त्त ।। ३२।।
आध॑त्त पितरो॒ गर्भं॑ कुमा॒रं पुष्क॑रस्रजम् । यथे॒ह पुरु॒षोऽस॑त् ।। ३३।।
ऊर्जं॒ वह॑न्तीर॒मृतं॑ घृ॒तं पय॑: की॒लालं॑ परि॒स्रुत॑म् । स्व॒धा स्थ॑ त॒र्पय॑त मे पि॒तॄन् ।। ३४।।

शुक्लयजुर्वेद संहिता तृतीयोध्यायः

हरि: ॐ स॒मिधा॒ऽग्निं दु॑वस्यत घृतैर्बो॑धय॒ताति॑थिम् । आस्मि॑न् ह॒व्या जु॑होतन ।। १ ।।
सुस॑मिद्धाय शो॒चिषे॑ घृ॒तं ती॒व्रं जु॑होतन । अ॒ग्नये॑ जा॒तवे॑दसे ।। २ ।।
तं त्वा॑ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्धयामसि । बृ॒हच्छो॑चा यविष्ठ्य।। ३ ।।
उप॑ त्वाऽग्ने ह॒विष्म॑तीर्घृ॒ताची॑र्यन्तु हर्यत । जु॒षस्व॑ स॒मिधो॒ मम॑ ।। ४ ।।
भूर्भुव॒: स्वर्द्यौरि॑व भू॒म्ना पृ॑थि॒वीव॑ वरि॒म्णा । तस्या॑स्ते पृथिवि देवयजनि पृ॒ष्ठेऽग्निम॑न्ना॒दम॒न्नाद्या॒याद॑धे ।। ५ ।।
आयं गौः पृश्नि॑रक्रमी॒दस॑दन् मा॒तरं॑ पु॒रः । पि॒तरं॑ च प्र॒यन्त्स्व॑: ।। ६ ।।
अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णादपा॑न॒ती । व्य॑ख्यन् महि॒षो दिव॑म् ।। ७ ।।
त्रि॒jशद्धाम॒ वि रा॑जति॒ वाक् प॑त॒ङ्गाय॑ धीयते । प्रति॒ वस्तो॒रह॒ द्युभि॑: ।। ८ ।।
अ॒ग्निर्ज्योति॒र्ज्योति॑र॒ग्निः स्वाहा॑ । सूर्यो॒ ज्योति॒र्ज्योति॒: सूर्य॒: स्वाहा॑ ।
अ॒ग्निर्वर्चो॒ ज्योति॒र्वर्चः॒ स्वाहा॑ । सूर्यो॒ वर्चो॒ ज्योति॒र्वर्चः॒ स्वाहा॑ । ज्योति॒: सूर्य॒: सूर्यो॒ ज्योति॒: स्वाहा॑।। ९ ।।
स॒जूर्दे॒वेन॑ सवि॒त्रा स॒जू रात्र्येन्द्र॑वत्या । जु॑षा॒णो अ॒ग्निर्वे॑तु॒ स्वाहा॑ ।
स॒जूर्दे॒वेन॑ सवि॒त्रा स॒जूरु॒षसेन्द्र॑वत्या ।जु॑षा॒णः सूर्यो॑ वेतु॒ स्वाहा॑ ।। १० ।।
उ॒प॒प्र॒यन्तो॑ अध्व॒रं मन्त्रं॑ वोचेमा॒ग्नये॑ । आ॒रे अ॒स्मे च॑ शृण्व॒ते ।। ११ ।।
अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पति॑: पृथि॒व्या अ॒यम् । अ॒पाᳪरेता॑ᳪसि जिन्वति ।। १२ ।।
उ॒भा वा॑मिन्द्राग्नी आहु॒वध्या॑ उ॒भा राध॑सः स॒ह मा॑द॒यध्यै॑ ।
उ॒भा दा॒तारा॑वि॒षाᳪर॑यी॒णामु॒भा वाज॑स्य सा॒तये॑ हुवे वाम् ।। १३ ।।
अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः । तं जा॒नन्न॑ग्न॒ आरो॒हाथा॑ नो वर्धया र॒यिम् ।। १४ ।।
अ॒यमि॒ह प्र॑थ॒मो धा॑यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्य॑: ।
यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने॑षु चि॒त्रं वि॒भ्वं॒ वि॒शेवि॑शे ।। १५ ।।
अ॒स्य प्र॒त्नामनु॒ द्युत॑ᳪशु॒क्रं दु॑दुह्रे॒ अह्र॑यः । पय॑: सहस्र॒सामृषि॑म् ।। १६ ।।
त॑नू॒पा अ॑ग्नेऽसि त॒न्वं॒ मे पाह्यायु॒र्दा अ॑ग्ने॒ स्यायु॑र्मे देहि व॑र्चो॒दा अ॑ग्नेऽसि॒ वर्चो॑ मे देहि ।
अग्ने॒ यन्मे॑ त॒न्वा॒ ऊ॒नं तन्म॒ आपृ॑ण ।। १७ ।।
इन्धा॑नास्त्वा श॒तᳪहिमा॑ द्यु॒मन्त॒ᳪसमि॑धीमहि । वय॑स्वन्तो वय॒स्कृत॒ सह॑स्वन्तः सह॒स्कृत॑म् ।
अग्ने॑ सपत्न॒दम्भ॑न॒मद॑ब्धासो॒ अदा॑भ्यम् । चित्रा॑वसो स्व॒स्ति ते॑ पा॒रम॑शीय ।। १८ ।।
सं त्वम॑ग्ने॒ सूर्य॑स्य॒ वर्च॑सागथा॒: समृषी॑णाᳪ स्तु॒तेन॑ ।
सं प्रि॒येण॒ धाम्ना॒ सम॒हमायु॑षा॒ सं वर्च॑सा॒ सं प्र॒जया॒ सᳪ रा॒यस्पोषे॑ण ग्मिषीय ।। १९ ।।
अन्ध॒ स्थान्धो॑ वो भक्षीय॒ मह॑ स्थ॒ महो॑ वो भक्षी॒योर्ज॒ स्थोर्जं॑ वो भक्षीय रा॒यस्पोष॑ स्थ रा॒यस्पोषं॑ वो भक्षीय ।। २० ।।
रेव॑ती॒ रम॑ध्वम॒स्मिन्योना॑व॒स्मिन् गो॒ष्ठेऽस्मिंल्लो॒के॒ऽस्मिन्क्षये॑ । इहै॒व स्त॒ माप॑गात ।। २१ ।।
स॒ᳪहि॒तासि॑ विश्वरू॒प्यू॒र्जा मावि॑श गौप॒त्येन॑ । उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्द्धि॒या व॒यम् ।
नमो॒ भर॑न्त॒ एम॑सि ।। २२ ।।
राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम् । वर्ध॑मान॒ᳪ स्वे दमे॑ ।। २३ ।।
स न॑: पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व । सच॑स्वा नः स्व॒स्तये॑ ।। २४ ।।
अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्य॒: ।
वसु॑र॒ग्निर्वसुश्र॑वा॒ अच्छा॑ नक्षि द्यु॒मत्त॑मᳪ र॒यिं दा॑:।। २५ ।।
तं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः ।
स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ अधाय॒तः सम॑स्मात् ।। २६ ।।
इड॒ एह्यदि॑त॒ एहि॑ काम्या॒ एत॑ । मयि॑ वः काम॒धर॑णं भूयात् ।। २७ ।।
सो॒मान॒ᳪ स्वर॑णं कृणु॒हि ब्र॑ह्मणस्पते । क॒क्षीव॑न्तं॒ य औ॑शि॒जः ।। २८ ।।
यो रे॒वान्यो अ॑मीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्द्ध॑नः । स न॑: सिषक्तु॒ यस्तु॒रः ।। २९ ।।
मा न॒: शᳪसो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ मर्त्य॑स्य । रक्षा॑ णो ब्रह्मणस्पते ।। ३० ।।
महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः । दु॑रा॒धर्षं॒ वरु॑णस्य ।। ३१ ।।
न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑ । ईशे॑ रि॒पुर॒घश॑ᳪसः ।। ३२ ।।
ते हि पु॒त्रासो॒ अदि॑तेः॒ प्र जी॒वसे॒ मर्त्या॑य । ज्योति॒र्यच्छ॒न्त्यज॑स्रम् ।। ३३ ।।
क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे॑ । उ॒पोपेन्नु म॑घव॒न् भूय॒ इन्नु ते॒ दानं॑ दे॒वस्य॑ पृच्यते ।। ३४ ।।
तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो न॑: प्रचो॒दया॑त् ।। ३५ ।।
परि॑ ते दू॒डभो॒ रथो॒ऽस्माँ२ अ॑श्नोतु वि॒श्वत॑: । येन॒ रक्ष॑सि दा॒शुष॑:।। ३६ ।।
भूर्भुव॒: स्व॒: सुप्र॒जाः प्र॒जाभि॑: स्याᳪ सु॒वीरो॑ वी॒रैः सु॒पोष॒: पोषै॑: ।
नर्य॑ प्र॒जां मे॑ पाहि शᳪस्य॑ प॒शून्मे॑ पा॒ह्यथ॑र्य पि॒तुं मे॑ पाहि ।। ३७ ।।
आ ग॑न्म वि॒श्ववे॑दसम॒स्मभ्यं॑ वसु॒वित्त॑मम् । अग्ने॑ सम्राड॒भि द्यु॒म्नम॒भि सह॒ आ य॑च्छस्व ।। ३८ ।।
अ॒यम॒ग्निर्गृ॒हप॑ति॒र्गार्ह॑पत्यः प्र॒जाया॑ वसु॒वित्त॑मः । अग्ने॑ गृहपते॒ऽभि द्यु॒म्नम॒भि सह॒ आ य॑च्छस्व ।। ३९ ।।
अ॒यम॒ग्निः पु॑री॒ष्यो॒ रयि॒मान् पु॑ष्टि॒वर्ध॑नः । अग्ने॑ पुरीष्या॒भि द्यु॒म्नम॒भि सह॒ आ य॑च्छस्व ।। ४० ।।
गृहा॒ मा बि॑भीत॒ मा वे॑पध्व॒मूर्जं॑ बिभ्रत॒ एम॑सि । ऊर्जं॒ बिभ्र॑द्वः सु॒मना॑: सुमे॒धा गृ॒हानैमि॒ मन॑सा॒ मोद॑मानः ।। ४१ ।।
येषा॑म॒ध्येति॑ प्र॒वस॒न्येषु॑ सौमन॒सो ब॒हुः । गृ॒हानुप॑ह्वयामहे॒ ते नो॑ जानन्तु जान॒तः ।। ४२ ।।
उप॑हूता इ॒ह गाव॒ उप॑हूता अजा॒वय॑: । अथो॒ अन्न॑स्य की॒लाल॒ उप॑हूतो गृ॒हेषु॑ नः । क्षेमा॑य व॒: शान्त्यै॒ प्रप॑द्ये शि॒वᳪ श॒ग्मᳪ शं॒यो: शं॒यो:।। ४३ ।।
प्र॒घा॒सिनो॑ हवामहे म॒रुत॑श्च रि॒शाद॑सः । क॒र॒म्भेण॑ स॒जोष॑सः ।। ४४ ।।
यद्ग्रामे॒ यदर॑ण्ये॒ यत्स॒भायां॒ यदि॑न्द्रि॑ये । यदेन॑श्चकृ॒मा व॒यमि॒दं तदव॑यजामहे॒ स्वाहा॑ ।। ४५ ।।
मो षू ण॑ इ॒न्द्रात्र॑ पृ॒त्सु दे॒वैरस्ति॒ हि ष्मा॑ ते शुष्मिन्नव॒याः ।
म॒हश्चि॒द्यस्य॑ मी॒ढुषो॑ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ।। ४६ ।।
अक्र॒न् कर्म॑ कर्म॒कृत॑: स॒ह वा॒चा म॑यो॒भुवा॑ । दे॒वेभ्य॒: कर्म॑ कृ॒त्वास्तं॒ प्रेत॑ सचाभुवः ।। ४७ ।।
अव॑भृथ निचुम्पुण निचे॒रुर॑सि निचुम्पु॒णः ।
अव॑ दे॒वैर्दे॒वकृ॑त॒मेनो॑ऽयासिष॒मव॒ मर्त्यै॒र्मर्त्य॑कृतं पुरु॒राव्णो॑ देव रि॒षस्पा॑हि ।। ४८ ।।
पू॒र्णा द॑र्वि॒ परा॑ पत॒ सुपू॑र्णा॒ पुन॒रा प॑त । व॒स्नेव॒ विक्री॑णावहा॒ इष॒मूर्ज॑ᳪ शतक्रतो ।। ४९ ।।
दे॒हि मे॒ ददा॑मि ते॒ नि मे॑ धेहि॒ नि त दधे । नि॒हारं॑ च॒ हरा॑सि मे नि॒हारं॒ नि ह॑राणि ते॒ स्वाहा॑ ।। ५० ।।
अक्ष॒न्नमी॑मदन्त॒ ह्यव॑ प्रि॒या अ॑धूषत ।
अस्तो॑षत॒ स्वभा॑नवो॒ विप्रा॒ निवि॑ष्ठया म॒ती योजा॒ न्वि॒न्द्र ते॒ हरी॑ ।। ५१ ।।
सु॒स॒न्दृशं॑ त्वा व॒यं मघ॑वन्वन्दिषी॒महि॑ ।
प्र नू॒नं पू॒र्णब॑न्धुर स्तु॒तो या॑सि॒ वशाँ॒२ अनु॒ योजा॒ न्वि॒न्द्र ते॒ हरी॑ ।। ५२ ।।
मनो॒ न्वाह्वा॑महे नाराश॒jसेन॒ स्तोमे॑न । पि॑तॄ॒णां च॒ मन्म॑भिः ।। ५३ ।।
आ न॑ एतु॒ मन॒: पुन॒: क्रत्वे॒ दक्षा॑य जी॒वसे॑ । ज्योक् च॒ सूर्यं॑ दृ॒शे ।। ५४ ।।
पुन॑र्नः पितरो॒ मनो॒ ददा॑तु दैव्यो॒ जन॑: । जी॒वं व्रात॑ᳪ सचेमहि ।। ५५ ।।
व॒यᳪ सो॑म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः । प्र॒जाव॑न्तः सचेमहि ।। ५६ ।।
ए॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राम्बि॑कया॒ तं जु॑षस्व॒ स्वाहै॒ष ते॑ रुद्र भा॒ग आ॒खुस्ते॑ प॒शुः ।। ५७ ।।
अव॑ रु॒द्रम॑दीम॒ह्यव॑ दे॒वं त्र्य॑म्बकम् । यथा॑ नो॒ वस्य॑स॒स्कर॒द्यथा॑ न॒: श्रेय॑स॒स्कर॒द्यथा॑ नो व्यवसा॒यया॑त् ।। ५८ ।।
भे॒ष॒जम॑सि भेष॒जं गवेऽश्वा॑य॒ पुरु॑षाय भेष॒जम् । सु॒खं मे॒षाय॑ मेष्यै ।। ५९ ।।
त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता॑त् ।
त्र्य॑म्बकं यजामहे सुग॒न्धिं प॑ति॒वेद॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नादि॒तो मु॑क्षीय॒ मामुत॑: ।। ६० ।।
ए॒तत्ते॑ रुद्राव॒सं तेन॑ प॒रो मूज॑व॒तोऽती॑हि ।
अव॑ततधन्वा॒ पिना॑कावस॒: कृत्ति॑वासा॒ अहि॑ᳪसन्नः शि॒वोऽती॑हि ।। ६१ ।।
त्र्या॑यु॒षं ज॒मद॑ग्नेः क॒श्यप॑स्य त्र्यायु॒षम् । यद्दे॒वेषु॑ त्र्यायु॒षं तन्नो॑ अस्तु त्र्यायु॒षम् ।। ६२ ।।
शि॒वो नामा॑सि॒ स्वधि॑तिस्ते पि॒ता नम॑स्ते अस्तु॒ मा मा॑ हिᳪसीः ।
नि व॑र्तयाम्यायु॑षे॒ऽन्नाद्या॑य॒ प्रजन॑नाय रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ।। ६३ ।

शुक्लयजुर्वेद माध्यन्दिन संहिता चतुर्थोध्यायः

हरि: ॐ एदम॑गन्म देव॒यज॑नं पृथि॒व्या यत्र॑ दे॒वासो॒ अजु॑षन्त॒ विश्वे॑ । ऋ॒क्सा॒माभ्या॑ᳪ सं॒तर॑न्तो॒ यजु॑र्भी रा॒यस्पोषे॑ण॒ समि॒षा म॑देम । इ॒मा आप॒: शमु॑ मे सन्तु दे॒वी रोष॑धे॒ त्राय॑स्व॒ स्वधि॑ते मैन॑ᳪ हिᳪसीः ।। १ ।।
आपो॑ अ॒स्मान्मा॒तर॑: शुन्धयन्तु घृ॒तेन॑ नो घृत॒प्व॒: पुनन्तु ।
विश्व॒j हि रि॒प्रं प्र॒वह॑न्ति दे॒वीरुदिदा॑भ्य॒: शुचि॒रा पू॒त ए॑मि ।
दी॒क्षा॒त॒पसो॑स्त॒नूर॑सि॒ तां त्वा॑ शि॒वाᳪ श॒ग्मां परि॑ दधे भ॒द्रं वर्णं॒ पुष्य॑न् ।। २ ।।
म॒हीनां॒ पयो॑ऽसि वर्चो॒दा अ॑सि॒ वर्चो॑ मे देहि । वृ॒त्रस्या॑सि क॒नीन॑कश्चक्षु॒र्दा अ॑सि॒ चक्षु॑र्मे देहि ।। ३।।
चि॒त्पति॑र्मा पुनातु वा॒क्पति॑र्मा पुनातु दे॒वो मा॑ सवि॒ता पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ सूर्य॑स्य र॒श्मिभि॑: ।
तस्य॑ ते पवित्रपते प॒वित्र॑पूतस्य॒ यत्का॑मः पु॒ने तच्छ॑केयम् ।। ४ ।।
आ वो॑ देवास ईमहे वा॒मं प्र॑य॒त्य॒ध्व॒रे । आ वो॑ देवास आ॒शिषो॑ य॒ज्ञिया॑सो हवामहे ।। ५ ।।
स्वाहा॑ य॒ज्ञं मन॑स॒: स्वाहो॒रोर॒न्तरि॑क्षा॒त्स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒j स्वाहा॒ वाता॒दार॑भे॒ स्वाहा॑ ।। ६ ।।
आकू॑त्यै प्र॒युजे॒ऽग्नये॒ स्वाहा॑ मे॒धायै॒ मन॑से॒ऽग्नये॒ स्वाहा॑ दी॒क्षायै॒ तप॑से॒ऽग्नये॒ स्वाहा॑ सर॑स्वत्यै पू॒ष्णेऽग्नये॒ स्वाहा॑ ।आपो॑ देवीर्बृहतीर्विश्वशम्भुवो॒ द्यावा॑पृथिवी॒ उरो॑ अन्तरिक्ष । बृह॒स्पत॑ये ह॒विषा॑ विधेम॒ स्वाहा॑ ।। ७ ।।
विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम् । विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॒ स्वाहा॑ ।। ८ ।।
ऋ॑क्सा॒मयोः॒ शिल्पे॑ स्थ॒स्ते वा॒मार॑भे॒ ते मा॑ पात॒मास्य य॒ज्ञस्यो॒दृच॑: ।
शर्मा॑सि॒ शर्म॑ मे यच्छ॒ नम॑स्ते अस्तु॒ मा मा॑ हिᳪसीः ।। ९ ।।
ऊर्ग॑स्याङ्गिर॒स्यूर्ण॑म्म्रदा॒ ऊर्जं॒ मयि॑ धेहि ।
सोम॑स्य नी॒विर॑सि॒ विष्णो॒: शर्मा॑सि॒ शर्म॒ यज॑मानस्येन्द्र॑स्य॒ योनि॑रसि सु॑स॒स्याः कृ॒षीस्कृ॑धि ।
उच्छ्र॑यस्व वनस्पत ऊ॒र्ध्वो मा॑ पा॒ह्यᳪह॑स॒ आस्य य॒ज्ञस्यो॒द्रच॑: ।। १० ।।
व्र॒तं कृ॑णुता॒ग्निर्ब्रह्मा॒ग्निर्य॒ज्ञो वन॒स्पति॑र्य॒ज्ञिय॑: ।
दैवीं॒ धियं॑ मनामहे सुमृडी॒काम॒भिष्ट॑ये वर्चो॒धां य॒ज्ञवा॑हसᳪ सुती॒र्था नो॑ अस॒द्वशे॑ ।
ये दे॒वा मनो॑जाता मनो॒युजो॒ दक्ष॑क्रतव॒स्ते नो॑ऽवन्तु॒ ते न॑: पान्तु॒ तेभ्य॒: स्वाहा॑ ।। ११ ।।
श्वा॒त्राः पी॒ता भ॑वत यू॒यमा॑पो अ॒स्माक॑म॒न्तरु॒दरे॑ सु॒शेवा॑:।
ता अ॒स्मभ्य॑मय॒क्ष्मा अ॑नमी॒वा अना॑गस॒: स्वद॑न्तु दे॒वीर॒मृता॑ ऋता॒वृध॑: ।। १२ ।।
इ॒यं ते॑ य॒ज्ञिया॑ त॒नूर॒पो मु॑ञ्चामि॒ न प्र॒जाम् । अ॒jहो॒मुचः॒ स्वाहा॑कृताः पृथि॒वीमा वि॑शत
पृथि॒व्या सम्भ॑व ।। १३ ।।
अग्ने॒ त्वᳪ सु जा॑गृहि व॒यᳪ सु म॑न्दिषीमहि । रक्षा॑ णो॒ अप्र॑युच्छन् प्र॒बुधे॑ न॒: पुन॑स्कृधि ।। १४ ।।
पुन॒र्मन॒: पुन॒रायु॑र्म॒ आऽग॒न् पुन॑: प्रा॒णः पुन॑रा॒त्मा म॒ आऽग॒न् पुन॒श्चक्षु॒: पुन॒: श्रोत्रं॑ म॒ आऽग॑न् ।
वै॒श्वा॒न॒रो अद॑ब्धस्तनू॒पा अ॒ग्निर्न॑: पातु दुरि॒ताद॑व॒द्यात् ।। १५ ।।
त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा ।त्वं य॒ज्ञेष्वीड्य॑: । रास्वेय॑त्सो॒मा भूयो॑ भर दे॒वो न॑: सवि॒ता वसो॑र्दा॒ता वस्व॑दात् ।। १६ ।।
ए॒षा ते॑ शुक्र त॒नूरे॒तद्वर्च॒स्तया॒ सम्भ॑व॒ भ्राजं॑ गच्छ । जूर॑सि धृ॒ता मन॑सा॒ जुष्टा॒ विष्ण॑वे ।। १७ ।।
तस्या॑स्ते स॒त्यस॑वसः प्रस॒वे त॒न्वो॒ य॒न्त्रम॑शीय॒ स्वाहा॑ । शु॒क्रम॑सि च॒न्द्रम॑स्य॒मृत॑मसि वैश्वदे॒वम॑सि ।। १८ ।।
चिद॑सि म॒नासि॒ धीर॑सि॒ दक्षि॑णासि क्ष॒त्रिया॑सि य॒ज्ञिया॒स्यदि॑तिरस्युभयतःशी॒र्ष्णी ।
सा न॒: सुप्रा॑ची॒ सुप्र॑तीच्येधि मि॒त्रस्त्वा॑ प॒दि ब॑ध्नीतां पू॒षाऽध्व॑नस्पा॒त्विन्द्रा॒याध्य॑क्षाय ।। १९ ।।
अनु॑ त्वा मा॒ता म॑न्यता॒मनु॑ पि॒ताऽनु॒ भ्राता॒ सग॒र्भ्योऽनु॒ सखा॒ सयू॑थ्यः ।
सा दे॑वि दे॒वमच्छे॒हीन्द्रा॑य॒ सोम॑ᳪ रु॒द्रस्त्वा व॑र्त्तयतु स्व॒स्ति सोम॑सखा॒ पुन॒रेहि॑ ।। २० ।।
वस्व्य॒स्यदि॑तिरस्यादि॒त्यासि॑ रु॒द्रासि॑ च॒न्द्रासि॑ । बृह॒स्पति॑ष्ट्वा सु॒म्ने र॑म्णातु रु॒द्रो वसु॑भि॒रा च॑के ।। २१ ।।
अदि॑त्यास्त्वा मू॒र्धन्नाजि॑घर्मि देव॒यज॑ने पृथि॒व्या इडा॑यास्प॒दमा॑सि घृ॒तव॒त् स्वाहा॑ ।
अ॒स्मे र॑मस्वा॒स्मे ते॒ बन्धु॒स्त्वे रा यो॒ मे रायो॒ मा व॒यᳪ रा॒यस्पोषे॑ण॒ वियौ॑ष्म॒ तोतो॒ राय॑: ।। २२ ।।
सम॑ख्ये दे॒व्या धि॒या सं दक्षि॑णयो॒रुच॑क्षसा । मा म॒ आयु॒: प्रमो॑षी॒र्मो अ॒हं तव॑ ।
वी॒रं वि॑देय॒ तव॑ देवि सं॒दृशि॑ ।। २३ ।।
ए॒ष ते॑ गाय॒त्रो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते त्रैष्टु॑भो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते॒ जाग॑तो भा॒ग इति॑ मे॒ सोमा॑य ब्रूताच्छन्दोना॒माना॒j साम्रा॑ज्यं ग॒च्छेति॑ मे॒ सोमा॑य ब्रूतादास्मा॒को॒ऽसि शु॒क्रस्ते॒ ग्रह्यो॑ वि॒चित॑स्त्वा॒ वि चि॑न्वन्तु ।।२४ ।।
अ॒भि त्यं दे॒वᳪ स॑वि॒तार॑मो॒ण्यो॒: क॒विक्र॑तु॒मर्चा॑मि स॒त्यस॑वᳪ रत्न॒धाम॒भि प्रि॒यं म॒तिं क॒विम् । ऊ॒र्ध्वा यस्या॒मति॒र्भा अदि॑द्युत॒त्सवी॑मनि॒ हिर॑ण्यपाणिरमिमीत सु॒क्रतु॑: कृ॒पा स्व॑: । प्र॒जाभ्य॑स्त्वा प्र॒जास्त्वा॑ ऽनु॒प्राण॑न्तु प्र॒जास्त्वम॑नु॒प्राणि॑हि ।। २५ ।।
शु॒क्रं त्वा॑ शु॒क्रेण॑ क्रीणामि च॒न्द्रं च॒न्द्रेणा॒मृत॑म॒मृते॑न । स॒ग्मे ते॒ गोर॒स्मे ते॑ च॒न्द्राणि॑ तप॑सस्त॒नूर॑सि प्र॒जाप॑ते॒र्वर्ण॑: पर॒मेण॑ क्रीयसे सहस्रपो॒षं पु॑षेयम् ।। २६ ।।
मि॒त्रो न॒ एहि॒ सुमि॑त्रध॒ इन्द्र॑स्यो॒रुमा वि॑श॒ दक्षि॑णमु॒शन्नु॒शन्त॑ᳪ स्यो॒नः स्यो॒नम् । स्वान॒ भ्राजा॑ङ्घारे॒ बम्भा॑रे॒ हस्त॒ सुह॑स्त॒ कृशा॑नवे॒ते व॑: सोम॒क्रय॑णा॒स्तान्र॑क्षध्वं॒ मा वो॑ दभन् ।। २७ ।।
परि॑ माग्ने॒ दुश्च॑रिताद्बाध॒स्वा मा॒ सुच॑रिते भज । उदायु॑षा स्वा॒युषोद॑स्थाम॒मृताँ॒२ अनु॑ ।। २८ ।।
प्रति॒ पन्था॑मपद्महि स्वस्ति॒गाम॑ने॒हस॑म् । येन॒ विश्वाः॒ परि॒ द्विषो॑ वृ॒णक्ति॑ वि॒न्दते॒ वसु॑ ।। २९ ।।
अदि॑त्या॒स्त्वग॑स्यदि॑त्यै॒ सद॒ आसी॑द । अस्त॑भ्ना॒द्द्यां वृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माणं॑ पृथि॒व्याः ।
आऽसी॑द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ।। ३० ।।
वने॑षु॒ व्यन्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑सु । हृ॒त्सु क्रतुं॒ वरु॑णो वि॒क्ष्व॒ग्निं दि॒वि सूर्य॑मदधा॒त् सोम॒मद्रौ॑ ।। ३१ ।।
सूर्य॑स्य॒ चक्षु॒रारो॑हा॒ग्नेर॒क्ष्णः क॒नीन॑कम् । यत्रै॑त्रशेभि॒रीय॑से॒ भ्राज॑मानो विप॒श्चिता॑ ।। ३२ ।।
उस्रा॒वेतं॑ धूर्षाहौ यु॒ज्येथा॑मन॒श्रू अवी॑रहणौ ब्रह्म॒चोद॑नौ । स्व॒स्ति यज॑मानस्य गृ॒हान् ग॑च्छतम् ।। ३३ ।।
भ॒द्रो मे॑ऽसि॒ प्रच्य॑वस्व भुवस्पते॒ विश्वा॑न्य॒भि धामा॑नि । मा त्वा॑ परिप॒रिणो॑ विद॒न् मा त्वा॑ परिप॒न्थिनो॑ विद॒न् मा त्वा॒ वृका॑ अघा॒यवो॑ विदन् । श्ये॒नो भू॒त्वा परा॑ पत॒ यज॑मानस्य गृ॒हान् ग॑च्छ॒ तन्नौ॑ सस्कृ॒तम् ।। ३४ ।।
नमो॑ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तᳪ स॑पर्यत । दू॑रे॒दृशे॑ दे॒वजा॑ताय के॒तवे॑ दि॒वस्पु॒त्राय॒ सूर्या॑य शᳪसत ।। ३५ ।।
वरु॑णस्यो॒त्तम्भ॑नमसि वरु॑णस्य स्कम्भ॒सर्ज॑नी स्थो वरु॑णस्य ऋत॒सद॑न्यसि॒ वरु॑णस्य ऋत॒सद॑नमसि
वरु॑णस्य ऋत॒सद॑न॒मा सी॑द ।। ३६ ।।
या ते॒ धामा॑नि ह॒विषा॒ यज॑न्ति॒ ता ते॒ विश्वा॑ परि॒भूर॑स्तु य॒ज्ञम् ।
ग॒य॒स्फ़ान॑: प्र॒तर॑णः सु॒वीरोऽवी॑रहा॒ प्र च॑रा सोम॒ दुर्या॑न् ।। ३७ ।।

शुक्लयजुर्वेद माध्यन्दिन संहिता पञ्चमोध्यायः

हरि: ॐ अ॒ग्नेस्त॒नूर॑सि॒ विष्ण॑वे त्वा॒ सोम॑स्य त॒नूर॑सि॒ विष्ण॑वे॒ त्वा ऽति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे त्वा श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे त्वा॒ऽग्नये॑ त्वा रायस्पोष॒दे विष्ण॑वे त्वा ।। १ ।।
अ॒ग्नेर्ज॒नित्र॑मसि वृष॑णौ स्थ उ॒र्वश्य॑स्या॒युर॑सि पुरू॒रवा॑ असि । गा॒य॒त्रेण॑ त्वा॒ छन्द॑सा मन्थामि॒ त्रै॑ष्टुभेन त्वा॒ छन्द॑सा मन्थामि॒ जाग॑तेन त्वा॒ छन्द॑सा मन्थामि ।। २ ।।
भव॑तं न॒: सम॑नसौ॒ सचे॑तसावरे॒पसौ॑ । मा य॒ज्ञᳪ हि॑ᳪसिष्टं॒ मा य॒ज्ञप॑तिं जातवेदसौ शिवौ भ॑वतम॒द्य न॑: ।। ३ ।।
अ॒ग्नाव॒ग्निश्च॑रति॒ प्रवि॑ष्ट॒ ऋषी॑णां पु॒त्रो अ॑भिशस्ति॒पावा॑ । स न॑: स्यो॒नः सु॒यजा॑ यजे॒ह दे॒वेभ्यो॑ ह॒व्यᳪ सद॒मप्र॑युच्छ॒न्त्स्वाहा॑ ।। ४ ।।
आप॑तये त्वा॒ परि॑पतये गृह्णामि॒ तनू॒नप्त्रे॑ शाक्व॒राय॒ शक्व॑न॒ ओजि॑ष्ठाय । अना॑धृष्टमस्यनाधृ॒ष्यं दे॒वाना॒मोजोऽन॑भिशस्त्यभिशस्ति॒पा अ॑नभिशस्ते॒न्यमञ्ज॑सा स॒त्यमुप॑गेषᳪ स्वि॒ते मा॑ धाः ।। ५ ।।
अग्ने॑ व्रतपा॒स्त्वे व्र॑त॒पा या तव॑ त॒नूरि॒यᳪ सा मयि॒ यो मम॑ त॒नूरे॒षा सा त्वयि॑ । स॒ह नौ॑ व्रतपते व्र॒तान्यनु॑ मे दी॒क्षां दी॒क्षाप॑ति॒र्मन्य॑ता॒मनु॒ तप॒स्तप॑स्पतिः ।। ६ ।।
अ॒jशुर॑ᳪशुष्टे देव सो॒माप्या॑यता॒मिन्द्रा॑यैकधन॒विदे॑ । आ तुभ्य॒मिन्द्र॒: प्याय॑ता॒मा त्वमिन्द्रा॑य प्यायस्व । आ प्या॑यया॒स्मान्त्सखी॑न्त्स॒न्या मे॒धया॑ स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शीय । एष्टा॒ राय॒: प्रेषे भगा॑य ऋ॒तमृ॑तवा॒दिभ्यो॒ नमो॒ द्यावा॑पृथि॒वीभ्या॑म् ।। ७ ।।
या ते॑ अग्नेऽयःश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठा । उ॒ग्रं वचो॒ अपा॑वधीत्त्वे॒षं वचो॒ अपा॑वधी॒त्स्वाहा॑ ।
या ते॑ अग्ने रजःश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठा । उ॒ग्रं वचो॒ अपा॑वधीत्त्वे॒षं वचो॒ अपा॑वधी॒त्स्वाहा॑ ।
या ते॑ अग्ने हरिश॒या त॒नूर्वर्षि॑ष्ठा गह्वरे॒ष्ठा । उ॒ग्रं वचो॒ अपा॑वधीत्त्वे॒षं वचो॒ अपा॑वधी॒त्स्वाहा॑ ।। ८ ।।
त॒प्ताय॑नी मेऽसि वि॒त्ताय॑नी मेऽस्यव॑तान्मा नाथि॒तादव॑तान्मा व्यथि॒तात् । वि॒देद॒ग्निर्नभो॒ नामा ऽग्ने॑ अङ्गिर॒ आयु॑ना॒ नाम्नेहि॒
योऽस्यां पृ॑थि॒व्यामसि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे वि॒देद॒ग्निर्न॒भो॒ नामा ऽग्ने॑ अङ्गिर॒ आयु॑ना॒ नाम्नेहि॒
यो द्वि॒तीय॑स्यां पृथि॒व्यामसि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे वि॒देद॒ग्निर्न॒भो नामा ऽग्ने॑ अङ्गिर॒ आयु॑ना॒ नाम्नेहि॑ यस्तृ॒तीय॑स्यां पृथि॒व्यामसि॒ यत्तेऽना॑धृष्टं॒ नाम॑ य॒ज्ञियं॒ तेन॒ त्वा द॑धे । अनु॑ त्वा दे॒ववी॑तये ।। ९ ।।
सि॒jह्य॒सि सपत्नसा॒ही दे॒वेभ्य॑: कल्पस्व सि॒jह्य॒सि सपत्नसा॒ही दे॒वेभ्य॑:शुन्धस्व सि॒jह्य॒सि सपत्नसा॒ही दे॒वेभ्य॑: शुम्भस्व ।। १० ।।
इ॒न्द्र॒घो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता॑त्पातु प्रचे॑तास्त्वा रुद्रैः प॒श्चात्पा॑तु मनो॑जवास्त्वा पि॒तृभि॑र्दक्षिण॒तः पा॑तु
वि॒श्वक॑र्मा त्वाऽऽदि॒त्यैरु॑त्तर॒तः पा॑त्वि॒दम॒हं त॒प्तं वार्ब॑हि॒र्धा य॒ज्ञान्निः सृ॑जामि ।। ११ ।।
सि॒jह्य॒सि॒ स्वाहा॑ सि॒jह्य॒स्यादित्य॒वनि॒: स्वाहा॑ सि॒jह्य॒सि ब्रह्म॒वनि॑: क्षत्र॒वनि॒: स्वाहा॑
सि॒jह्य॒सि सुप्रजा॒वनी॑ रायस्पोष॒वनि॒: स्वाहा॑ सि॒jह्यस्याव॑ह दे॒वान् यज॑मानाय॒ स्वाहा॑
भू॒तेभ्य॑स्त्वा ।। १२ ।।
ध्रु॒वो॒ऽसि पृथि॒वीं दृ॑ᳪह ध्रुव॒क्षिद॑स्य॒न्तरि॑क्षं दृᳪहाच्युत॒क्षिद॑सि॒ दिवं॑ दृᳪहा॒ग्नेः पुरी॑षमसि ।। १३ ।।
यु॒ञ्जते॒ मन॑ उ॒त यु॑ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चित॑: ।
वि होत्रा॑ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुति॒: स्वाहा॑ ।। १४ ।।
इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् । समू॑ढमस्य पाᳪसु॒रे स्वाहा॑ ।। १५ ।।
इरा॑वती धेनु॒मती॒ हि भू॒तᳪ सू॑यव॒सिनी॒ मन॑वे दश॒स्या । व्य॑स्कभ्ना॒ रोद॑सी विष्णवे॒ते दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखै॒: स्वाहा॑ ।। १६ ।।
दे॒व॒श्रुतौ॑ दे॒वेष्वा घो॑षतं॒ प्राची॒ प्रेत॑मध्व॒रं क॒ल्पय॑न्ती ऊ॒र्ध्वं य॒ज्ञं न॑यतं॒ मा जि॑ह्वरतम् ।
स्वं गो॒ष्ठमा व॑दतं देवी दुर्ये॒ आयु॒र्मा निर्वा॑दिष्टं प्र॒जां मा निर्वा॑दिष्ट॒मत्र॑ रमेथां॒ वर्ष्म॑न् पृथि॒व्याः ।। १७ ।।
विष्णो॒र्नुकं॑ वी॒र्या॒णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे रजा॑ᳪसि ।
यो अस्क॑भाय॒दुत्त॑रᳪ स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यो विष्ण॑वे त्वा ।। १८ ।।
दि॒वो वा॑ विष्ण उ॒त वा॑ पृथि॒व्या म॒हो वा॑ विष्ण उ॒रोर॒न्तरि॑क्षात् ।
उ॒भा हि हस्ता॒ वसु॑ना पृ॒णस्वा प्र य॑च्छ॒ दक्षि॑णा॒दोत स॒व्याद्विष्ण॑वे त्वा ।। १९ ।।
प्र तद्विष्णु॑ स्तवते वी॒र्ये॒ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः ।
यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑ ।। २० ।।
विष्णो॑ र॒राट॑मसि॒ विष्णो॒: श्नप्त्रे॑ स्थो विष्णो॒: स्यूर॑सि॒ विष्णो॑र्ध्रु॒वो॒ऽसि ।
वै॒ष्ण॒वम॑सि॒ विष्ण॑वे त्वा ।। २१ ।।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
आ द॑दे॒ नार्य॑सी॒दम॒हᳪ रक्ष॑सां ग्री॒वा अपि॑ कृन्तामि ।
बृ॒हन्न॑सि बृ॒हद्र॑वा बृह॒तीमिन्द्रा॑य॒ वाचं॑ वद ।। २२ ।।
र॒क्षो॒हणं॑ वलग॒हनं॑ वैष्ण॒वी मि॒दम॒हं तं व॑ल॒गमुत्कि॑रामि॒ यं मे॒ निष्ट्यो॒ यम॒मात्यो॑ निच॒खाने॒दम॒हं तं व॑ल॒गमुत्कि॑रामि॒ यं मे॑ समा॒नो यमस॑मानो निच॒खाने॒दम॒हं तं व॑ल॒गमुत्कि॑रामि॒ यं मे॒ सब॑न्धु॒र्यमस॑बन्धुर्निच॒खाने॒दम॒हं तं व॑ल॒गमुत्कि॑रामि॒ यं मे॑ सजा॒तो यमस॑जातो निच॒खानोत्कृ॒त्यां कि॑रामि ।। २३ ।।
स्व॒राड॑सि सपत्न॒हा स॑त्र॒राड॑स्यभिमाति॒हा ज॑न॒राड॑सि रक्षो॒हा स॑र्व॒राड॑स्यमित्र॒हा ।। २४ ।।
र॒क्षो॒हणो॑ वो वलग॒हन॒: प्रोक्षा॑मि वैष्ण॒वान् र॑क्षो॒हणो॑ वो वलग॒हनोऽव॑नयामि वैष्ण॒वान् र॑क्षो॒हणो॑ वो वलग॒हनोऽव॑स्तृणामि वैष्ण॒वान्
र॑क्षो॒हणौ॑ वां वलग॒हना॒ उप॑ दधामि वैष्ण॒वी र॑क्षो॒हणौ॑ वां वलग॒हनौ॒ पर्यू॑हामि वैष्ण॒वी वै॑ष्ण॒वम॑सि वै॑ष्ण॒वा स्थ॑ ।। २५ ।।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आ द॑दे॒ नार्य॑सी॒दम॒हᳪ रक्ष॑सां ग्री॒वा अपि॑ कृन्तामि ।
यवो॑ऽसि य॒वया॒स्मद्द्वेषो॑ य॒वयारा॑तीर्दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा शुन्ध॑न्तांल्लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑नमसि ।। २६ ।।
उद्दिव॑ᳪ स्तभाना॒न्तरि॑क्षं पृण॒ दृᳪह॑स्व पृथि॒व्याम् द्यु॑ता॒नास्त्वा॑ मारु॒तो मिनो॑तु मि॒त्रावरु॑णौ ध्रु॒वेण॒ धर्म॑णा ।
ब्र॒ह्म॒वनि॑ त्वा क्षत्र॒वनि॑ रायस्पोष॒वनि॒ पर्यू॑हामि । ब्रह्म॑ दृᳪह क्ष॒त्रं दृ॒ᳪहायु॑र्दृᳪह प्र॒जां दृ॑ᳪह ।। २७ ।।
ध्रु॒वासि॑ ध्रु॒वोऽयं यज॑मानो॒ऽस्मिन्ना॒यत॑ने प्र॒जया॑ प॒शुभि॑र्भूयात् ।
घृ॒तेन॑ द्यावापृथिवी पूर्येथा॒मिन्द्र॑स्य छ॒दिर॑सि विश्वज॒नस्य॑ छा॒या ।। २८ ।।
परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वत॑:। वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा॑ भवन्तु॒ जुष्ट॑यः ।। २९ ।।
इन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वो॑ऽसि । ऐ॒न्द्रम॑सि वैश्वदे॒वम॑सि ।। ३० ।।
वि॒भूर॑सि प्र॒वाह॑णो॒ वह्नि॑रसि हव्य॒वाह॑नः । श्वा॒त्रो॒ऽसि॒ प्रचे॑तास्तु॒थो॑ऽसि वि॒श्ववे॑दाः ।। ३१ ।।
उ॒शिग॑सि क॒विरङ्घा॑रिरसि॒ बम्भा॑रिरव॒स्यूर॑सि॒ दुव॑स्वाञ्छु॒न्ध्यूर॑सि मार्जा॒लीय॑: स॒म्राड॑सि कृ॒शानु॑: परि॒षद्यो॑ऽसि॒ पव॑मानो॒ नभो॑ऽसि प्र॒तक्वा॑
मृ॒ष्टो॒ऽसि हव्य॒सूद॑न ऋ॒त॒धा॑माऽसि॒ स्व॒र्ज्योतिः ।। ३२ ।।
स॒मु॒द्रो॒ऽसि वि॒श्वव्य॑चा अ॒जोऽस्येक॑पा॒दहि॑रसि बु॒ध्न्यो वाग॑स्यै॒न्द्रम॑सि॒ सदो॒ऽस्यृत॑स्य द्वारौ॒ मा मा॒ सनता॑प्त॒मध्व॑नामध्वपते॒ प्र मा॑ तिर स्व॒स्ति मे॒ऽस्मिन्प॒थि दे॑व॒याने॑ भूयात् ।। ३३।।
मि॒त्रस्य॑ मा॒ चक्षु॑षेक्षध्व॒मग्न॑यः सगराः॒ सग॑रा स्थ॒ सग॑रेण॒ नाम्ना॒ रौद्रे॒णानी॑केन पा॒त मा॑ऽग्नयः पिपृ॒त मा॑ऽग्नयो गोपा॒यत॑ मा॒ नमो॑ वोऽस्तु॒ मा मा॑ हिᳪसिष्ट ।। ३४ ।।
ज्योति॑रसि वि॒श्वरू॑पं॒ विश्वे॑षां दे॒वाना॑ᳪ स॒मित् । त्वᳪ सो॑म तनू॒कृद्भ्यो॒ द्वेषो॑भ्यो॒ऽन्यकृ॑तेभ्य उ॒रु य॒न्तासि॒ वरू॑थ॒ᳪ स्वाहा॑
जुषा॒णो अ॒प्तुराज्य॑स्य वेतु॒ स्वाहा॑ ।। ३५ ।।
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान्विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒ध्यस्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ उक्तिं विधेम ।। ३६ ।।
अ॒यं नो॑ अ॒ग्निर्वरि॑वस्कृणोत्व॒यं मृध॑: पु॒र ए॑तु प्रभि॒न्दन् ।
अ॒यं वाजा॑ञ्जयतु॒ वाज॑साताव॒यᳪ शत्रू॑ञ्जयतु॒ जर्हृ॑षाण॒: स्वाहा॑ ।। ३७ ।।
उ॒रु वि॑ष्णो॒ वि क्र॑मस्वो॒रु क्षया॑य नस्कृधि ।
घृ॒तं घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर॒ स्वाहा॑ ।। ३८ ।।
देव॑ सवितरे॒ष ते॒ सोम॒स्तᳪ र॑क्षस्व॒ मा त्वा॑ दभन् ।
ए॒तत्त्वं दे॑व सोम दे॒वो दे॒वाँ२ उपा॑गा इ॒दम॒हं म॑नु॒ष्या॒न्त्स॒ह रा॒यस्पोषे॑ण स्वाहा॒ निर्वरु॑णस्य॒ पाशा॑न्मुच्ये ।। ३९ ।।
अग्ने॑ व्रतपा॒स्त्वे व्र॑त॒पा या तव॑ त॒नूर्मय्यभू॑दे॒षा सा त्वयि॒ यो मम॑ त॒नूस्त्वय्यभू॑दि॒यᳪ सा मयि॑ ।
य॒था॒य॒थं नौ॑ व्रतपते व्र॒तान्यनु॑ मे दी॒क्षां दी॒क्षाप॑ति॒रम॒ᳪस्तानु॒ तप॒स्तप॑स्पतिः ।। ४० ।।
उ॒रु वि॑ष्णो॒ वि क्र॑मस्वो॒रु क्षया॑य नस्कृधि । घृ॒तं घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर॒ स्वाहा॑ ।। ४१ ।।
अत्य॒न्याँ२ अगां॒ नान्याँ२ उपा॑गाम॒र्वाक् त्वा॒ परे॒भ्योऽवि॑दं प॒रोऽव॑रेभ्यः ।
तं त्वा॑ जुषामहे देव वनस्पते देवय॒ज्यायै॑ दे॒वास्त्वा॑ देवय॒ज्यायै॑ जुषन्तां॒ विष्ण॑वे त्वा ।
ओष॑धे॒ त्राय॑स्व स्वधि॑ते॒ मैन॑ᳪ हिᳪसीः ।। ४२ ।।
द्यां मा ले॑खीर॒न्तरि॑क्षं॒ मा हि॑ᳪसीः पृथि॒व्या सम्भ॑व ।
अ॒यᳪ हि त्वा॒ स्वधि॑ति॒स्तेति॑जानः प्रणि॒नाय॑ मह॒ते सौ॑भगाय ।
अत॒स्त्वं दे॑व वनस्पते श॒तव॑ल्शो॒ वि रो॑ह स॒हस्र॑वल्शा॒ वि व॒यᳪ रु॑हेम ।। ४३ ।।

error: Content is protected !!