अस्मदीयं राष्ट्रं भारतं सप्तचत्वारिंशदुत्तरनवदशतमाब्दस्य अगस्तमासस्य पञ्चदशके दिनाङ्के स्वातन्त्र्यमलभत।स्वतन्त्रताप्राप्त्यर्थं नैके राष्ट्रैसेवाव्रतिनो भारतीसपुत्रा नैजान् प्राणान् अत्यजन्।तेषां राष्ट्राय हुतात्मनां त्यागशौर्यबलिदानादिकं नितरां स्मृतिपटले सदास्मदीयहृच्चेतनासु “इदं राष्ट्राय इदं न मम”इति श्रुतिवचनं स्मारयेत्तथा राष्ट्राय समर्पणभावं जागरयेदित्यादिकं लक्ष्यीकृत्य भारतसर्वकारेण तद्दिनं राष्ट्रियपर्वत्वेनोद्घुष्टमथ च समग्रभारते “स्वतन्त्रतादिवस:””स्वातन्त्र्योत्सव:” समायोज्यते।अनेन लक्ष्यीक्रियते महत्काठिन्येन यल्लब्धं स्वातन्त्र्यं तत्पुन: पारतन्त्र्ये परिवर्तितं न स्यात्।अत्र मनसि नैका: जिज्ञासा: समुद्भवन्ति।तद्यथा-
१.किं नाम स्वातन्त्र्यम्?
२.किमर्थं स्वातन्त्र्यम्?
३.स्वातन्त्र्यस्य वास्तविकं स्वरूपं किम्?
४.कथं वा परिरक्षितं स्याद्भारतीयं स्वातन्त्र्यम्?
तत्र सर्वादौ विचारयामो वयं “किन्नाम स्वातन्त्र्यम्”।स्वातन्त्र्यमिति पदं स्वतन्त्रपदान्निष्पद्यते।यत्कृते आङ्गलभाषायाम् “Freedom”इति पदं प्रयुज्यते।इदञ्च स्वातन्त्र्यपदं “स्वम् (आत्मीयम्),तन्त्रं( प्रधानं सिद्धान्तो विस्तारो वा)इति द्वाभ्यां पदाभ्यां नैकविधव्युत्पत्तिद्वारा व्युत्पादयितुं शक्यते।स्वस्य तन्त्रमिति षष्ठीसमासव्युत्पत्त्या आत्मन: प्राधान्यमित्यर्थ:” तन्त्रं प्रधानं सिद्धान्त”इति कोषवचनात्। स्वं तन्त्रं यत् तत् स्वतन्त्रम् इति कर्मधारायसमासव्युत्पत्त्या आत्मीयशासनमात्मशासनं वेत्यर्थ:”तन्त्रं शासनम्”इति वचनात्।स्वं तन्त्रं यस्येति बहुव्रीहिसमासव्युत्पत्त्या स्वतन्त्रोऽर्थात् स्वाधीन: प्रमुखो जनविशेष इत्यर्थ:।इत्थं स्वस्य प्राधान्यं यस्मिन् शासने राष्ट्रे वा तत् शासनं राष्ट्रं वा स्वतन्त्रम्।यस्य प्राधान्यं स जन: सिद्धान्तो वा स्वतन्त्र:।स्वतन्त्रस्य भाव: स्वातन्त्र्यम् इति।
साम्प्रतं “किमर्थं स्वातन्त्र्यम्” इति विचारयाम:-कस्यचिद्व्यक्ते: शारीरिक-मानसिक-आध्यात्मिक-शैक्षिक-धार्मिक-नैतिक-भौतिकादिविकासान् अभिवर्धयितुं तथा कस्यचिदपि राष्ट्रस्य सर्वविधौन्नत्यर्थसम्पादनार्थं राष्ट्रगौरवसंस्कृतिसभ्यतादीनां संरक्षणार्थञ्च स्वातन्त्र्यं नितरामावश्यकम्।यतोहि पारतन्त्र्ये (बन्धने पराधीनतायां वा) कस्यचिज्जीवाय राष्ट्राय च स्वोन्नतिविकासावसरो नोपलभ्यते।अतो जीवमात्रस्य राष्ट्रस्य च उन्नत्यै स्वातन्त्र्यमतीवावश्यकम्।
अधुना भारतीयपरिप्रेक्ष्ये स्वातन्त्र्यस्य वास्तविकं स्वरूपं परिशीलयाम:।भारते स्वातन्त्र्यस्य वास्तविकं स्वरूपं विश्ववन्द्या भारतीया संस्कृतिर्वर्तते।तत्रैते मुख्यबिन्दवो मन्मतौ अन्तर्भवन्ति
१.सर्वेषामधिकार: स्वतन्त्रता।
२.सर्वधर्मसमादर:।
३.जीवनशैली आचारव्यवहार: लौकिकपरम्पराश्च।
४.भाषा-वेशभूषा-भोजनादिकम्।
५.सभ्यता शाशनव्यवस्था च।
६.आध्यात्मिकैतिहासिकभौतिकसमृद्धय:।
७.समृद्धसाहित्यम् ।
८.विश्वबन्धुत्व-लोकहितचिन्तन-जनकल्याणादिभावना।
एते समेऽप्यंशा: स्वातन्त्रस्य वास्तविकं स्वरूपं बोधयन्ति।
साम्प्रतं विचारयाम:” कथं वा परिरक्षितं स्यात् स्वातन्त्र्यम्” इति।
१.वेदबोधिताचारलक्षणधर्मपुरस्सरं नैतिकव्यवहारेण स्वातन्त्र्यं परिरक्षितं स्यात्।२.कामक्रोधलोभमोहादिवर्जनपुरस्सरं मनसानिशं स्वहितपरहितचिन्तनेन।येन स्वप्नेऽपि कस्यचिज्जीवस्याहितं न स्यात्।यत: तस्य स्वातन्त्र्यं नश्येदिति चिन्तनेन।
३.निजस्य स्वातन्त्र्यरक्षणाय अन्येषां स्वातन्त्र्यं न हन्यात् ।अर्थात् निजस्वातन्त्र्यरक्षणक्रमेअपरेषामपि स्वातन्त्र्यं परिरक्षणीयम्।येन एषा व्यवस्था परिरक्षिता स्यात्।
महद्दौर्भाग्यं वर्तते यदद्यत्वे वयं भारतीया: निजप्राणभूतत्त्वं विश्ववन्द्यां भारतीयां संस्कृतिं सन्त्यजन्त: पुन: पारतन्त्र्यपथे नित्यं वर्धमाना नित्यं पाश्चात्यसंस्कृतिम् अनुकुर्म:।तत्र चिन्त्या अंशा:-
१.सर्वप्राचीनभारतीयसभ्यतां विस्मृत्य पाश्चात्यसभ्यताया: गुणगानं कुर्म:।
२.परधर्मं निन्दाम:।
३.स्वजीवनशैलीं विस्मरन्त: पाश्चात्यजीवनशैलीमाचाराम:।तद्यथा-
अर्धनग्नवस्त्रं धराम:, स्नानपूजादिकं विनैव भोजनं कुर्म:,मदिरादिपानं कुर्म:,परस्परं विद्विषामहे,
मातृपित्रादिकं सन्त्यजाम:,वारम्वारं निजपत्नीं सन्त्यज्य परपत्न्या सहामर्शनं कुर्म:,विवाहात्पूर्वमेव स्त्रीसंसर्गं कुर्म:,प्रेमदिवसादिकमायोजयामश्च।
४.निजभाषां विहाय पाश्चात्यभाषां भाषमाणा गौरवमनुभवामः।
५.आध्यात्मिकैतिहासिकभौतिकसमृद्धि: न गणयाम:।
६.निजशासनव्यस्थाया विखण्डनं कुर्म:।
७.निजसाहित्यसम्पदायां दोषं दर्शयाम:।
८.विश्वबन्धुत्वादिभावं न स्मराम:।
९.स्वार्थसिद्धौ पराहितं कुर्म:।
इत्थं वक्तुं शक्यते यद् वयं स्वतन्त्रा: सन्तोऽपि वस्तुतो मानसिकरूपेण परतन्त्रा अद्यापि।अनिशं वयं पारतन्त्र्यपथे वर्धमाना: स्म:।यदा भारतीयनागरिका मानसिकरूपेण स्वतन्त्रा: भविष्यन्ति तदैव वस्तुतो नागरिका: स्वतन्त्रा:, अस्मदीया शासनव्यवस्था स्वतन्त्रा अस्मदीयं राष्ट्रञ्च स्वतन्त्रम् इति शम्।

लेखक :- शिवंकर पाण्डेय:

error: Content is protected !!