अगस्तिरुवाच-
अतः परं भरतस्य कवचं ते वदाम्यहम् ।
सर्वपापहरं पुण्यं सदा श्रीरामभक्तिदम् ॥ १॥

कैकेयीतनयं सदा रघुवरन्यस्तेक्षणं श्यामलं
सप्तद्वीपपतेर्विदेहतनयाकान्तस्य वाक्ये रतम् ।
श्रीसीताधवसव्यपार्श्वनिकटे स्थित्वा वरं चामरं
धृत्वा दक्षिणसत्करेण भरतं तं वीजयन्तं भजे ॥ २॥

ॐ अस्य श्रीभरतकवचमन्त्रस्य अगस्त्य ऋषिः ।
श्रीभरतो देवता । अनुष्टुप् छन्दः । शङ्ख इति बीजम् ।
कैकेयीनन्दन इति शक्तिः । भरतखण्डेश्वर इति कीलकम् ।
रामानुज इत्यस्त्रम् । सप्तद्वीपेश्वरदास इति कवचम् ।
रामांशज इति मन्त्रः ।
श्रीभरतप्रीत्यर्थं सकलमनोरथसिद्ध्यर्थं जपे विनियोगः ॥

अथ अङ्गुळीन्यासः –
ॐ भरताय अङ्गुष्ठाभ्यां नमः ।
ॐ शङ्खाय तर्जनीभ्यां नमः ।
ॐ कैकेयीनन्दनाय मध्यमाभ्यां नमः ।
ॐ भरतखण्डेश्वराय अनामिकाभ्यां नमः ।
ॐ रामानुजाय कनिष्ठिकाभ्यां नमः ।
ॐ सप्तद्वीपेश्वरदासाय करतलकरपृष्ठाभ्यां नमः ॥

हृदयादिन्यासः –
ॐ भरताय हृदयाय नमः ।
ॐ शङ्खाय शिरसे स्वाहा ।
ॐ कैकेयीनन्दनाय शिखायै वषट् ।
ॐ भरतखण्डेश्वराय कवचाय हुम् ।
ॐ रामानुजाय नेत्रत्रयाय वौषट् ।
ॐ सप्तद्वीपेश्वरदासाय अस्त्राय फट् ।
ॐ रामांशजेति दिग्बन्धः ॥

अथ ध्यानम् –
रामचन्द्रसव्यपार्श्वे स्थितं केकयजासुतम् ।
रामाय चामरेणैव वीजयन्तं मनोरमम् ॥ १॥

रत्नकुण्डलकेयूरकङ्कणादिसुभूषितम् ।
पीताम्बरपरिधानं वनमालाविराजितम् ॥ २॥

माण्डवीधौतचरणं रशनानूपुरान्वितम् ।
नीलोत्पलदलश्यामं द्विजराजसमाननम् ॥ ३॥

आजानुबाहुं भरतखण्डस्य प्रतिपालकम् ।
रामानुजं स्मितास्यं च शत्रुघ्नपरिवन्दितम् ॥ ४॥

रामन्यस्तेक्षणं सौम्यं विद्युत्पुञ्जसमप्रभम् ।
रामभक्तं महावीरं वन्दे तं भरतं शुभम् ॥ ५॥

एवं ध्यात्वा तु भरतं रामपादेक्षणं हृदि ।
कवचं पठनीयं हि भरतस्येदमुत्तमम् ॥ ६॥

अथ कवचप्रारम्भः ।
ॐ पूर्वतो भरतः पातु दक्षिणे कैकयीसुतः ।
नृपात्मजः प्रतीच्यां हि पातूदीच्यां रघूत्तमः ॥ १॥

अधः पातु श्यामलाङ्गः चोर्ध्वं दशरथात्मजः ।
मध्ये भारतवर्षेशः सर्वतः सूर्यवंशजः ॥ २॥

शिरो दक्षपिता पातु भालं पातु हरिप्रियः ।
भ्रुवोर्मध्यं जनकजावाक्यैकतत्परोऽवतु ॥ ३॥

पातु जनक-जामाता मम नेत्रे सदाऽत्र हि ।
कपोले माण्डवीकान्तः कर्णमूले स्मिताननः ॥ ४॥

नासाग्रं मे सदा पातु कैकेयीतोषवर्धनः ।
उदाराङ्गो मुखं पातु वाणीं पातु जटाधरः ॥ ५॥

पातु पुष्करतातो मे जिह्वां दन्तान् प्रभामयः ।
चिबुकं वल्कलधरः कण्ठं पातु वराननः ॥ ६॥

स्कन्धौ पातु जितारातिर्भुजौ शत्रुघ्नवन्दितः ।
करौ कवचधारी च नखान् खड्गधरोऽवतु ॥ ७॥

कुक्षिं रामानुजः पातु वक्षः श्रीरामवल्लभः ।
पार्श्वे राघवपार्श्वस्थः पातु पृष्ठं सुभाषणः ॥ ८॥

जठरं च धनुर्धारी नाभिं शरकरोऽवतु ।
कटिं पद्मेक्षणः पातु गुह्यं रामैकमानसः ॥ ९॥

राममित्रः पातु लिङ्गमूरू श्रीरामसेवकः ।
नन्दिग्रामस्थितः पातु जानुनी मम सर्वदा ॥ १०॥

श्रीरामपादुकाधारी पातु जङ्घे सदा मम ।
गुल्फौ श्रीरामबन्धुश्च पादौ पातु सुरार्चितः ॥ ११॥

रामाज्ञापालकः पातु ममाङ्गान्यत्र सर्वदा ।
मम पादाङ्गुळीः पातु रघुवंशसुभूषणः ॥ १२॥

रोमाणि पातु मे रम्यः पातु रात्रौ सुधीर्मम । (सुधीश्च माम्)
तूणीरधारी दिवसे दिक् पातु मम सर्वदा ॥ १३॥

सर्वकालेषु मां पातु पाञ्चजन्यः सदा भुवि ।
एवं श्रीभरतस्येदं सुतीक्ष्ण कवचं शुभम् ॥ १४॥

मया प्रोक्तं तवाग्रे हि महामङ्गलकारकम् ।
स्तोत्राणामुत्तमं स्तोत्रमिदं ज्ञेयं सुपुण्यदम् ॥ १५॥

पठनीयं सदा भक्त्या रामचन्द्रस्य हर्षदम् ।
पठित्वा भरतस्येदं कवचं रघुनन्दनः ॥ १६॥

यथा याति परं तोषं तथा स्वकवचेन न ।
तस्मादेतत् सदा जप्यं कवचानामनुत्तमम् ॥ १७॥

अस्यात्र पठनान्मर्त्यः सर्वान् कामानवाप्नुयात् ।
विद्याकामो लभेद्विद्यां पुत्रकामो लभेत् सुतम् ॥ १८॥

पत्नीकामो लभेत् पत्नीं धनार्थी धनमाप्नुयात् ।
यद्यन्मनोऽभिलषितं तत्तत्कवचपाठतः ॥ १९॥

लभ्यते मानवैरत्र सत्यं सत्यं वदाम्यहम् ।
तस्मात् सदा जपनीयं रामोपासकमानवैः ॥ २०॥

इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे
वाल्मिकीये मनोहरकाण्डे पञ्चदशसर्गान्तर्गतं
श्रीभरतकवचं सम्पूर्णम् ॥

हनुमत्-लक्ष्मण-सीता-राम-भरत-शत्रुघ्न
षट् कवचानि पठनीयम् ।
षट् कवचानि पठितुं अशक्तश्चेत्
हनुमत्-लक्ष्मण-सीता-राम –
अथवा हनुमत्-सीता-राम
अथवा हनुमत्-राम / सीता-राम कवचानि ।
अथवा श्रीरामकवचमेव पठनीयम् ॥

error: Content is protected !!