(श्रीश‍ृङ्गगिरौ – श्रीभवानीमलहानिकरेश्वरकल्याणोत्सवे)


चन्द्रार्धप्रविभासिमस्तकतटौ तन्द्राविहीनौ सदा
भक्तौघप्रतिपालने निजतनुच्छायाजितार्कायुतौ ।
श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ कारुण्यवारान्निधी
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ १॥

अन्योन्यार्चनतत्परौ मधुरवाक्सतोषितान्योन्यकौ
चन्द्रार्धाञ्चितशेखरौ प्रणमतामिष्टार्थदौ सत्वरम् ।
श‍ृङ्गाहिस्थविवाहमण्डपगतौ श‍ृङ्गारजन्मावनी
कल्पाणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥२॥

कामापत्तिविभूतिकारणदृशौ सोमार्धभूषोज्ज्वलौ
सामाम्नायसुगीयमानचरितौ रामार्चिताङ्घ्रिद्वयौ ।
श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ माणिक्यभूषान्वितौ
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ ३॥

सौन्दर्येण परस्परं प्रमुदितावन्योन्यचित्तस्थितौ
राकाचन्द्रसमानवक्त्रकमलौ पाकाब्जकालङ्कृतौ ।
श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ तुङ्गातटावासिनौ
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ ४॥

सिंहोक्षाग्र्यगती महोन्नतपदं सम्प्रापयन्तौ नता-
नंहोराशिनिवारणैकनिपुणौ ब्रह्मेन्द्रविष्ण्वर्चितौ ।
श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ गाङ्गेयभूषोज्ज्वलौ
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ ५॥

कस्तूरीघनसारचर्चिततनू प्रस्तूयमानौ सुरै-
रस्तूक्त्या प्रणतेष्टपूरणकरौ वस्तूपलब्धिप्रदौ ।
श‍ृङ्गाद्रिस्थविवाहमण्डपगतावङ्गावधूतेन्दुभौ
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ ६॥

वाणीनिर्जितहंसकोकिलरवौ पाणीकृताम्भोरुहौ
वेणीकेशविनिर्जिताहिचपलौ क्षोणीसमानक्षमौ ।
श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ तुङ्गेष्टजालप्रदौ
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ ७॥

दम्भाहङ्कृतिदोषशून्यपुरुषैः सम्भावनीयौ सदा
जम्भारातिमुखामरेन्द्रविनुतौ कुम्भात्मजाद्यर्चितौ ।
श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ वाग्दानदीक्षाधरौ
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ ८॥

शापानुग्रहशक्तिदाननिपुणौ तापापनोदक्षमौ
सोपानक्रमतोऽधिकारिभिरनुप्राप्यौ क्षमासागरौ ।
श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ लावण्यपाथोनिधी
कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥ ९॥

शोणाम्भोरुहतुल्यपादयुगलौ बाणार्चनातोषितौ
वीणाधृन्मुनिगीयमानविभवौ बालारुणाभाम्बरौ ।
श‍ृङ्गाद्रिस्थविवाहमण्डपगतौ तुल्याधिकैर्वर्जितौ
कल्याणं तनुतां समस्तजगतां गौरागिरीशौ मुदा ॥ १०॥

इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह-
भारतीस्वामिभिः विरचितः श्रीगौरीगिरीशकल्याणस्तवः सम्पूर्णः ।

error: Content is protected !!