कोरोनाख्यमहारोगं महामारी स्वरूपिणम्।
अस्यविषाक्तपरमाणून्क्षिप्रं शाम्यन्तु हेहरिः।।
कोरोनाद्यानिरोगाणि देशेतिष्ठन्ति मामके।
तेषांविषाक्तपरमाणून् क्षिप्रं शाम्यन्तु हेहरिः।।
नृसिंहो ! नरशार्दूलः भगवान् कमलापतिः।
आधिव्याधि महारोगान्प्रशाम्यन्तु कृपांकुरु।।
उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्।
नृसिंहं भीषणं भद्रं मृत्युर्मृत्युःनमाम्यहम्।।
उग्रं वीरं महावाहो नृसिंहो ! अरिसूदनः।
प्रशाम्यन्तु सर्वरोगाणुःदहत्यग्निरिवेन्धनम्।।
समुत्पन्नं महरोगं कोरोनाख्यं महाखलम्।
प्रमादाद्दैवयोगाच्च तं प्रशाम्यं कृपांकुरु।।
नृसिंहो!भगवान्विष्णुः नृसिंहो कमलापतिः।
नृसिंहो ! पालयेद्भक्तान् रक्ष रक्ष त्वयाधुना।।
त्वमेव कर्त्ता धर्त्ता च त्वमेव जगदीश्वरः।
विपत्तिरेषा क्षिप्रं हि निवारयेन्नः कृपांकुरु।।
न नृसिंहदेव भक्तानां अशुभंविद्यतेक्वचित्।
जन्ममृत्युजराव्याधि भयं नैवोपजायते ।।
इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः।।


डा.चूड़ामणि त्रिवेदी वेदाचार्यः

error: Content is protected !!