श्री शतकोटि रामचरितान्तर्गत श्रीमदानन्दरामायणे
पञ्चमः सर्गः प्रारम्भः ।
विष्णुदास उवाच –
श्रीरामरक्षया प्रोक्तं कुशायह्यभिमन्त्रणम् ।
कृतं तेनैव मुनिना गुरो तां मे प्रकाशय ॥ १॥

रामरक्षां वरां पुण्यां बालानां शान्तिकारिणीम् ।
इति शिष्यवचः श्रुत्वा रामदासोऽब्रवीद्वचः ॥ २॥

श्रीरामदास उवाच –
सम्यक् पृष्टं त्वया शिष्य रामरक्षाऽधुनोच्यते ।
या प्रोक्ता शम्भुना पूर्वं स्कन्दार्थे गिरिजां प्रति ॥ ३॥

श्रीशिव उवाच –
देव्यद्य स्कन्दपुत्राय रामरक्षाभिमन्त्रणम् ।
कुरु तारकघाताय समर्थोऽयं भविष्यति ॥ ४॥

इत्युक्त्वा कथयामास रामरक्षां शिवः स्त्रियै ।
नमस्कृत्य रामचन्द्रं शुचिर्भूत्वा जितेन्द्रियः ॥ ५॥

अथ ध्यानम् ।
वामे कोदण्डदण्डं निजकरकमले दक्षिणे बाणमेकं
पश्चाद्भागे च नित्यं दधतमभिमतं सासितूणीरभारम् ।
वामेऽवामे वसद्भयां सह मिलिततनुं जानकीलक्ष्मणाभ्यां
श्यामं रामं भजेऽहं प्रणतजनमनःखेदविच्छेददक्षम् ॥ ६॥

ॐ अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिकऋषिः ।
श्रीरामचन्द्रो देवता राम इति बीजम् ।
अनुष्टुप् छन्दः । श्रीरामप्रीत्यर्थे जपे विनियोगः ॥ ॥ ॐ ॥

चरितं रघुनाथस्य शतकोटिप्रविस्तरम् ।
एकैकमक्षरं पुंसां महापातकनाशनम् ॥ ७॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम् ।
जानकीलक्ष्मणोपेतं जटामुकुटमण्डितम् ॥ ८॥

सासितूणधनुर्बाणपाणिं नक्तञ्चरान्तकम् ।
स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम् ॥ ९॥

रामरक्षां पठेत्प्राज्ञः पापघ्नीं सर्वकामदाम् ।
शिरो मे राघवः पातु भालं दशरथात्मजः ॥ १०॥

कौसल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुती ।
घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सलः ॥ ११॥

जिह्वां विद्यानिधिः पातु कण्ठं भरतवन्दितः ।
स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः ॥ १२॥

करौ सीतापतिः पातु हृदयं जामदग्न्यजित् ।
पार्श्वे रघुवरः पातु कुक्षी इक्ष्वाकुनन्दनः ॥ १३ ॥

मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रयः ।
सुग्रीवेशः कटिं पातु सक्थिनी हनुमत्प्रभुः ॥ १४॥

ऊरू रघूत्तमः पातु गुह्यं रक्षःकुलान्तकृत् ।
जानुनी सेतुकृत् पातु जङ्घे दशमुखान्तकः ॥ १५॥

पादौ विभीषणश्रीदः पातु रामोऽखिलं वपुः ।
एतां रामबलोपेतां रक्षां यः सुकृती पठेत् ॥

स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥ १६॥

पातालभूतलव्योमचारिणश्छद्मचारिणः ।
न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ॥ १७॥

रामेति रामभद्रेति रामचन्द्रेति वा स्मरन् ।
नरो न लिप्यते पापैर्भुक्तिं मुक्तिं च विन्दति ॥ १८॥

जगज्जैत्रैकमन्त्रेण रामनाम्नाऽभिरक्षितम् ।
यः कण्ठे धरयेत्तस्य करस्थाः सर्वसिद्धयः ॥ १९॥

वज्रपञ्जरनामेदं यो रामकवचं पठेत् ।
अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् ॥ २०॥

आदिष्टवान् यथा स्वप्ने रामरक्षामिमां हरः ।
तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥ २१॥

रामो दशरथिः शूरो लक्ष्मणाऽनुचरो बली ॥

काकुत्स्थः पुरुषः पूर्णः कौसल्यानन्दवर्धनः ॥ २२॥

वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः ।
जानकीवल्लभः श्रीमानप्रमेयपराक्रमः ॥ २३॥

इत्येतानि जपेन्नित्यं यद्भक्तः श्रद्धयाऽन्वितः ।
अश्वमेधाधिकं पुण्यं लभते नात्रसंशयः ॥ २४॥ var अश्वमेधायुतं

सन्नद्धः कवची खड्गी चापबाणधरो युवा ।
गच्छन् मनोरथोऽस्माकं रामः पातु सलक्ष्मणः ॥ २५॥

तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ ।
पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥ २६॥

फलमूलाशनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥ २७॥

धन्विनौ बद्धनिस्त्रिंशौ काकपक्षधरौ श्रुतौ ।
वीरौ मां पथि रक्षेतां तावुभौ रामलक्ष्मणौ ॥ २८॥

शरण्यौ सर्वसत्त्वानां श्रेष्ठौ सर्वधनुष्मताम् ।
रक्षःकुलनिहन्तारौ त्रायेतां नो रघूत्तमौ ॥ २९॥

आत्तसज्जधनुषाविषुस्पृशावक्षयाशुगनिषङ्गसङ्गिनौ ।
रक्षणाय मम रामलक्ष्मणावग्रतः पथि सदैव गच्छताम् ॥ ३०॥

आरामः कल्पवृक्षाणां विरामः सकलापदाम् ।
अभिरामस्त्रिलोकानं रामः श्रीमान् स नः प्रभुः ॥ ३१॥

रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीतायाः पतये नमः ॥ ३२॥

श्रीराम रघुनन्दन राम राम
श्रीराम भरताग्रज राम राम ।
श्रीराम रणकर्कश राम राम
श्रीराम शरणं भव राम राम ॥ ३३॥

लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथम् ।
कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रं शरणं प्रपद्ये ॥ ३४॥

दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मजा । var तु
पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ॥ ३५॥

गोष्पदीकृतवारीशं मशकीकृतराक्षसम् ।
रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥ ३६॥

अघौघ तिष्ठ दूरे त्वं रोगास्तिष्ठन्तु दूरतः ।
वरीवर्ति सदाऽस्माकं हृदि रामो धनुर्धरः ॥ ३७॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥ ३८॥

राम राम तव पादपङ्कजं चिन्तयामि भवबन्धमुक्तये ।
वन्दितं सुरनरेन्द्रमौलिभिर्ध्यायितं मनसि योगिभिः सदा ॥ ३७॥

रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं
काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम् ।
राजेन्द्रं सत्यसन्धं दशरथनयं श्यामलं शान्तिमूर्तिं
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ॥ ४०॥

एतानि रामनामानि प्रातरुत्थाय यः पठेत् ।
अपुत्रो लभते पुत्रं धनार्थी लभते धनम् ॥ ४१॥

माता रामो मत्पिता रामचन्द्रः स्वामी रामो मत्सखा रामचन्द्रः ।
सर्वस्वं मे रामचन्द्रो दयालुर्नान्यं जाने नैव जाने न जाने ॥ ४२॥

श्रीरामनामामृतमन्त्रबीजसञ्जीवनी चेन्मनसि प्रविष्टा ।
हालाहलं वा प्रलयानलं वा मृत्योर्मुखं वा विशतां कुतो भीः ॥ ४३॥

श्रीशब्दपूर्वं जयशब्दमध्यं जयद्वयेनापि पुनः प्रयुक्तम् ।
त्रिःसप्तकृत्वो रघुनाथनाम जपान्निहन्याद्द्विजकोटिहत्याः ॥ ४४॥

एवं गिरीन्द्रजे प्रोक्ता रामरक्षा मया तव ।
मयोपदिष्टा या स्वास्यैर्विश्वामित्राय वै पुरा ॥ ४५॥

श्रीरामदास उवाच –
एवं शिवेनोपदिष्टां श्रुत्वा देवी गिरीन्द्रजा ।
रामरक्षां पठित्वा सा स्कन्दं समभिमन्त्रयत् ॥ ४६॥

तस्यास्तेजोबलेनैव जघान तारकासुरम् ।
षडाननः क्षणादेव कृतकृत्योऽभवत्पुरा ॥ ४७॥

सैवेयं रामरक्षा ते मयाऽऽख्याताऽतिपुण्यदा ।
यस्याः श्रवणमत्रेण कस्यापि न भयं भवेत् ॥ ४८॥

वाल्मीकीनाऽनया पूर्वं कुशाय ह्यभिषेचनम् ।
कृतं बालग्रहाणां च शान्त्यर्थं सा मयोदिता ॥ ४९॥

बालानां ग्रहशान्त्यर्थं जपनीया निरन्तरम् ।
रामरक्षा महाश्रेष्ठा महाघौघनिवारिणी ॥ ५०॥

नास्याः परतरं स्तोत्रं नास्याः परतरो जपः ।
नास्याः परतरं किञ्चित्सत्यं सत्यं वदाम्यहम् ॥ ५१॥

इति श्रीशतकोटिरामचरितान्तर्गते श्रीमदानन्दरामायणे
वाल्मीकीये जन्मकाण्डे रामरक्षाकथनं नाम पञ्चमः सर्गः ॥

error: Content is protected !!