आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोस्तुते ।। १

सप्ताश्व रथमारूढं प्रचंडं कश्यपात्मजं ।
श्वेत पद्मधरं देवं तं सूर्यं प्रणमाम्यहं ।। २

लोहितं रधमारूढं सर्व लोक पितामहं ।
महापाप हरं देवं तं सूर्यं प्रणमाम्यहं ।। ३

त्रैगुण्यं च महाशूरं ब्रह्म विष्णु महेश्वरं ।
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहं ।। ४

बृंहितं तेजः पुंजं च वायुमाकाश मेव च ।
प्रभुं च सर्व लोकानां तं सूर्यं प्रणमाम्यहं ।। ५

बंधूक पुष्प संकाशं हार कुंडल भूषितं ।
एक चक्रधरं देवं तं सूर्यं प्रणमाम्यहं ।। ६

तं सूर्यं जगत्कर्तारं महातेजः प्रदीपनं ।
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहं ।। ७

तं सूर्यं जगतां नाथं ज्ञान विज्ञान मोक्षदं ।
महा पाप हरं देवं तं सूर्यं प्रणमाम्यहं ।। ८

इति श्री शिवप्रोक्तं श्री सूर्याष्टकं संपूर्णं

error: Content is protected !!